तैर् मिथ्या राघव प्रोक्ताः कर्ममानसचेतसाम् । स्वविकल्पार्पितैर् अर्थैस् स्वास् स्वा वैचित्र्ययुक्तयः
यथैकः पुरुषस् स्नानदानादानाशनक्रियाः । कुर्वाणः कर्तृवैचित्र्यम् एति तद्वद् इदं मनः
विचित्रकार्यवशतो नामभेदेन कर्तृता । मनसः प्रोच्यते जीववासनाकर्मनामभिः
चित्तम् एवेदम् अखिलं सर्वेणैवानुभूयते । अचित्तो हि नरो लोके पश्यन्न् अपि न पश्यति
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च घ्रात्वा भुक्त्वा शुभाशुभम् । अन्तर् हर्षं विषादं च समनस्को हि विन्दते
आलोक इव रूपाणाम् अर्थानां कारणं मनः । बध्यते बद्धचित्तो हि मुक्तचित्तो हि मुच्यते
तं जडानां वरं विद्धि जडं येनोच्यते मनः । तं चावगच्छत जडं मनो यस्य हि चेतनम्
न चेतनं न च जडं यद् इदं प्रोत्थितं मनः । विचित्रसुखदुःखेहं जगद् अभ्युत्थितं ततः
एकरूपे हि मनसि संसारः प्रविलीयते । आबिलं कारणं भ्रान्तेर् भ्रान्त्या जगद् उपस्थितम्
अजडं हि मनो नाम संसारस्य न कारणम् । जडं चोपलधर्मापि संसारस्य न कारणम्
मनः कारणम् अर्थानां रूपाणाम् इव भासनम् । चित्ताद् ऋते ऽन्यद् यद् अस्ति तद् अचित्तस्य किं जगत्
न चेतनं न च जडं तस्माज् जगति राघव । सर्वस्य भूतजातस्य समग्रं प्रविलीयते
नानाकर्मदशावेशान् मनो नानाभिधेयताम् । एकं विचित्रताम् एत्य याति कालो यथार्तुभिः
यदि नामामनस्कानाम् अहङ्कारेन्द्रियक्रियाः । क्षोभयन्ति शरीरं तत् सन्तु जीवादयः परे
दर्शनेषु तु ये प्रोक्ता भेदा मनसि तर्कतः । क्वचित् क्वचिद् वादकरैर् अपवादकरैः किल
ते राम न विरुध्यन्ते विशिष्यन्ते न च क्वचित् । सर्वा हि शक्तयो देवे विद्यन्ते सर्वगे यतः
यदैवं खलु शुद्धाया मनाग् अपि हि संविदः । जडेव शक्तिर् उदिता तदा वैचित्र्यम् आगतम्
ऊर्णनाभाद् यथा तन्तुर् जायते चेतनाज् जडः । नित्यं प्रबुद्धात् परमाद् ब्रह्मणः प्रकृतिस् तथा
अविद्यावशतश् चित्रा भावनास् स्थितिम् आगताः । चित्तपर्यायशब्दार्था भिन्नास् तेनेह वादिनाम्
जीवो मनश् च ननु बुद्धिर् अहङ्कृतिश् चेत्य् एवं प्रथाम् उपगतेयम् अनिर्मला चित् । सैवोच्यते जगति चेतनचित्तजीवसञ्ज्ञागणेन किल नास्ति विवाद एषः
ब्रह्मन् मनस एवेदम् अत आडम्बरं स्मृतम् । यतस् तद् एव कर्मेति वाक्यार्थाद् उपलभ्यते
दृढभावोपरक्तेन मनसैवोररीकृतम् । मरुचण्डातपेनेव भासुरावरणं वपुः
ब्रह्मन् मन्ये जगत्य् अस्मिन् मन एवाकृतिं गतम् । क्वचिन् नरतया रूढं क्वचित् सुरतयोदितम्
क्वचिद् दैत्यतयोल्लासि क्वचिद् यक्षतयोत्थितम् । क्वचिद् गन्धर्वतां प्राप्तं क्वचित् किन्नररूपि च
नानावननगाभोगपुरपत्तनरूपया । मन्ये विततयाकृत्या मन एव विजृम्भते
एवं स्थिते शरीरौघस् तृणकाष्ठलवोपमः । तद्विचारणया को ऽर्थो विचार्यं मन एव नः
तेनेदं सर्वम् आभोगि जगद् अत्याकुलं ततम् । मन्ये तद्व्यतिरेकेण परमात्मैव शिष्यते
आत्मा सर्वपदातीतस् सर्वगस् सर्वसंश्रयः । तत्प्रसादेन संसारे मनो धावति वल्गति
अतो मन्ये मनः कर्म तच् छरीरेषु कारणम् । जायते म्रियते तद् धि नात्मनीदृग्विधो गुणः
मन एवं विचारेण मन्ये विलयम् एष्यति । मनोविलयमात्रेण ततश् श्रेयो भविष्यति