चिन्तानां लोलवृत्तीनां ललनानाम् इवाभितः । अर्पयत्य् अवशश् चेतो ज्वालानाम् आत्मजं यथा
ते ते दोषा दुरारम्भास् तत्र तं तादृशाशयम् । तरुणं प्रविलुम्पन्ति दृश्यास् ते नैव ये मुने
महानरकबीजेन सन्ततभ्रमदायिना । यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः
नानारसमयी चित्रा वृत्तान्तनिचयोम्भिता । भीमा यौवनभूर् येन तीर्णा धीरस् स उच्यते
निमेषभासुराकारम् आलोलघनगर्जितम् । विद्युत्प्रकाशम् अनिशं यौवनं मे न रोचते
विविधावर्तबहुलं पङ्कलग्नं जडाशयम् । तरङ्गभङ्गुरं भीमं यौवनं मे न रोचते
सर्वस्याग्रेसरं पुंसः क्षणमात्रमनोहरम् । गन्धर्वनगरप्रख्यं यौवनं मे न रोचते
इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् । दाहदोषप्रदं नित्यं यौवनं मे न रोचते
मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् । सुराकल्लोलसदृशं यौवनं मे न रोचते
असत्यं सत्यसङ्काशम् अचिराद् विप्रलम्भदम् । स्वप्नाङ्गनासङ्गसमं यौवनं मे न रोचते
क्षणप्रकाशतरलं मिथ्यारचितचक्रिकम् । अलातचक्रप्रतिमं यौवनं मे न रोचते
मृदुस्फारतरोदारम् अन्तश्शून्यं क्षणक्षतम् । शरदम्बुदसङ्काशं यौवनं मे न रोचते
आपातमात्ररमणं सद्भावरहितान्तरम् । वेश्यास्त्रीसङ्गमप्रख्यं यौवनं मे न रोचते
ये केचन दुरारम्भास् ते सर्वे सर्वदुःखदाः । तारुण्ये सन्निधिं यान्ति महोत्पाता इव क्षये
हार्दान्धकारकारिण्या भैरवाकारवान् अपि । यौवनाज्ञानयामिन्या बिभेति भगवान् अपि
सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् । ददात्य् अतितराम् एष भ्रमं यौवनविभ्रमः
कान्तावियोगजातेन हृदि दुर्धर्षवह्निना । यौवने दह्यते जन्तुस् तरुर् दावाग्निना यथा
विस्तीर्णापि प्रसन्नापि पावन्य् अपि हि यौवने । मतिः कलुषताम् एति प्रावृषीव तरङ्गिणी
शक्यते घनकल्लोलभीमा रोधयितुं नदी । न तु तारुण्यतरला तृष्णातरलितान्तरा
सा कान्ता तौ स्तनौ पीनौ ते विलासास् तद् आननम् । तारुण्य इति चिन्ताभिर् याति जर्जरतां जनः
तरत्तरलतृष्णार्तं युवानम् इह साधवः । पूजयन्ति न तुच्छेहं जरत्तृणलवं यथा
नाशायैव मदान्धस्य दोषमौक्तिकधारिणः । अभिमानमहेभस्य नित्यालानं हि यौवनम्
मनोविपुलमूलानां दोषाशीविषधारिणाम् । रोषरोदनवृक्षाणां यौवनं नवकाननम्
रसकेसरसम्बाधं कुविकल्पदलाकुलम् । दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम्
कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् । आधिव्याधिविहङ्गानाम् आलयो नवयौवनम्
जडानां गतसङ्ख्यानां कल्लोलानां विलासिनाम् । अनपेक्षितमर्यादो वारिधिः पूर्णयौवनम्
सर्वेषां गुणपर्णानाम् अपनेतुं रजस् ततः । अपनेतुं स्थितो दक्षो विषमो यौवनानिलः
नयन्ति पाण्डुतां वक्त्रम् आकुलावकरोत्कटाः । आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः
उद्बोधयति दोषालीं निकृन्तति गुणावलीम् । नराणां यौवनोल्लासो विलासो दुष्कृतश्रियः
शरीरपङ्कजरजश् चञ्चलां मतिषट्पदीम् । निबध्य मोहयत्य् एष नरं यौवनचन्द्रमाः