रुदितं यन् महाक्रन्दं पुंसा बह्वस्रु राघव । तद् भोगजालं त्यजता मनसा रोदनं कृतम्
अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् । चेतसस् त्यजतो भोगान् परितापो भृशं भवेत्
रुदताङ्गानि दृष्टानि कारुण्येनावबोधिना । कष्टम् एतानि सन्त्यज्य किं प्रयामीति चेतसा
अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् । चेतसस् त्यजतो ऽङ्गानि परितापो हि वर्धते
हसितं यत् तद् आनन्दि पुंसा मदवबोधतः । परिप्राप्तविवेकेन तत् तुष्टं राम चेतसा
परिप्राप्तविवेकस्य त्यक्तसंसारसंसृतेः । चेतसस् त्यजतो रूपम् आनन्दो हि विवर्धते
हसताङ्गानि दृष्टानि पुंसा यान्य् उपहासतः । तानि दृष्टानि मनसा विप्रलम्भप्रदानि हि
मिथ्याविकल्परचितैर् विप्रलब्धम् अहं चिरम् । इत्य् अङ्गान्य् उपहासेन दृष्टानि स्वानि चेतसा
मनः प्राप्तविवेकं हि विश्रान्तं वितते पदे । प्राक्तनीं दीनतां धीरं हसत् पश्यति दूरतः
यदासौ समवष्टभ्य मया पृष्टः प्रयत्नतः । तद् विवेको बलाच् चित्तम् आदत्त इति दर्शितम्
यद् अङ्गानि विशीर्णानि गतान्य् अन्तर्धिम् अग्रतः । तच् चित्तेन विनार्थेच्छाश् शाम्यन्तीति प्रदर्शितम्
सहस्रनेत्रहस्तत्वं यत् पुंसः परिवर्णितम् । तद् अनन्ताकृतित्वं हि चेतसः परिदर्शितम्
यद् आत्मनि प्रहारौघैः पुमान् प्रहरति स्वयम् । तत् तत्कुकल्पनाघातैः प्रहरत्य् आत्मनो मनः
पलायते यत् पुरुषस् स्वात्मनः प्रहरन् स्वयम् । स्ववासनाप्रहारेभ्यस् तन् मनः प्रपलायते
स्वयं प्रहरति स्वान्तं स्वयम् एव स्वयेच्छया । पलायते स्वयं चैव पश्याज्ञानविजृम्भितम्
स्ववासनोपतप्तानि सर्वाण्य् एव मनांसि हि । स्वयम् एव पलायन्ते गन्तुम् उत्कानि तत् पदम्
यद् इदं विततं दुःखं तत् तनोति स्वयं मनः । स्वयम् एवातिखिन्नात्म पुनस् तस्मात् पलायते
सङ्कल्पवासनाजाले स्वयम् आयाति बन्धनम् । मनो लालामयैर् वालैः कोशकारक्रिमिर् यथा
यथानर्थम् अवाप्नोति तथा क्रीडति चञ्चलम् । भावि दुःखम् अपश्यन् स्वं दुर्लीलाभिर् इवार्भकः
अपश्यन् काष्ठरन्ध्रस्थवृषणाक्रमणं यथा । कीलोत्पाटी कपिर् दुःखम् एतीदं हि मनस् तथा
चिरपालनया चेतश् चिरभावनया तथा । अभ्यासात् स्वस्थताम् एत्य न भूयः परिशोचति
मनःप्रमादाद् वर्धन्ते दुःखानि गिरिकूटवत् । तद्वशाद् एव नश्यन्ति सूर्यस्याग्रे हिमं यथा
यावज्जीवम् अनिन्द्यया वरमते शास्त्रार्थसञ्जातया पाल्यं वासनया मनो हि मुनिवन् मौनेन रागादिषु । पश्चात् पावनपावनं पदम् अजं तत् प्राप्यते शीतलम् यत्संस्थेन न शोच्यते पुनर् अलं पुंसा महापत्स्व् अपि
चित्तम् एतद् उपायातं ब्रह्मणः परमात् पदात् । अतन्मयं तन्मयं च तरङ्गस् सागराद् इव
प्रबुद्धानां मनो राम ब्रह्मैवेह न चेतरत् । जलसामान्यबुद्धीनाम् अब्धेर् नान्यस् तरङ्गकः
मनो रामाप्रबुद्धानां संसारभ्रमकारणम् । अपश्यतो ऽम्बुसामान्यम् अन्यताम्बुतरङ्गयोः
अप्रबुद्धधियां पक्षे तत्प्रबोधाय केवलम् । वाच्यवाचकसम्बन्धकृतो भेदः प्रकल्प्यते
सर्वशक्ति परं ब्रह्म नित्यम् आपूर्णम् अव्ययम् । न तद् अस्ति न तस्मिन् यद् विद्यते विततात्मनि
सर्वशक्तिर् हि भगवान् यैव तस्मै हि रोचते । शक्तिस् ताम् एव विततां प्रकाशयति सर्वगः
चिच्छक्तिर् ब्रह्मणो राम शरीरेष्व् अभिदृश्यते । स्पन्दशक्तिश् च वातेषु जडशक्तिस् तथोपले