सञ्जाते सङ्करे लोके कर्मस्व् अफलदायिषु । मात्स्ये न्याये विलसति नाश एवावशिष्यते
किं तत् कृतं भवत्य् एवं भगवन् ब्रूहि तत्त्वतः । एतं मे संशयं स्फारं छिन्द्धि वेदविदां वर
साधु राघव पृष्टो ऽस्मि त्वया प्रश्नम् इमं शुभम् । शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत्
मनसो यस् समुन्मेषः कलाकलनरूपतः । एतत् तत् कर्मणां बीजं फलम् अस्यैव विद्यते
यद् एव हि मनस्तत्त्वम् उत्थितं ब्रह्मणः पदात् । तद् एव कर्म जन्तूनां जीवो देहतया स्थितः
कुसुमामोदयोर् भेदो न यथा भिन्नयोर् इह । तथैव कर्ममनसोर् भेदो नास्त्य् अपि भिन्नयोः
क्रियास्पन्दो जगत्य् अस्मिन् कर्मेति कथितो बुधैः । पूर्वं तस्य मनोदेहः कर्मातश् चित्तम् एव हि
न स शैलो न तद् व्योम न सा दिङ् न त्रिविष्टपम् । अस्ति यत्र फलं नास्ति कृतानाम् आत्मकर्मणाम्
ऐहिकं प्राक्तनं वापि कर्म यद् रचितं स्फुटम् । पौरुषो ऽसौ परो यत्नो न कदाचन निष्फलः
ब्रह्मणः प्रोत्थितं चित्तं कर्म विद्धीह नेतरत् । तद् एव जनताबीजं विद्धि राघव नेतरत्
देशाद् देशान्तरप्राप्तेर् अनुसन्धानहेतुतः । पूर्वं हि कारणं चेतः कर्म चित्तम् अतो विदुः
अक्षुब्धसागरप्रख्याद् ब्रह्मणस् स्पन्दधर्मिणी । या चिद् आहुर् अतश् चित्तं जनताजीवतां गतम्
मनः कर्म मनो जीवः कायस् तेनैव तन्यते । अतः कर्म च कर्ता च न भिन्नौ तिलतैलवत्
कर्तृकर्मात्मकाव् अर्थाव् अभिन्नौ नित्यम् एव हि । अबोधाद् भेदम् आयातौ कल्प्यमानौ मुधैव हि
द्वे कर्ममनसी राम मूर्खाणां न तु धीमताम् । समुद्राम्बु तरङ्गाम्बु बालानाम् इव भेदधीः
पर्यायशब्दाव् एतौ हि विद्धि त्वं चित्तकर्मणी । पर्यायशब्दतां त्यक्त्वा स्थिते दुरवबोधतः
मनः कर्मात्मकं पूर्वं परस्मात् सम्प्रवर्तते । आमोदात्मेव कुसुमं विविधाकृति पादपात्
कर्तृकर्माभिधानीह चेतांस्य् अविरतं पदात् । परस्मात् सम्प्रवर्तन्ते तरङ्गा इव सागरात्
उद्धृतान्य् एव तस्मिंस् तु जीवसञ्ज्ञानि तानि तु । स्फुरित्वा प्रविलीयन्ते तरङ्गा इव सागरे
मनसा क्रियते कर्म यद् यत् तत् सफलं भवेत् । मनस्य् एव न कायोत्थं कर्ता कर्म मनस् ततः
आलोकलाञ्छिताभोगे मकुरे राजते सुखम् । ब्रह्मतत्त्वपरामृष्टे कर्तृत्वं मनसि स्फुटम्
गुणो गुणिनि शौक्ल्यादिः पटादौ संस्थितो यथा । तथा मनसि कर्तृत्वं जीवनाम्नि व्यवस्थितम्
यथा शैत्यादिरहितस् तुषारो नोपलभ्यते । तथा कर्म विना चित्तं न किञ्चिद् उपलभ्यते
कृष्णतासङ्क्षये यद्वत् क्षीयते कज्जलं स्वयम् । स्पन्दात्मकर्मविगमे तद्वत् प्रक्षीयते मनः
कर्मनाशो मनोनाशो मनोनाशो ह्य् अकर्मता । मुक्तस्यैव भवत्य् एष नामुक्तस्य कदाचन
वह्न्यौष्ण्ययोर् इव सदा श्लिष्टयोश् चित्तकर्मणोः । द्वयोर् एकतराभावे द्वयम् एव विलीयते
चित्तं सदा स्पन्दविलासम् एतत् स्पन्दैकरूपं ननु कर्म विद्धि । कर्माथ चित्तं किल धर्मधर्मि पदं गते राम परस्परेण
मनो हि भावनामात्रं भावना स्पन्दरूपिणी । क्रिया तद्भावितं रूपं फलं सर्वो ऽनुधावति
विस्तरेण मम ब्रह्मञ् जडस्याप्य् अजडाकृतेः । रूपम् आरूढसङ्कल्पं मनसो वक्तुम् अर्हसि
अनन्तस्यात्मतत्त्वस्य सर्वशक्तेर् महात्मनः । सङ्कल्पशक्तिसहितं यद् रूपं तन् मनो विदुः