यथा यथासौ यतते मनोदेहो हि देहिनाम् । तथा तथासौ भवति स्वनिश्चयफलैकभाक्
सफलो मांसदेहस्य न कश्चित् पौरुषक्रमः । मनोदेहस्य सफलं सर्वम् एव स्वचेष्टितम्
पवित्रम् अनुसन्धानं चेतसा यस् स्मरन् स्थितः । निष्फलास् तत्र शापाद्याश् शिलायाम् इव सायकाः
पतत्व् अम्भसि वह्नौ वा कर्दमे वा कलेवरम् । मनो यद् अनुसन्धत्ते तद् एवाप्नोति निश्चितम्
पौरुषातिशयस् सर्वस् सर्वभावोपमर्दजः । ददात्य् अविघ्नेन फलं मनो हि मनसो मुने
पौरुषेण बलेनान्तश् चित्तं कृत्वा प्रियामयम् । कृत्रिमेन्द्रेण दुःखार्तिर् न दृष्टा शासनास्व् अपि
पौरुषेण मनः कृत्वा नीरागं विगतज्वरम् । माण्डव्येन जिताः क्लेशाश् शूलप्रान्ते ऽपि तिष्ठता
अन्धकूपे स्थितेनापि मानसैर् यज्ञसञ्चयैः । ऋषिणा दीर्घतपसा सम्प्राप्तं वैबुधं पुरम्
इन्दोः पुत्रैर् नरैर् एव पुरुषाध्यवसायतः । ध्यानेन ब्रह्मता प्राप्ता या मयापि न खण्ड्यते
अन्ये ऽप्य् सावधाना ये धीरास् सुरमहर्षयः । चित्तात् स्वम् अनुसन्धानं न त्यजन्ति मनाग् अपि
आधयो व्याधयश् चैव शापाः पापदृशस् तथा । न खण्डयन्ति तान् पद्मपत्त्राघाताश् शिलाम् इव
ये वापि खण्डिताः केचिच् छापाद्यैर् आधिसायकैः । स्वविवेकाक्षमं तेषां मनो मन्ये ऽप्य् अपौरुषम्
न कदाचन संसारे सावधानमना मनाक् । स्वप्ने ऽपि कश्चिद् अस्त्य् एव दोषजालैः खलीकृतः
मनसैव मनस् तस्मात् पौरुषेण पुमान् इह । स्वकम् एव स्वकेनैव योजयेत् पावने पथि
प्रतिभातं यद् एवास्य तथारूपं भवत्य् अलम् । क्षणाद् एव मनः पीनं बालवेतालवन् मुने
प्रतिभासस्यानुपदं प्राक्तनीं स्थितिम् उज्झति । कुलालकर्मानुपदं घटो मृत्पिण्डताम् इव
प्रतिभातार्थताम् एति क्षणाद् एव मनो मुने । स्पन्दमात्रात्मकं वारि यथा तुङ्गतरङ्गताम्
अनुसन्धानमात्रेण सूर्यबिम्बे ऽपि यामिनीम् । मनः पश्यत्य् अशुद्धाक्षश् चन्द्रबिम्बे द्विताम् इव
यत् पश्यति तद् एवाशु फलीभूतम् इदं मनः । सह हर्षविषादाभ्यां भुङ्क्ते तस्मात् तद् एव सत्
प्रतिभानुपदं चैतच् चन्द्रे ऽप्य् अग्निशिखाशतम् । दृष्ट्वा दाहम् अवाप्नोति दग्धं च परितप्यते
प्रतिभानुपदं चेतः क्षारे ऽपि हि रसायनम् । दृष्ट्वा पीत्वा परां तृप्तिं याति वल्गति दृप्यति
प्रतिभानुपदं चेतो व्योमन्य् अपि महावनम् । दृष्ट्वा लुनाति लूत्वा च पुनर् आरोपयत्य् अलम्
इत्थं यद् एव परिकल्पयतीन्द्रजालं क्षिप्रं तद् एव परिपश्यति तात चेतः । नासज् जगन् न च सद् इत्य् अवगम्य नूनम् एनां दृशं विविधभेदवतीं जहीहि
तस्मात् सर्वपदार्थानां त्रैलोक्योदरवर्तिनाम् । उत्पत्तिर् ब्रह्मणो राम तरङ्गानाम् इवार्णवात्
काश्चिज् जन्मसहस्राढ्याः पतन्ति वनपर्णवत् । कर्मवात्या परिभ्रान्ता लुठन्ति गिरिकुक्षिषु
अप्रमेयभवाः काश्चित् सन्तताज्ञानमोहिताः । चिरजाता भ्रमन्तीह बहुकल्पशतान्य् अपि
काश्चित् कतिपयातीतमनोरमभवान्तराः । विहरन्ति जगत्य् अस्मिञ् शुभकर्मपरायणाः
काश्चिद् विज्ञातविज्ञानाः परम् एव पदं गताः । वातोद्धूताः पयोमध्यं सामुद्रा इव बिन्दवः
उत्पत्तिस् सर्वबीजानाम् इति हि ब्रह्मणः पदात् । आविर्भावतिरोभावभङ्गुरा भवरागिणी
वासना विषवैषम्यवैधुर्यज्वरधारिणी । अनन्तसङ्कटानर्थकार्यसङ्करकारिणी