द्रवशक्तिर् अथाम्भस्सु तेजश्शक्तिस् तथानले । शून्यशक्तिर् अथाकाशे भावशक्तिर् भवस्थितौ
ब्रह्मणस् सर्वशक्तेर् हि दृश्यते दशदिग्गता । नाशशक्तिर् विनाश्येषु शोकशक्तिश् च शोकिषु
आनन्दशक्तिर् मुदिते वीर्यशक्तिर् महाभटे । सर्गेषु सर्गशक्तिश् च कल्पान्ते सर्वहारिता
फलपुष्पलतापत्त्रशाखाविटपपर्ववान् । वृक्षबीजे यथा वृक्षस् तथेदं ब्रह्मणि स्थितम्
प्रतिभासवशाद् एव मध्यस्थं चित्त्वजाड्ययोः । जीवेतराभिधं चित्तम् अन्तर् ब्रह्मणि दृश्यते
नानातरुलतागुल्मजालपल्लवशालयः । यथर्तौ शक्तयस् तद्वज् जीवेहा ब्रह्मणि स्थिताः
व्युप्तसर्वर्तुकुसुमा क्ष्मा देशविधिभेदतः । यथा ददाति पुष्पाणि तथा चित्तानि लोककृत्
क्वचित् काश्चित् कदाचिच् च तस्माद् आयान्ति शक्तयः । देशकालात् तु वैचित्र्यात् क्ष्मातलाद् इव शालयः
निर्विकल्पकचिन्मात्रनामाविज्ञातकल्पनम् । ब्रह्मैवेदम् अहं त्वं च जगदाशाश् च राघव
स आत्मा सर्वगो राम नित्योदितमहावपुः । यन् मनाङ्मननां शक्तिं धत्ते तन् मन उच्यते
पिञ्छभ्रान्तिर् यथा व्योम्नि पयस्य् आवर्तधीर् यथा । प्रतिभासकलामात्रं मनो जीवस् तथात्मनि
यद् एतन् मनसो रूपम् उदितं मननात्मकम् । ब्राह्मी शक्तिर् असौ तस्माद् ब्रह्मैव तद् अरिन्दम
इदं तद् अहम् इत्य् एव विभागः प्रतिभासजः । मनसो ब्रह्मणो ऽन्यत्वे मोहः परमकारणम्
यद् यच् चैतन्मननता किञ्चित् सदसदात्मकम् । शब्दितं सर्वशक्तेस् सा शक्तिर् ब्रह्मैव तां विदुः
मनस्सत्तात्मकं नाम यद् एतन् मनसि स्थितम् । तज् जातं प्रतिभासेन तेनैवान्येन नश्यति
प्रतियोगिव्यवच्छेदसङ्ख्यारूपादयश् च ये । मनश्शब्दैः प्रकल्प्यन्ते ब्रह्मजान् ब्रह्म विद्धि तान्
यथा यथास्य मनसः प्रतिभासः प्रवर्तते । तथा तथैव भवति दृष्टान्तो ऽत्र किलैन्दवाः
स्वयम् अक्षुब्धविमले यथा स्पन्दो महाम्भसि । संसारकारणं जीवस् तथायं परमात्मनि
ज्ञस्य सर्वचिता राम ब्रह्मैवावर्तते सदा । कल्लोलोर्मितरङ्गोघैर् अब्धेर् जलम् इवात्मनि
द्वितीया नास्ति सत्तैव नामरूपक्रियात्मिका । परे नानातरङ्गे ऽब्धौ कल्पनेव जलेतरा
जायते नश्यति तथा यद् इदं याति तिष्ठति । तद् इदं ब्रह्मणि ब्रह्म ब्रह्मणैव विवर्तते
स्वात्मन्य् एवातपस् तीव्रो मृगतृष्णिकया यथा । वैचित्र्येणाविचित्रो ऽपि स्फुरत्य् आत्मात्मना तथा
कारणं कर्म कर्ता च जननं मरणं स्थितिः । सर्वं ब्रह्मैव नान्यो ऽस्ति तद् विना कलनार्थतः
न लोभो ऽस्ति न मोहो ऽस्ति न तृष्णास्ति निरञ्जनाः । क आत्मन्य् आत्मनो लोभस् तृष्णा मोहो ऽथवा कुतः
आत्मैवेदं जगत् सर्वम् आत्मैव कलनाक्रमः । हेमाङ्गदतयेवायम् आत्मोदेति मनस्तया
अबुद्धं ब्रह्म यद् राम तच् चित्तं जीव उच्यते । अपरिज्ञात एवाशु बन्धुर् आयात्य् अबन्धुताम्
चिन्मयेनात्मनाज्ञेन स्वसङ्कल्पनया स्वयम् । शून्यता गगनेनेव जीवता प्रकटीकृता
आत्मैवानात्मवद् इह जीवो जगति राजते । द्वीन्दुत्वम् इव दुर्दृष्टेस् सच् चासच् च समुत्थितम्
मोहादिशब्दार्थदृशोर् एतयोर् अत्यसम्भवात् । सर्वत्वाद् आत्मनश् चैव क्वात्मा बद्धः क्व मुच्यते
नित्यासम्भवबन्धस्य बन्धो ऽस्तीति कुकल्पना । यस्य काल्पनिकस् तस्य मोक्षो मिथ्या न सत्यतः