तरत्तरलतृष्णार्तं युवानम् इह साधवः । पूजयन्ति न तुच्छेहं जरत्तृणलवं यथा
नाशायैव मदान्धस्य दोषमौक्तिकधारिणः । अभिमानमहेभस्य नित्यालानं हि यौवनम्
मनोविपुलमूलानां दोषाशीविषधारिणाम् । रोषरोदनवृक्षाणां यौवनं नवकाननम्
रसकेसरसम्बाधं कुविकल्पदलाकुलम् । दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम्
कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् । आधिव्याधिविहङ्गानाम् आलयो नवयौवनम्
जडानां गतसङ्ख्यानां कल्लोलानां विलासिनाम् । अनपेक्षितमर्यादो वारिधिः पूर्णयौवनम्
सर्वेषां गुणपर्णानाम् अपनेतुं रजस् ततः । अपनेतुं स्थितो दक्षो विषमो यौवनानिलः
नयन्ति पाण्डुतां वक्त्रम् आकुलावकरोत्कटाः । आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः
उद्बोधयति दोषालीं निकृन्तति गुणावलीम् । नराणां यौवनोल्लासो विलासो दुष्कृतश्रियः
शरीरपङ्कजरजश् चञ्चलां मतिषट्पदीम् । निबध्य मोहयत्य् एष नरं यौवनचन्द्रमाः
शरीरषण्डकोद्भूता रम्या यौवनवल्लरी । लग्नम् एव मनोभृङ्गं मदयत्य् उन्नतिं गता
शरीरमरुतापोत्थां युवतामृगतृष्णिकाम् । मनोमृगाः प्रधावन्तः पतन्ति विषमावटे
शरीरशर्वरीज्योत्स्ना चित्तकेसरिणस् सटा । लहरी जीविताम्भोधेर् युवता मे न रोचते
दिनानि कतिचिद् येयं फलिता देहजङ्गले । युवताशरद् अस्यां हि न समाश्वासम् अर्हथ
झगित्य् एव प्रयात्य् एष शरीराद् युवताखगः । क्षणेनैवाल्पभाग्यस्य हस्ताच् चिन्तामणिर् यथा
यदा यदा परां कोटिम् अभ्यारोहति यौवनम् । वल्गन्ति सरसाः कामास् तदा नाशाय केवलम्
तावद् एव विवल्गन्ति रागद्वेषपिशाचिकाः । नास्तम् एति समस्तैषा यावद् यौवनयामिनी
नानाधिकारबहुले वराके क्षणनाशिनि । कारुण्यं कुरु तारुण्ये म्रियमाणे सुते यथा
हर्षम् आयाति यो मोहात् पुरुषः क्षणभङ्गिना । यौवनेन महामुग्धस् स वै नरमृगस् स्मृतः
मानमोहमदोन्मत्तं यौवनं यो ऽभिलष्यति । अचिरेण स दुर्बुद्धिः पश्चात्तापेन युज्यते
ते धर्म्यास् ते महात्मानस् त एव पुरुषा भुवि । ये सुखेन समुत्तीर्णास् साधो यौवनसङ्कटात्
सुखेन तीर्यते ऽम्भोधिर् उत्कृष्टमकराकरः । न कल्लोलवनोल्लासि सदोषं हतयौवनम्
विनयभूषितम् आर्यजनास्पदं करुणयोज्ज्वलम् आवलितं गुणैः । इह हि दुर्लभम् अङ्ग सुयौवनं जगति काननम् अम्बरगं यथा
मांसपुत्तलिकायाश् च यन्त्रलोलाङ्गपञ्जरे । स्नाय्वस्थिग्रन्थिशालिन्यास् स्त्रियाः किम् इव शोभनम्
त्वङ्मांसरक्तबाष्पास्रु पृथक् कृत्वा विलोचनम् । समालोकय रम्यं चेत् किं मुधा परिमुह्यसि
इतः केशा इतो रक्तम् इतीयं प्रमदातनुः । किम् एतया निन्दितया करोतु विपुलाशयः
वासोविलेपनैर् यानि लालितानि पुनः पुनः । तान्य् अङ्गान्य् अवलुम्पन्ति क्रव्यादास् सर्वदेहिनाम्
मेरोश् शृङ्गतटोल्लासिगङ्गाजलरयोपमाः । दृष्टा यस्मिन् स्तने मुक्ता हारस्योल्लासशालिनः
श्मशानेषु दिगन्तेषु स एव ललनास्तनः । श्वभिर् आस्वाद्यते काले लघुपिण्ड इवान्धसः
रक्तमांसादिदिग्धानि करभस्य यथा वने । तथैवाङ्गानि कामिन्यास् तत् प्रत्य् अपि हि को ग्रहः