द्विचन्द्रविभ्रमाकारं तन्मात्राकारविभ्रमम् । ऐन्दवाब्जजवद् रूढं चितश् चित्त्वं मनो भवेत्
न सन् नासद् अहंरूपं सत्त्वासत्त्वे तथैव च । उपलम्भेन सद्रूपम् असत्यं तद्विरोधतः
जडाजडं मनो विद्धि सङ्कल्पात्म बृहद्वपुः । अजडं ब्रह्मरूपत्वाज् जडं दृश्यात्मतागमात्
दृश्यानुभवसत्यात्म तदभावे विलायि तत् । कटकत्वं यथा हेम्नि तथा ब्रह्मणि संस्थितम्
सर्वत्वाद् ब्रह्मणस् सर्वं जडं चिन्मयम् एव वा । अस्मदादिशिलान्तात्म न जडं न च चेतनम्
दार्वादीनाम् अचित्त्वेन नोपलम्भस्य सम्भवः । उपलम्भो हि सदृशसम्बन्धाद् एव जायते
उपलब्धेर् जडं विद्धि चेतनं सर्वम् एव हि । उपलम्भो हि सम्बन्धात् सम्बन्धो हि समात्मनोः
जडचेतनशान्तादिशब्दार्थश्रीर् न विद्यते । अनिर्देश्ये पदे पत्त्रलतादीव महामरौ
चितौ यच् चेत्यकलनं तन् मनस्त्वम् उदाहृतम् । चिद्भागो ऽत्राजडो भागो जाड्यम् अत्र तु चेत्यता
चिद्भागो ऽत्रावबोधांशो जडं चेत्यं हि दृश्यता । इति जीवो जगद्भ्रान्तिं पश्यन् गच्छति लोलताम्
चिता स्व एव भावो ऽसौ शुद्धयैवं द्वयीकृतः । अतस् सर्वं जगत् सैव द्वैतं लब्धांशम् एव तत्
स्वम् एवान्यतया दृष्ट्वा चितिर् दृश्यतया वपुः । निर्भागाप्य् एकभागाभं भ्रमतीव भ्रमातुरा
न भ्रान्तिर् अस्ति भ्रमभाङ् नैवेतीह हि निश्चयः । परिपूर्णार्णवप्रख्या चितीत्थं संस्थिता चितिः
सर्वत्वाज् जाड्यम् अस्त्व् अस्यां चिति चित्त्वं च वेत्सि तत् । चिद्भागो ऽत्रावबोधांशस् त्व् अहन्ताजडतोदयः
अहन्त्वादि परे तत्त्वे मनाग् अपि न विद्यते । ऊर्म्यादीव पृथक् तोये संवित्सारं हि तद् यतः
अहम्प्रत्ययसन्दृश्यं चेत्यं विद्धि समुत्थितम् । मृगतृष्णास्व् इवातस् तन् नूनं विद्यत एव नो
अहन्तापदमात्रात्मपदं विद्धि निरामयम् । विदं विदुर् अहन्तादि शैत्यम् एव यथा हिमम्
चितैव चेत्यते जाड्यं स्वप्ने स्वमरणोपमम् । सर्वात्मत्वात् सर्वशक्तीः कुर्वती नैति साम्यताम्
मनः पदार्थादितया सर्वरूपं विजृम्भते । नानात्मा चित्तदेहो ऽयम् आकाशविषदाकृतिः
देहादि देहप्रतिभारूपात्म त्यजता सदा । विचार्यं प्रतिभासात्म चित्त्वं चित्त्वेन वै स्फुटम्
चित्तताम्रे शोधिते हि परमार्थसुवर्णताम् । गते ऽकृत्रिम आनन्दः किं देहोपलखण्डकैः
यद् विद्यते शोध्यते तद् धौतः केन खपादपः । देहाद्यविद्या सत्या चेद् युक्त एतां प्रति ग्रहः
असत्याभिनिविष्टानां देहादाव् अधियाम् इह । ये नामोपदिशन्त्य् अज्ञाः केचित् ते पुरुषैडकाः
यथैतद् भावयेत् स्वान्तं तथैतद् भवति क्षणात् । दृष्टान्तो ऽत्रैन्दवाहल्याकृत्रिमेन्द्रादिनिश्चयः
यद् यद् यथा स्फुरति स्वप्रतिभात्म चित्तं तत् तत् तथा भवति देहतयोदितात्म । देहो ऽयम् अस्ति न न चाहम् इति स्वरूपं विज्ञानम् एकम् अवगम्य निरिच्छम् आस्स्व
देहो ऽयम् एष च किलाहम् इति स्वभावाद् देहार्थम् एव यतते तत एति नाशम् । यक्षादिकल्पनवशाद् भयम् एति बालो निर्यक्षदेशगत एव कयापि युक्त्या
इत्य् उक्तवान् स भगवान् मया कमलसम्भवः । रघूद्वह पुनः पृष्टो वाक्यम् आक्षिप्य भूतपः
त्वयैव भगवन् प्रोक्ताश् शापमन्त्रादिशक्तयः । अमोघा इति ता एव कथं मोघीकृताः पुनः
शापेन मन्त्रवीर्येण मनोबुद्धीन्द्रियाण्य् अपि । सर्वाण्य् एव विमूढानि दृष्टानि किल जन्तुषु
यथैतौ पवनस्पन्दौ यथा स्नेहघृते तथा । अभिन्नौ तद्वद् एवैतौ मनोदेहौ सदैव हि