जडाजडदृशोर् मध्ये दोलायितवपुस् स्थितम् । यत् तत्त्वं द्विपरामृष्टं तद् रूपं मनसो विदुः
नाहं चिदवभासात्मा कृपणो ऽस्मीति निश्चयः । यस् सदाक्रान्तकलनस् तद् रूपं मनसो विदुः
भावस् सदसतोर् मध्ये नॄणां स्फुरति निश्चलः । कलनोन्मुखतां यातस् तद् रूपं मनसो विदुः
कलनात्मिकया कर्मशक्त्या विरहितं मनः । न सम्भवति लोके ऽस्मिन् गुणहीनो गुणी यथा
यथानलौष्ण्ययोस् सत्ता न सम्भवति भिन्नयोः । तथैव कर्ममनसोस् तथात्ममनसोर् अपि
स्वेनैव चित्तरूपेण कर्मणा फलधर्मणा । सङ्कल्पैकशरीरेण नानाविस्तरशालिना
या येन वासना यत्र लतेवारोपिता यथा । सा तेन फलभूस् तत्र तद् एव प्राप्यते तथा
कर्मबीजं मनस् स्पन्दः कथ्यते ऽथानुभूयते । क्रियास् तु विविधास् तस्य शाखाश् चित्रफलास् तरोः
मनो यद् अनुसन्धत्ते तत् कर्मेन्द्रियवृत्तयः । सर्वास् सम्पादयन्त्य् एतास् तस्मात् कर्म मनस् स्मृतम्
मनो बुद्धिर् अहङ्कारश् चेतः कर्माथ कल्पना । संसृतिर् वासनाविद्या प्रयत्नस् स्मृतिर् एव च
इन्द्रियं प्रकृतिर् माया क्रिया चेतीतरा अपि । चित्राश् शब्दश्रियो बह्व्यस् संसारभ्रमहेतवः
काकतालीययोगेन त्यक्तस्फारचमत्कृतेः । चितेश् चेत्यानुपातिन्यः कृताः पर्यायवृत्तयः
परायास् संविदो ब्रह्मन्न् एताः पर्यायवृत्तयः । कल्प्यमानविचित्रार्थाः कथं रूढिम् उपागताः
गतेव सकलङ्कत्वं यदा चित् कलनात्मकम् । उन्मेषरूपिणी जाता तदैव हि मनस्स्थितिः
भावानाम् अनुसन्धानं यदा निश्चित्य संस्थिता । तदैषा प्रोच्यते बुद्धिर् नियता ग्रहणक्षमा
यदा मिथ्याभिमानेन सत्तां कलयति स्वयम् । अहङ्काराभिधा तेन प्रोच्यते भवबन्धनी
इदं त्यक्त्वेदम् आयाति बालवत् पेलवा यदा । विचारं सम्परित्यज्य तदा सा चित्तम् उच्यते
यदा स्पन्दैकधर्मत्वात् कर्मपैशुन्यशंसिनी । आधावति स्पन्दफलं तदा कर्मेत्य् उदाहृता
काकतालीययोगेन त्यक्त्वैकद्रव्यनिश्चयम् । यदेहितं कल्पयति भावं तेनेह कल्पना
पूर्वं दृष्टम् अदृष्टं वा प्राग् सृष्टम् इति निश्चयम् । यदैषेहां विधत्ते ऽन्तस् तदा स्मृतिर् उदाहृता
यदा पदार्थशक्तीनां सम्भुक्तानाम् इवान्तरे । वसत्य् अस्तमितान्येहं वासनेति तदोच्यते
अस्त्य् आत्मतत्त्वं विमलं द्वितीया दृष्टिर् अङ्किता । ऽजाता ह्य् अविद्यमानैव तदाविद्येति कथ्यते
स्फुरत्य् आत्मविनाशाय विस्मारयति तत् पदम् । मिथ्याविकल्पजालेन तन् मलं परिकल्प्यते
श्रुत्वा सृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा विमृश्य च । इन्द्रम् आमोदयत्य् एषा तेनेन्द्रियम् इति स्मृता
सर्वस्य दृश्यजालस्य परमात्मन्य् अलक्षिते । प्रकृतत्वेन भावानां लोके प्रकृतिर् उच्यते
सदसत्तां नयत्य् आशु सत्तां वासत्त्वम् अञ्जसा । सद् वासद् वा विकल्पौघं तेन मायेति कथ्यते
दर्शनश्रवणस्पर्शरसनघ्राणकर्मभिः । क्रियेति कथ्यते लोके कार्यकारणतां गता
चितश् चेत्यानुपातिन्या गतायास् सकलङ्कताम् । प्रस्फुरद्रूपधर्मिण्या एताः पर्यायवृत्तयः
चित्तताम् उपयाताया गतायाः प्राकृतं पदम् । स्वैर् एव सङ्कल्पशतैर् भृशं रूढिम् उपागताः
चेतनीयकलङ्काङ्का जाड्यजालानुपातिनी । सङ्ख्याविभागकलिता स्वविकल्पाकुलैव चित्