कदलीषण्डकात् तस्माद् विनिष्क्रम्य पुनः क्षणात् । कदलीकाननाच् छुभ्रं करञ्जवनगुल्मकम्
करञ्जकवनात् कूपं कूपाद् रम्भावनान्तरम् । प्रविश्य प्रहरंश् चैव स्वयम् आत्मनि संस्थितः
एवंरूपनिजाचारस् सो ऽवलोक्यादरान् मया । अवष्टभ्य बलाद् एव मुहूर्तं परिबोधितः
पृष्टश् च कस् त्वं किम् इदं केनार्थेन करोषि वा । किं नामाभिमतं ते स्यात् किं मुधा परिमुह्यसि
इति पृष्टेन कथितं तेन मे रघुनन्दन । नाहं कश्चिन् न चैवेदं मुने किञ्चित् करोम्य् अहम्
त्वयायम् अवभग्नो ऽस्मि त्वं मे शत्रुर् अरिन्दम । त्वया दृष्टो ऽस्मि नष्टो ऽस्मि दुःखाय च सुखाय च
इति उक्त्वा माम् असाव् अङ्गान्य् आलोक्य स्वानि तिष्ठवान् । रुरोदार्तरवं दीनो मेघो वर्षन्न् इवारवी
क्षणमात्रेण तत्रासाव् उपसंहृत्य रोदनम् । स्वान्य् अङ्गानि समालोक्य जहासेन्द्वंशुवत् सितम्
अथाट्टहासपर्यन्ते स पुमान् पुरतो मम । क्रमेण तानि तत्याज स्वान्य् अङ्गानि समन्ततः
प्रथमं पतितं तस्य शिरः परमदारुणम् । ततस् ते बाहवः पश्चाद् वक्षस् तदनु चोदरम्
अथ क्षणेन स पुमांस् तान्य् अङ्गानि च सम्भ्रमः । सर्वम् अन्तर्धिम् आयातं स्वप्नो बोधवतो यथा
विचार्य नियतेश् शक्तिं ततो गन्तुम् उपस्थितः । दृष्टवान् अहम् एकान्ते पुनर् अन्यं तथा नरम्
सो ऽपि प्रहारान् परितः प्रयच्छन् स्वयम् आत्मनि । बाहुभिः पीवराकारैस् स्वयम् एव पलायते
कूपे पतति कूपात् तु समुत्थायाभिधावति । पुनः पतति कुञ्जे ऽन्तः पुनर् आर्तः पलायते
पुनः प्रविशति स्वच्छं क्षणं शिशिरकाननम् । रुष्टः पुनः पुनस् तुष्टः पुनः प्रहरति स्वयम्
एवम्प्रायनिजाचारश् चिरम् आलोक्य सस्मयम् । स मया समवष्टभ्य परिपृष्टस् तथैव हि
तेनैवाथ क्रमेणासौ रुदित्वा सम्प्रहस्य च । अङ्गैर् विशीर्णताम् एत्य ययाव् अलम् अलक्ष्यताम्
विचार्य नियतेश् शक्तिं ततो गन्तुम् उपस्थितः । दृष्टवान् अहम् एकान्ते पुनर् अन्यं तथा नरम्
प्रहरंस् तद्वद् एवासौ स्वयम् एव पलायते । पलायमानः पतितो महत्य् अन्धो ऽन्धकूपके
तत्राहं सुचिरं कालम् अवसं तत्प्रतीक्षकः । यावत् स सुचिरेणापि कूपाद् अभ्युत्थितश् शठः
अथाहम् उद्यतो गन्तुं दृष्टवान् पुरुषं पुनः । तादृशं तादृशाचारं प्रयतन्तं तथैव च
अवष्टभ्य तथैवाशु तस्य प्रोक्तं पुनर् मया । तथैवोत्पलपत्राक्ष नासौ तद् अवबुद्धवान्
केवलं माम् असौ मूढो नैव जानामि किञ्चन । आः पाप दुर्द्विजेत्य् उक्त्वा स्वव्यापारपारो ययौ
अथ तस्मिन् महारण्ये तथा विहरता मया । बहवस् तादृशा दृष्टाः पुरुषा दोषकारिणः
मत्पृष्टाः केचिद् आयान्ति स्वप्नसम्भ्रमवच् छमम् । मदुक्तं नाभिनन्दन्ति केचिच् छ्वविरुतं यथा
विनिपत्यान्धकूपेभ्यः केचिन् न प्रोत्थिताः पुनः । कदलीषण्डकात् केचिच् चिरेणापि न निर्गताः
केचिद् अन्तर्हितास् स्फारे करञ्जवनकुञ्जके । न क्वचित् स्थितिम् आयान्ति केचिद् भ्रमपरायणाः
एवंविधा सा वितता रघूद्वह महाटवी । अद्यापि विद्यते यस्याम् इत्थं ते पुरुषास् स्थिताः
सा च दृष्टाटवी राम त्वयेह व्यवहारिणा । बाल्यात् तु बुद्धितत्त्वस्य न त्वं स्मरसि राघव
सा भीषणा विविधसङ्कटसङ्कटाङ्गी घोराटवी घनतमोगहना च लोकैः । आगत्य निर्वृतिम् अबुद्धिहतैर् न तज्ज्ञैर् आसेव्यते कुसुमगुल्मकवाटिकेव