अथ नास्त्य् एव वा देहः केवलं चेतसोहितः । मुधानुभूयते स्वप्नमृगतृष्णाद्विचन्द्रवत्
एकनाशे द्वयोर् एव नाशो ऽत्राभ्युपपद्यते । अवश्यभावी तु मनोनाशे देहपरिक्षयः
मनश् शापादिभिर् दोषैः कथं नाक्रम्यते प्रभो । कथम् आक्रम्यते वापि ब्रूहि मे परमेश्वर
न तद् अस्ति जगत्कोशे शुभकर्मानुपातिना । यत् पौरुषेण शुद्धेन न समासाद्यते जनैः
आब्रह्मस्थावरान्तं च सर्वदा सर्वजातयः । सर्वा एव जगत्य् अस्मिन् द्विशरीराश् शरीरिणाम्
एकं मनश्शरीरं तु क्षिप्रकारि स्थितं चलम् । अकिञ्चित्करम् अन्यत् तु शरीरं मांसनिर्मितम्
यत्र मांसमयः कायस् सर्वस्यैव वशङ्गतः । सर्वैर् आयास्यते शापैस् तथाधिव्याधिसञ्चयैः
मूकप्रायो ह्य् अशक्तो ऽसौ दीनः क्षणविनश्वरः । पद्मपत्त्राम्बुचपलो देवादिविवशस्थितिः
मनो नाम द्वितीयो यः कायः कायवताम् इह । स आयत्तो ऽपि नायत्तो भूतानां भुवनत्रये
पौरुषं स्वम् अवष्टभ्य धैर्यम् आलम्ब्य शाश्वतम् । यदि तिष्ठत्य् अगम्यो ऽसौ दुःखानां तद् अनिन्दितः
यथा यथासौ यतते मनोदेहो हि देहिनाम् । तथा तथासौ भवति स्वनिश्चयफलैकभाक्
सफलो मांसदेहस्य न कश्चित् पौरुषक्रमः । मनोदेहस्य सफलं सर्वम् एव स्वचेष्टितम्
पवित्रम् अनुसन्धानं चेतसा यस् स्मरन् स्थितः । निष्फलास् तत्र शापाद्याश् शिलायाम् इव सायकाः
पतत्व् अम्भसि वह्नौ वा कर्दमे वा कलेवरम् । मनो यद् अनुसन्धत्ते तद् एवाप्नोति निश्चितम्
पौरुषातिशयस् सर्वस् सर्वभावोपमर्दजः । ददात्य् अविघ्नेन फलं मनो हि मनसो मुने
पौरुषेण बलेनान्तश् चित्तं कृत्वा प्रियामयम् । कृत्रिमेन्द्रेण दुःखार्तिर् न दृष्टा शासनास्व् अपि
पौरुषेण मनः कृत्वा नीरागं विगतज्वरम् । माण्डव्येन जिताः क्लेशाश् शूलप्रान्ते ऽपि तिष्ठता
अन्धकूपे स्थितेनापि मानसैर् यज्ञसञ्चयैः । ऋषिणा दीर्घतपसा सम्प्राप्तं वैबुधं पुरम्
इन्दोः पुत्रैर् नरैर् एव पुरुषाध्यवसायतः । ध्यानेन ब्रह्मता प्राप्ता या मयापि न खण्ड्यते
अन्ये ऽप्य् सावधाना ये धीरास् सुरमहर्षयः । चित्तात् स्वम् अनुसन्धानं न त्यजन्ति मनाग् अपि
आधयो व्याधयश् चैव शापाः पापदृशस् तथा । न खण्डयन्ति तान् पद्मपत्त्राघाताश् शिलाम् इव
ये वापि खण्डिताः केचिच् छापाद्यैर् आधिसायकैः । स्वविवेकाक्षमं तेषां मनो मन्ये ऽप्य् अपौरुषम्
न कदाचन संसारे सावधानमना मनाक् । स्वप्ने ऽपि कश्चिद् अस्त्य् एव दोषजालैः खलीकृतः
मनसैव मनस् तस्मात् पौरुषेण पुमान् इह । स्वकम् एव स्वकेनैव योजयेत् पावने पथि
प्रतिभातं यद् एवास्य तथारूपं भवत्य् अलम् । क्षणाद् एव मनः पीनं बालवेतालवन् मुने
प्रतिभासस्यानुपदं प्राक्तनीं स्थितिम् उज्झति । कुलालकर्मानुपदं घटो मृत्पिण्डताम् इव
प्रतिभातार्थताम् एति क्षणाद् एव मनो मुने । स्पन्दमात्रात्मकं वारि यथा तुङ्गतरङ्गताम्
अनुसन्धानमात्रेण सूर्यबिम्बे ऽपि यामिनीम् । मनः पश्यत्य् अशुद्धाक्षश् चन्द्रबिम्बे द्विताम् इव
यत् पश्यति तद् एवाशु फलीभूतम् इदं मनः । सह हर्षविषादाभ्यां भुङ्क्ते तस्मात् तद् एव सत्
प्रतिभानुपदं चैतच् चन्द्रे ऽप्य् अग्निशिखाशतम् । दृष्ट्वा दाहम् अवाप्नोति दग्धं च परितप्यते