अप्रबुद्धात्मविषयम् आकाशत्रयकल्पना । कल्प्यते ह्य् उपदेशार्थं प्रबुद्धविषयं न तु
एकम् एव परं ब्रह्म सर्वं सर्वावपूरकम् । प्रबुद्धं विमलं नित्यं कलाकलनवर्जितम्
द्वैताद्वैतसमुद्भेदैर् वाक्यसन्दर्भगर्भितैः । उपदिश्यत एवाज्ञो न प्रबुद्धः कथञ्चन
यावद् रामाप्रबुद्धत्वम् आकाशत्रयकल्पना । तावद् एवावबोधार्थं मया त उपदिश्यते
आकाशचित्ताकाशाद्याश् चिदाकाशात् कलङ्कितात् । प्रसूता दावदहनाद् यथा मरुमरीचयः
चितो हि मलिनं रूपं चित्ततां समुपागतम् । त्रिजगन्तीन्द्रजालानि रचयत्य् आकुलात्मकम्
चित्तत्वम् अस्य मलिनस्य चिदात्मकस्य तत्त्वस्य दृश्यत इदं ननु बोधहीनैः । शुक्तौ यथा रजतता न तु बोधवद्भिर् मौर्ख्येण बन्ध इह बोधबलेन मोक्षः
यतः कुतश्चिद् उत्पन्नं चित्तं यत् किञ्चिद् एव हि । नित्यम् आत्मविमोक्षाय यतते यत्नतो ऽनघ
अस्ति नामातिवितता शून्या शान्तापि भीषणा । अरण्यानी नभो यस्यां लक्ष्यते कोणमात्रकम्
तस्याम् एको हि पुरुषस् सहस्रकरलोचनः । पर्याकुलमतिर् भीमस् संस्थितो वितताकृतिः
सहस्रेण स बाहूनाम् आदाय परिघान् बहून् । प्रहरत्य् आत्मनः पृष्ठे स्वात्मनैव पलायते
दृढप्रहारैः प्रहरन् स्वयम् एवात्मनात्मनि । प्रविद्रवति भीतात्मा स योजनशतान्य् अपि
क्रन्दन् पलायमानो ऽसौ गत्वा दूरम् इतस् ततः । श्रमवान् विवशाकारो विशीर्णचरणाङ्गकः
पतितो ऽवश एवाशु महत्य् अन्धो ऽन्धकूपके । कृष्णरात्रितमोभीमनभोगम्भीरकोटरे
ततः कालेन महता सो ऽन्धकूपात् समुत्थितः । पुनः प्रहारैः प्रहरन् विद्रवत्य् आत्मनात्मनः
पुनर् दूरतरं गत्वा करञ्जवनगुल्मकम् । प्रविष्टः कण्टकव्याप्तं शलभः पावकं यथा
तस्मात् करञ्जगहनाद् विनिष्क्रम्य क्षणाद् इव । स्वयं प्रहारैः प्रहरन् विद्रवत्य् आत्मनात्मनः
पुनर् दूरतरं गत्वा तम् एवान्धो ऽन्धकूपकम् । स सम्प्रविष्टस् त्वरया विशीर्णावयवाकृतिः
अन्धकूपात् समुत्थाय प्रविष्टः कदलीवनम् । पुनः प्रहारैः प्रहरन् विद्रवत्य् आत्मनात्मनः
पुनर् दूरतरं गत्वा शशाङ्ककरशीतलम् । कदलीकाननं कान्तं सम्प्रविष्टो हसन्न् इव
कदलीषण्डकात् तस्माद् विनिष्क्रम्य पुनः क्षणात् । कदलीकाननाच् छुभ्रं करञ्जवनगुल्मकम्
करञ्जकवनात् कूपं कूपाद् रम्भावनान्तरम् । प्रविश्य प्रहरंश् चैव स्वयम् आत्मनि संस्थितः
एवंरूपनिजाचारस् सो ऽवलोक्यादरान् मया । अवष्टभ्य बलाद् एव मुहूर्तं परिबोधितः
पृष्टश् च कस् त्वं किम् इदं केनार्थेन करोषि वा । किं नामाभिमतं ते स्यात् किं मुधा परिमुह्यसि
इति पृष्टेन कथितं तेन मे रघुनन्दन । नाहं कश्चिन् न चैवेदं मुने किञ्चित् करोम्य् अहम्
त्वयायम् अवभग्नो ऽस्मि त्वं मे शत्रुर् अरिन्दम । त्वया दृष्टो ऽस्मि नष्टो ऽस्मि दुःखाय च सुखाय च
इति उक्त्वा माम् असाव् अङ्गान्य् आलोक्य स्वानि तिष्ठवान् । रुरोदार्तरवं दीनो मेघो वर्षन्न् इवारवी
क्षणमात्रेण तत्रासाव् उपसंहृत्य रोदनम् । स्वान्य् अङ्गानि समालोक्य जहासेन्द्वंशुवत् सितम्
अथाट्टहासपर्यन्ते स पुमान् पुरतो मम । क्रमेण तानि तत्याज स्वान्य् अङ्गानि समन्ततः
प्रथमं पतितं तस्य शिरः परमदारुणम् । ततस् ते बाहवः पश्चाद् वक्षस् तदनु चोदरम्