पिञ्छभ्रान्तिर् यथा व्योम्नि पयस्य् आवर्तधीर् यथा । प्रतिभासकलामात्रं मनो जीवस् तथात्मनि
यद् एतन् मनसो रूपम् उदितं मननात्मकम् । ब्राह्मी शक्तिर् असौ तस्माद् ब्रह्मैव तद् अरिन्दम
इदं तद् अहम् इत्य् एव विभागः प्रतिभासजः । मनसो ब्रह्मणो ऽन्यत्वे मोहः परमकारणम्
यद् यच् चैतन्मननता किञ्चित् सदसदात्मकम् । शब्दितं सर्वशक्तेस् सा शक्तिर् ब्रह्मैव तां विदुः
मनस्सत्तात्मकं नाम यद् एतन् मनसि स्थितम् । तज् जातं प्रतिभासेन तेनैवान्येन नश्यति
प्रतियोगिव्यवच्छेदसङ्ख्यारूपादयश् च ये । मनश्शब्दैः प्रकल्प्यन्ते ब्रह्मजान् ब्रह्म विद्धि तान्
यथा यथास्य मनसः प्रतिभासः प्रवर्तते । तथा तथैव भवति दृष्टान्तो ऽत्र किलैन्दवाः
स्वयम् अक्षुब्धविमले यथा स्पन्दो महाम्भसि । संसारकारणं जीवस् तथायं परमात्मनि
ज्ञस्य सर्वचिता राम ब्रह्मैवावर्तते सदा । कल्लोलोर्मितरङ्गोघैर् अब्धेर् जलम् इवात्मनि
द्वितीया नास्ति सत्तैव नामरूपक्रियात्मिका । परे नानातरङ्गे ऽब्धौ कल्पनेव जलेतरा
जायते नश्यति तथा यद् इदं याति तिष्ठति । तद् इदं ब्रह्मणि ब्रह्म ब्रह्मणैव विवर्तते
स्वात्मन्य् एवातपस् तीव्रो मृगतृष्णिकया यथा । वैचित्र्येणाविचित्रो ऽपि स्फुरत्य् आत्मात्मना तथा
कारणं कर्म कर्ता च जननं मरणं स्थितिः । सर्वं ब्रह्मैव नान्यो ऽस्ति तद् विना कलनार्थतः
न लोभो ऽस्ति न मोहो ऽस्ति न तृष्णास्ति निरञ्जनाः । क आत्मन्य् आत्मनो लोभस् तृष्णा मोहो ऽथवा कुतः
आत्मैवेदं जगत् सर्वम् आत्मैव कलनाक्रमः । हेमाङ्गदतयेवायम् आत्मोदेति मनस्तया
अबुद्धं ब्रह्म यद् राम तच् चित्तं जीव उच्यते । अपरिज्ञात एवाशु बन्धुर् आयात्य् अबन्धुताम्
चिन्मयेनात्मनाज्ञेन स्वसङ्कल्पनया स्वयम् । शून्यता गगनेनेव जीवता प्रकटीकृता
आत्मैवानात्मवद् इह जीवो जगति राजते । द्वीन्दुत्वम् इव दुर्दृष्टेस् सच् चासच् च समुत्थितम्
मोहादिशब्दार्थदृशोर् एतयोर् अत्यसम्भवात् । सर्वत्वाद् आत्मनश् चैव क्वात्मा बद्धः क्व मुच्यते
नित्यासम्भवबन्धस्य बन्धो ऽस्तीति कुकल्पना । यस्य काल्पनिकस् तस्य मोक्षो मिथ्या न सत्यतः
मनो यन्निश्चयं याति तत् तद् भवति नान्यथा । तेन काल्पनिको नास्ति बन्धः कथम् इव प्रभो
मिथ्याकाल्पनिकैवेयं मूर्खाणां बन्धकल्पना । मिथ्यैवाभ्युदिता तेषाम् इतरा मोक्षकल्पना
एवम् अज्ञानकलने बन्धमोक्षदृशौ स्मृते । वस्तुतस् तु न बन्धो ऽस्ति न मोक्षो ऽस्ति महामते
कल्पनाया अवस्तुत्वं सम्प्रबुद्धमतिं प्रति । रज्ज्वहेर् इव हे प्राज्ञ न त्व् अबुद्धमतिं प्रति
बन्धमोक्षादिसम्मोहो न प्राज्ञस्यास्ति कश्चन । सम्मोहो बन्धमोक्षादिर् अज्ञस्यैवास्ति राघव
आदौ मनस् तदनु बन्धविमोक्षदृष्टी पश्चात् प्रपञ्चरचना भुवनाभिधाना । इत्यादिका स्थितिर् इयं हि गता प्रतिष्ठाम् आख्यायिका भवति बालजनोचितेव
किम् उच्यते मुनिश्रेष्ठ बालकाख्यायिकाक्रमः । क्रमेण कथयैतन् मे मनोवर्णनकारणम्
मुग्धमुग्धमतिर् बालो धात्रीं पृच्छति राघव । काञ्चित् कर्णपथायातां वर्णयाख्यायिकाम् इति
सा बालस्य विनोदाय धात्री तस्य महामते । आख्यायिकां कथयति प्रसन्नमधुराक्षराम्
क्वचित् सन्ति महात्मानो राजपुत्रास् त्रयश् शुभाः । विस्तीर्णे शून्यनगरे व्योम्नीवोज्ज्वलतारकाः