कासौ महाटवी ब्रह्मन् कदा दृष्टा कथं मया । के च ते पुरुषास् तत्र किं तत् कर्तुं कृतोद्यमाः
रघुनाथ महाबाहो शृणु वक्ष्यामि ते ऽखिलम् । न सा महाटवी नाम दूरे नैव च ते नराः
येयं संसारपदवी गम्भीरासारकोटरा । तां त्वं शून्यां विकाराढ्यां विद्धि राम महाटवीम्
विचारालोकलभ्येन यदैकेनैव वस्तुना । पूर्णा नान्येन संयुक्ता केवलैव तदैव सा
तत्र ये ते महाकाराः पुरुषाः प्रसरन्ति हि । मनांसि तानि विद्धि त्वं दुःखे निपतितान्य् अलम्
द्रष्टा यो ऽयम् अहं तेषां सविवेको महामते । विवेकेन मया तानि दृष्टान्य् अन्यानि राघव
मया तान्य् एव बुध्यन्ते विवेकेन मनांसि हि । सततं स्वप्रकाशेन कमलानीव भानुना
मत्प्रबोधं समासाद्य मत्प्रसादान् महामते । मनांसि कानिचित् तानि गतान्य् उपशमात् परम्
कानिचिन् नाभिनन्दन्ति मां विवेकं विमोहतः । मत्तिरस्कारवशतः कूपेष्व् एव पतन्त्य् उत
ये ते ऽन्धकूपा गहना नरकास् ते रघूद्वह । मनांसि तानि तेष्व् अन्तर् निपतन्त्य् उत्पतन्ति च
यत् तत् करञ्जगहनं तत् कलत्ररसं विदुः । दुःखकण्टकसम्बाधं मानुष्यं त्रिविधैषणम्
करञ्जगहनं यानि प्रविष्टानि मनांसि तु । मानुष्ये तानि जातानि तत्रैकरसिकानि च
कदलीकाननं यत् तच् छशाङ्ककरशीतलम् । तन् मनोह्लादनकरं स्वर्गं विद्धि रघूद्वह
कदलीकाननं यानि सम्प्रविष्टानि तानि तु । स्वर्गैकरसिकानि त्वं मनांसि ज्ञातुम् अर्हसि
प्रविष्टान्य् अन्धकूपान्तर् निर्गतानि न यानि तु । महापातकयुक्तानि तानि चित्तानि राघव
करञ्जवनयातानि निर्गतानि न यानि तु । तानि मानुष्यजातानि चित्तानि रघुनन्दन
कानिचित् सम्प्रबुद्धानि तत्र मुक्तानि बन्धनात् । कानिचिद् बहुरूपाणि योनेर् योनिं विशन्ति हि
कानिचित् पुण्यपूतेन तपसा दारुणात्मना । धारयन्ति शरीराणि संस्थितान्य् उचितान्य् च
यैर् अहं पुम्भिर् अबुधैर् दुर्द्विजेति तिरस्कृतः । तैर् मनोभिर् अनात्मज्ञैस् स्वविवेकतिरस्कृतः
त्वया दृष्टो विनष्टो ऽस्मि शत्रुर् मे त्वम् इति द्रुतम् । यद् उक्तं तद् धि चित्तेन गलता परिदेवितम्
रुदितं यन् महाक्रन्दं पुंसा बह्वस्रु राघव । तद् भोगजालं त्यजता मनसा रोदनं कृतम्
अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् । चेतसस् त्यजतो भोगान् परितापो भृशं भवेत्
रुदताङ्गानि दृष्टानि कारुण्येनावबोधिना । कष्टम् एतानि सन्त्यज्य किं प्रयामीति चेतसा
अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् । चेतसस् त्यजतो ऽङ्गानि परितापो हि वर्धते
हसितं यत् तद् आनन्दि पुंसा मदवबोधतः । परिप्राप्तविवेकेन तत् तुष्टं राम चेतसा
परिप्राप्तविवेकस्य त्यक्तसंसारसंसृतेः । चेतसस् त्यजतो रूपम् आनन्दो हि विवर्धते
हसताङ्गानि दृष्टानि पुंसा यान्य् उपहासतः । तानि दृष्टानि मनसा विप्रलम्भप्रदानि हि
मिथ्याविकल्परचितैर् विप्रलब्धम् अहं चिरम् । इत्य् अङ्गान्य् उपहासेन दृष्टानि स्वानि चेतसा
मनः प्राप्तविवेकं हि विश्रान्तं वितते पदे । प्राक्तनीं दीनतां धीरं हसत् पश्यति दूरतः
यदासौ समवष्टभ्य मया पृष्टः प्रयत्नतः । तद् विवेको बलाच् चित्तम् आदत्त इति दर्शितम्