अनद्यतनजन्मात्तमतिस् तादृशकारणा । योत्पत्तिर् मध्यमा पुंसो राम द्वित्रिभवान्तरा
तद्वत्कार्यानुगा लोके राजसी राजसत्तम । अविप्रकृष्टजन्माध्वा सोच्यते कृतबुद्धिभिः
सा हि तज्जन्ममात्रेण मोक्षयोग्या मुमुक्षुभिः । तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी
सैव चेद् इतरैर् अल्पैर् जन्मभिर् मोक्षभागिनी । तत् तादृशी हि सा तज्ज्ञैः प्रोक्ता राजसराजसी
सैव जन्मशतैर् मोक्षभागिनी चेच् चिरैषिणी । तद् उक्ता तादृगारम्भा सद्भी राजसतामसी
सैव सन्दिग्धमोक्षा चेत् सहस्रैर् अपि जन्मनाम् । तद् उक्ता तादृगारम्भा राजसात्यन्ततामसी
भुक्तजन्मसहस्रा तु योत्पत्तिर् ब्रह्मणो नृणाम् । चिरमोक्षा हि कथिता तामसी सा महर्षिभिः
तज्जन्मनैव मोक्षस्य भागिनी चेत् तद् उच्यते । तज्ज्ञैस् तामससत्त्वेति तादृगारम्भशंसिनी
भावैः कतिपयैर् मोक्षभागिनी चेत् तद् उच्यते । तमोराजसरूपेति तादृशैर् गुणवृत्तिभिः
पूर्वं जन्मसहस्राढ्या पुरो जन्मशतैर् अपि । मोक्षयोग्या ततः प्रोक्ता तज्ज्ञैस् तामसतामसी
पूर्वं तु जन्मलक्ष्याढ्या जन्मलक्ष्यैः पुरो ऽपि चेत् । सन्दिग्धमोक्षा तद् असौ प्रोच्यते ऽत्यन्ततामसी
सर्वा एतास् समायान्ति ब्रह्मणो भूतजातयः । किञ्चित्प्रचलिता भोगात् पयोराशेर् इवोर्मयः
सर्वा एता विनिष्क्रान्ता ब्रह्मणो जीवराशयः । स्वतेजस्स्पन्दिता भोगाद् दीपाद् इव मरीचयः
सर्वा एव समुत्पन्ना ब्रह्मणो भूतपङ्क्तयः । स्वमरीचिबलोद्धूताद् अलाताङ्गात् कणा इव
सर्वा एवोत्थितास् तस्माद् ब्रह्मणो जीवजातयः । मन्दारमञ्जरीरूपाश् चन्द्रबिम्बाद् इवांशवः
सर्वा एव समुत्पन्ना ब्रह्मणो दृश्यदृष्टयः । यथा विटपिनश् चित्रास् तद्रूपा विटपश्रियः
सर्वा एव समुत्पन्ना ब्रह्मणो जीवशक्तयः । कटकाङ्गदकेयूरयुक्तयः कनकाद् इव
सर्वा एवोत्थिता राम ब्रह्मणो जीवराशयः । निर्झराद् अमलोद्द्योतात् पयसाम् इव बिन्दवः
अजस्यैवाखिला राम भूतसन्ततिकल्पना । आकाशस्य घटस्थालीरन्ध्राकाशादयो यथा
सर्वा एवोत्थिता लोककलना ब्रह्मणः पदात् । शीकरावर्तलहरीबिन्दवः पयसो यथा
सर्वा एवोत्थिता राम ब्रह्मणो दृश्यदृष्टयः । मृगतृष्णातरङ्गिण्यो यथा भास्करतेजसः
सर्वा दृश्यदृशो द्रष्टुर् व्यतिरिक्ता न रूपतः । शीतरश्मेर् इव ज्योत्स्ना स्वालोका इव तेजसः
एवम् एता हि लोकानां जातयो विविधाश्रयाः । तस्माद् एव समायान्ति तस्मिन्न् एव विशन्ति च
काश्चिज् जन्मसहस्रान्ताजातयश् चिरकालिकाः । काश्चित् कतिपयातीतजन्मरूपा व्यवस्थिताः
इत्थं जगत्सु विविधेषु विचित्ररूपास् तस्येच्छया भगवतो व्यवहारवत्यः । आयन्ति यान्ति निपतन्ति तथोत्पतन्ति भूतश्रियः कणघटा इव पावकोत्थाः
अभिन्नौ कर्मकर्तारौ समम् एव परात् पदात् । स्वयं प्रकटतां यातौ पुष्पामोदौ तरोर् इव
सर्वसङ्कल्पनामुक्ते जीवा ब्रह्मणि निर्मले । स्फुरन्ति वितते व्योम्नि नीलिम्न इव चन्द्रकाः
अप्रबुद्धजनाचारो यत्र राघव दृश्यते । तत्र ब्रह्मण उत्पन्ना जीवा इत्य् उक्तयस् स्थिताः
सम्प्रबुद्धजनाचारे वक्तुम् एवं न शोभनम् । यद् ब्रह्मण इदं जातं न जातं वेति राघव
काचिद् वा कलना यावन् न नीता राघव प्रथाम् । उपदेश्योपदेशश्रीस् तावल् लोके न शोभते