मनः कारणम् अर्थानां रूपाणाम् इव भासनम् । चित्ताद् ऋते ऽन्यद् यद् अस्ति तद् अचित्तस्य किं जगत्
न चेतनं न च जडं तस्माज् जगति राघव । सर्वस्य भूतजातस्य समग्रं प्रविलीयते
नानाकर्मदशावेशान् मनो नानाभिधेयताम् । एकं विचित्रताम् एत्य याति कालो यथार्तुभिः
यदि नामामनस्कानाम् अहङ्कारेन्द्रियक्रियाः । क्षोभयन्ति शरीरं तत् सन्तु जीवादयः परे
दर्शनेषु तु ये प्रोक्ता भेदा मनसि तर्कतः । क्वचित् क्वचिद् वादकरैर् अपवादकरैः किल
ते राम न विरुध्यन्ते विशिष्यन्ते न च क्वचित् । सर्वा हि शक्तयो देवे विद्यन्ते सर्वगे यतः
यदैवं खलु शुद्धाया मनाग् अपि हि संविदः । जडेव शक्तिर् उदिता तदा वैचित्र्यम् आगतम्
ऊर्णनाभाद् यथा तन्तुर् जायते चेतनाज् जडः । नित्यं प्रबुद्धात् परमाद् ब्रह्मणः प्रकृतिस् तथा
अविद्यावशतश् चित्रा भावनास् स्थितिम् आगताः । चित्तपर्यायशब्दार्था भिन्नास् तेनेह वादिनाम्
जीवो मनश् च ननु बुद्धिर् अहङ्कृतिश् चेत्य् एवं प्रथाम् उपगतेयम् अनिर्मला चित् । सैवोच्यते जगति चेतनचित्तजीवसञ्ज्ञागणेन किल नास्ति विवाद एषः
ब्रह्मन् मनस एवेदम् अत आडम्बरं स्मृतम् । यतस् तद् एव कर्मेति वाक्यार्थाद् उपलभ्यते
दृढभावोपरक्तेन मनसैवोररीकृतम् । मरुचण्डातपेनेव भासुरावरणं वपुः
ब्रह्मन् मन्ये जगत्य् अस्मिन् मन एवाकृतिं गतम् । क्वचिन् नरतया रूढं क्वचित् सुरतयोदितम्
क्वचिद् दैत्यतयोल्लासि क्वचिद् यक्षतयोत्थितम् । क्वचिद् गन्धर्वतां प्राप्तं क्वचित् किन्नररूपि च
नानावननगाभोगपुरपत्तनरूपया । मन्ये विततयाकृत्या मन एव विजृम्भते
एवं स्थिते शरीरौघस् तृणकाष्ठलवोपमः । तद्विचारणया को ऽर्थो विचार्यं मन एव नः
तेनेदं सर्वम् आभोगि जगद् अत्याकुलं ततम् । मन्ये तद्व्यतिरेकेण परमात्मैव शिष्यते
आत्मा सर्वपदातीतस् सर्वगस् सर्वसंश्रयः । तत्प्रसादेन संसारे मनो धावति वल्गति
अतो मन्ये मनः कर्म तच् छरीरेषु कारणम् । जायते म्रियते तद् धि नात्मनीदृग्विधो गुणः
मन एवं विचारेण मन्ये विलयम् एष्यति । मनोविलयमात्रेण ततश् श्रेयो भविष्यति
मनोनाम्नि परिक्षीणे कर्मण्य् अहितसम्भ्रमे । मुक्त इत्य् उच्यते जन्तुः पुनर् नाम न जायते
भगवान् भवता प्रोक्ता जातयस् त्रिविधा नृणाम् । प्रथमं कारणं तासां मनस् सदसदात्मकम्
तत् कथं शुद्धचिन्नाम्नस् तत्त्वाच् छुद्धिविवर्जितम् । उत्थितं स्फारतां यातं जगच्चित्रकरं मनः
आकाशा हि त्रयो नाम विद्यन्ते विततान्तराः । चित्ताकाशश् चिदाकाशो भूताकाशस् तृतीयकः
एते हि सर्वसामान्यास् सर्वत्रैव व्यवस्थिताः । शुद्धचित्तत्त्वशक्त्या तु लब्धसत्तैकतां गताः
सबाह्याभ्यन्तरस्थो यो वेत्ता सत्तावबोधकः । व्यापी समस्तभूतानां चिदाकाशस् स उच्यते
सर्वभूतहितस् स्रष्टा यः कलाकलनात्मकः । येनेदम् आततं सर्वं चित्ताकाशस् स उच्यते
दशदिङ्मण्डलाभोगैर् अव्युच्छिन्नवपुर् हि यः । भूतात्मा सो ऽयम् आकाशः पवनाब्दादिसंश्रयः
आकाशचित्ताकाशौ द्वौ चिदाकाशवशोद्भवौ । चित् कारणं हि सर्वस्य कार्यौघस्य दिनं यथा
जडो ऽस्मि न जडो ऽस्मीति निश्चयो मलिनश् चितः । यस् तद् एव मनो विद्धि तेनाकाशादि भाव्यते