यदा पदार्थशक्तीनां सम्भुक्तानाम् इवान्तरे । वसत्य् अस्तमितान्येहं वासनेति तदोच्यते
अस्त्य् आत्मतत्त्वं विमलं द्वितीया दृष्टिर् अङ्किता । ऽजाता ह्य् अविद्यमानैव तदाविद्येति कथ्यते
स्फुरत्य् आत्मविनाशाय विस्मारयति तत् पदम् । मिथ्याविकल्पजालेन तन् मलं परिकल्प्यते
श्रुत्वा सृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा विमृश्य च । इन्द्रम् आमोदयत्य् एषा तेनेन्द्रियम् इति स्मृता
सर्वस्य दृश्यजालस्य परमात्मन्य् अलक्षिते । प्रकृतत्वेन भावानां लोके प्रकृतिर् उच्यते
सदसत्तां नयत्य् आशु सत्तां वासत्त्वम् अञ्जसा । सद् वासद् वा विकल्पौघं तेन मायेति कथ्यते
दर्शनश्रवणस्पर्शरसनघ्राणकर्मभिः । क्रियेति कथ्यते लोके कार्यकारणतां गता
चितश् चेत्यानुपातिन्या गतायास् सकलङ्कताम् । प्रस्फुरद्रूपधर्मिण्या एताः पर्यायवृत्तयः
चित्तताम् उपयाताया गतायाः प्राकृतं पदम् । स्वैर् एव सङ्कल्पशतैर् भृशं रूढिम् उपागताः
चेतनीयकलङ्काङ्का जाड्यजालानुपातिनी । सङ्ख्याविभागकलिता स्वविकल्पाकुलैव चित्
जीव इत्य् उच्यते लोके मन इत्य् अपि कथ्यते । चित्तम् इत्य् उच्यते चैव बुद्धिर् इत्य् उच्यते तथा
नानासङ्कल्पकलिलं पर्यायनिचयं बुधाः । वदन्त्य् अस्याः कलङ्किन्याश् च्युतायाः परमार्थतः
मनः किं स्याज् जडं ब्रह्मन्न् अथ वापि च चेतनम् । इत्य् एको मम तत्त्वज्ञ निश्चयो ऽन्तर् न जायते
मनो हि न जडं राम नापि चेतनतां गतम् । म्लाना जडाजडा दृष्टिर् मन इत्य् एव कथ्यते
मध्ये सदसतो रूपं प्रतिभातं यद् आबिलम् । जगतः कारणं राम तद् एतच् चित्तम् उच्यते
शाश्वतेनैकरूपेण निश्चयेन विना स्थितिः । येह सा चित्तम् इत्य् उक्ता तस्माज् जातम् इदं जगत्
जडाजडदृशोर् मध्ये दोलारूढं स्वकल्पनम् । यच् चितो म्लानरूपिण्यस् तद् एतन् मन उच्यते
चिन्निष्यन्दो हि मलिनः कलङ्कविकलान्तरः । मन इत्य् उच्यते राम न जडं न च चिन्मयम्
तस्येमानि विचित्राणि नामानि कलितान्य् अलम् । अहङ्कारमनोबुद्धिजीवाद्यानीतराण्य् अपि
यथा गच्छति शैलूषो रूपाण्यत्वं तथैव हि । मनो नामान्यताम् एति राम कर्मान्तरं व्रजन्
चित्राधिकारवशतो विचित्राधिकृताभिधाम् । यथा याति नरः कर्मवशाद् याति तथा मनः
या एताः कथितास् सञ्ज्ञा मया राघव चेतसः । एता एवान्यथा प्रोक्ता वादिभिः कल्पनाशतैः
स्वभावाभिमतां युक्तिम् आरोप्य मनसा कृताः । मनोबुद्धीन्द्रियादीनां विचित्रा नामगीतयः
मनो हि जडम् अन्यस्य भिन्नम् अन्यस्य जीवतः । तथाहङ्कृतिर् अन्यस्य बुद्धिर् अन्यस्य वादिनः
अहङ्कारमनोबुद्धिदृष्टयस् सृष्टकल्पनाः । एकरूपतया प्रोक्ता या मया रघुनन्दन
नैयायिकैर् इतरथा तादृशाः परिकल्पिताः । अन्यथा कल्पितास् साङ्ख्यैश् चार्वाकैर् अपि चान्यथा
जैमिनीयैर् आर्हतैश् च बौद्धैर् वैशेषिकैस् तथा । अन्यैर् अपि विचित्रेहैः पाञ्चरात्रादिभिस् तथा
सर्वैर् एव हि गन्तव्यं तत् पदं पारमात्मिकम् । विचित्रदेशकालोत्थैः पुरम् एकम् इवाध्वगैः
अज्ञानात् परमार्थस्य विपरीतावबोधतः । केवलं विवदन्ते ते विकल्पैर् आरुरुक्षवः
स्वं मार्गम् अभिशंसन्ति वादिनश् चित्रया दृशा । विचित्रदेशकालोत्था मार्गं स्वं पथिका इव