नानादिग्देशकालान्तशैलकन्दरचारिणी । रचितोत्तमवैचित्र्या विहितावर्तसम्भ्रमा
एषा जगज्जङ्गलजीर्णवल्ली सम्यक्समालोककुठारकृत्ता । विलीनविक्षुब्धमनश्शरीरा भूयो न संरोहति रामभद्र
उत्तमाधममध्यानां पदार्थानाम् इतस् ततः । उत्पत्तीनां विभागो ऽयं शृणु वक्ष्यामि राघव
इत्थम्प्रथमतोत्पन्नो यो ऽस्मिन्न् एव हि जन्मनि । ब्रह्मणस् सात्त्विकी तस्य प्रथमोत्पत्तिर् इष्यते
इदम्प्रथमतानाम्नी शुभाभ्याससमुद्भवा । शुभलोकाश्रया सा च शुभकार्यानुबन्धिनी
सा चेद् विचित्रसंसारवासनाव्यवहारिणी । भावैः कतिपयैर् मोक्षम् ईयुषी गुणपीवरी
तादृक्फलप्रदानैककार्याकार्यानुमानदा । तेन राजससत्त्वेति प्रोच्यते सा कृतात्मभिः
अथ चेच् चित्रसंसारवासनाव्यवहारिणी । अत्यन्तकलुषा जन्मसहस्रैर् ज्ञानभागिनी
तादृक्फलप्रदानैकधर्माधर्मानुमानदा । असाव् अधमसत्त्वेति प्रोच्यते सा कृतात्मभिः
सैव सङ्ख्यातिगानन्तजन्मवृन्दाद् अनन्तरम् । सन्दिग्धमोक्षा यदि तत् प्रोच्यते ऽत्यन्ततामसी
अनद्यतनजन्मात्तमतिस् तादृशकारणा । योत्पत्तिर् मध्यमा पुंसो राम द्वित्रिभवान्तरा
तद्वत्कार्यानुगा लोके राजसी राजसत्तम । अविप्रकृष्टजन्माध्वा सोच्यते कृतबुद्धिभिः
सा हि तज्जन्ममात्रेण मोक्षयोग्या मुमुक्षुभिः । तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी
सैव चेद् इतरैर् अल्पैर् जन्मभिर् मोक्षभागिनी । तत् तादृशी हि सा तज्ज्ञैः प्रोक्ता राजसराजसी
सैव जन्मशतैर् मोक्षभागिनी चेच् चिरैषिणी । तद् उक्ता तादृगारम्भा सद्भी राजसतामसी
सैव सन्दिग्धमोक्षा चेत् सहस्रैर् अपि जन्मनाम् । तद् उक्ता तादृगारम्भा राजसात्यन्ततामसी
भुक्तजन्मसहस्रा तु योत्पत्तिर् ब्रह्मणो नृणाम् । चिरमोक्षा हि कथिता तामसी सा महर्षिभिः
तज्जन्मनैव मोक्षस्य भागिनी चेत् तद् उच्यते । तज्ज्ञैस् तामससत्त्वेति तादृगारम्भशंसिनी
भावैः कतिपयैर् मोक्षभागिनी चेत् तद् उच्यते । तमोराजसरूपेति तादृशैर् गुणवृत्तिभिः
पूर्वं जन्मसहस्राढ्या पुरो जन्मशतैर् अपि । मोक्षयोग्या ततः प्रोक्ता तज्ज्ञैस् तामसतामसी
पूर्वं तु जन्मलक्ष्याढ्या जन्मलक्ष्यैः पुरो ऽपि चेत् । सन्दिग्धमोक्षा तद् असौ प्रोच्यते ऽत्यन्ततामसी
सर्वा एतास् समायान्ति ब्रह्मणो भूतजातयः । किञ्चित्प्रचलिता भोगात् पयोराशेर् इवोर्मयः
सर्वा एता विनिष्क्रान्ता ब्रह्मणो जीवराशयः । स्वतेजस्स्पन्दिता भोगाद् दीपाद् इव मरीचयः
सर्वा एव समुत्पन्ना ब्रह्मणो भूतपङ्क्तयः । स्वमरीचिबलोद्धूताद् अलाताङ्गात् कणा इव
सर्वा एवोत्थितास् तस्माद् ब्रह्मणो जीवजातयः । मन्दारमञ्जरीरूपाश् चन्द्रबिम्बाद् इवांशवः
सर्वा एव समुत्पन्ना ब्रह्मणो दृश्यदृष्टयः । यथा विटपिनश् चित्रास् तद्रूपा विटपश्रियः
सर्वा एव समुत्पन्ना ब्रह्मणो जीवशक्तयः । कटकाङ्गदकेयूरयुक्तयः कनकाद् इव
सर्वा एवोत्थिता राम ब्रह्मणो जीवराशयः । निर्झराद् अमलोद्द्योतात् पयसाम् इव बिन्दवः
अजस्यैवाखिला राम भूतसन्ततिकल्पना । आकाशस्य घटस्थालीरन्ध्राकाशादयो यथा
सर्वा एवोत्थिता लोककलना ब्रह्मणः पदात् । शीकरावर्तलहरीबिन्दवः पयसो यथा