अतो भेददशां दीनाम् अङ्गीकृत्योपदिश्यते । ब्रह्मेदम् एते जीवाश् च वेति वाचाम् अयं भ्रमः
इति दृष्ट्या निरासङ्गाद् ब्रह्मणो जायते जगत् । तज्जं तद् एव तत्त्वं तु गतं दुरवबोधतः
मेरुमन्दरसङ्काशा बहवो जीवराशयः । उत्पत्योत्पत्य संलीनास् तस्मिन्न् एव परे पदे
अनाद्यन्तास् स्फुरन्त्य् अन्ये जायमानास् सहस्रशः । नानाककुब्निकुञ्जेषु पादपेष्व् इव पल्लवाः
जीवौघाश् चोद्भविष्यन्ति मधाव् इव नवाङ्कुराः । तत्रैव लयम् एष्यन्ति ग्रीष्मे मधुलता इव
तिष्ठन्त्य् अजस्रं कालेषु त एवान्ये च भूरिशः । जायन्ते ऽथ प्रलीयन्ते परस्मिञ् जीवराजयः
पुष्पामोदाव् इवाभिन्नौ पुमान् कर्म च राघव । परमेशात् समायातौ तत्रैव विशतश् शनैः
इत्थम् एते जगत्य् अस्मिन् दैत्योरगनरामराः । उद्भवन्यग्भवाभावैः प्रस्फुरन्ति पुनः पुनः
हेतुर् विहरणे तेषाम् आत्मविस्मरणाद् ऋते । न कश्चिल् लक्ष्यते साधो जन्माध्वफलदो ऽपरः
अविसंवादितार्थं सद् यत् प्रमाणिकदृष्टिभिः । वीतरागैर् विनिर्णीतं तच् छास्त्रम् इति कथ्यते
महासत्त्वगुणोपेता ये धीरास् समदृष्टयः । यन्निदेशाः फलोपेतास् साधवस् त उदाहृताः
इयं तु दृष्टिस् सकला सिद्धये सर्वकर्मणाम् । साधुवृत्ततया शास्त्रं सर्वदैवानुवर्तते
साधुसंव्यवहारस्थं शास्त्रं यो नानुवर्तते । बहिष्कुर्वन्ति तं सर्वे स च दुःखे निमज्जति
इह लोके च वेदे च श्रुतिर् इत्थं सदा प्रभो । यथा कर्म च कर्ता च पर्यायेणेह सङ्गते
कर्मणा क्रियते कर्ता कर्त्रा कर्म प्रमीयते । बीजाङ्कुरवद् आम्नायो लोके वेदोक्त एष सः
कर्मणो जायते जन्तुर् बीजाद् इव नवाङ्कुरः । जन्तोः प्रजायते कर्म पुनर् बीजम् इवाङ्कुरात्
यया वासनया कर्म दीयते भवपञ्जरे । तद्वासनानुरूपेण फलं समनुभूयते
एवं स्थिते कथं नाम जन्मबीजेन कर्मणा । विनोत्पत्तिस् त्वया प्रोक्ता भूतानां ब्रह्मणः पदात्
पक्षेणानेन भगवन् भवता जन्मकर्मणोः । तिरस्कृता जगज्जाताप्य् अविनाभावितैतयोः
कर्मण्य् अकारणे ब्रह्मञ् जन्मादिषु फलेषु तु । कर्मणां फलम् अस्तीति त्वया लोके प्रमार्जितम्
सञ्जाते सङ्करे लोके कर्मस्व् अफलदायिषु । मात्स्ये न्याये विलसति नाश एवावशिष्यते
किं तत् कृतं भवत्य् एवं भगवन् ब्रूहि तत्त्वतः । एतं मे संशयं स्फारं छिन्द्धि वेदविदां वर
साधु राघव पृष्टो ऽस्मि त्वया प्रश्नम् इमं शुभम् । शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत्
मनसो यस् समुन्मेषः कलाकलनरूपतः । एतत् तत् कर्मणां बीजं फलम् अस्यैव विद्यते
यद् एव हि मनस्तत्त्वम् उत्थितं ब्रह्मणः पदात् । तद् एव कर्म जन्तूनां जीवो देहतया स्थितः
कुसुमामोदयोर् भेदो न यथा भिन्नयोर् इह । तथैव कर्ममनसोर् भेदो नास्त्य् अपि भिन्नयोः
क्रियास्पन्दो जगत्य् अस्मिन् कर्मेति कथितो बुधैः । पूर्वं तस्य मनोदेहः कर्मातश् चित्तम् एव हि
न स शैलो न तद् व्योम न सा दिङ् न त्रिविष्टपम् । अस्ति यत्र फलं नास्ति कृतानाम् आत्मकर्मणाम्
ऐहिकं प्राक्तनं वापि कर्म यद् रचितं स्फुटम् । पौरुषो ऽसौ परो यत्नो न कदाचन निष्फलः
ब्रह्मणः प्रोत्थितं चित्तं कर्म विद्धीह नेतरत् । तद् एव जनताबीजं विद्धि राघव नेतरत्