यथैवैन्दवजीवास् ते चित्तत्वाद् ब्रह्मतां गताः । वयं तथैव चिद्भावाच् चित्तत्वाद् ब्रह्मतां गताः
चित्तं हि प्रतिभासात्म यच् च तत्प्रतिभासनम् । तद् इदं भाति देहादिखाभं नातो ऽस्ति देहदृक्
चित्त्वम् आत्मचमत्कारस् तच् चमत्कुरुते स्वतः । यद् यावत्सम्भवं स्वात्मन्य् एवान्तर् मरिचात्मवत्
तद् एतच् चित्तवद् भातम् आतिवाहिकनामकम् । तद् एवोदाहरन्त्य् एतद् देहनाम्ना घनं भ्रमि
कथ्यते जीवनाम्नैतच् चेतः प्रतनुवासनम् । शान्तं देहचमत्कारं जीवं विद्धि क्रमात् परम्
नाहं न चान्यद् अस्तीह चित्त्वं चित्तम् इदं स्थितम् । वसिष्ठैन्दवसंविद्वद् असत् सत्ताम् इवागतम्
यथैन्दवमनो ब्रह्मा तथैवायम् अहं स्थितः । मत्कृतं चाहम् एवेदं सङ्कल्पात्मैव भासते
कश्चिच् चित्तविलासो ऽयं ब्रह्माहम् इति संस्थितः । स्वभाव एव देहादि विद्धि शून्यतरात्मखात्
शुद्धा चित् परमात्मैकरूपिणीत्य् एव भावनात् । जीवीभूय मनो भूत्वा वेत्तीत्थं देहतां मुधा
सर्वम् ऐन्दवसंसारवद् इदं भाति चिद्वपुः । सम्पन्नम् अप्रबोधात्म दीर्घस्वप्नस् स्वशक्तिजः
द्विचन्द्रविभ्रमाकारं तन्मात्राकारविभ्रमम् । ऐन्दवाब्जजवद् रूढं चितश् चित्त्वं मनो भवेत्
न सन् नासद् अहंरूपं सत्त्वासत्त्वे तथैव च । उपलम्भेन सद्रूपम् असत्यं तद्विरोधतः
जडाजडं मनो विद्धि सङ्कल्पात्म बृहद्वपुः । अजडं ब्रह्मरूपत्वाज् जडं दृश्यात्मतागमात्
दृश्यानुभवसत्यात्म तदभावे विलायि तत् । कटकत्वं यथा हेम्नि तथा ब्रह्मणि संस्थितम्
सर्वत्वाद् ब्रह्मणस् सर्वं जडं चिन्मयम् एव वा । अस्मदादिशिलान्तात्म न जडं न च चेतनम्
दार्वादीनाम् अचित्त्वेन नोपलम्भस्य सम्भवः । उपलम्भो हि सदृशसम्बन्धाद् एव जायते
उपलब्धेर् जडं विद्धि चेतनं सर्वम् एव हि । उपलम्भो हि सम्बन्धात् सम्बन्धो हि समात्मनोः
जडचेतनशान्तादिशब्दार्थश्रीर् न विद्यते । अनिर्देश्ये पदे पत्त्रलतादीव महामरौ
चितौ यच् चेत्यकलनं तन् मनस्त्वम् उदाहृतम् । चिद्भागो ऽत्राजडो भागो जाड्यम् अत्र तु चेत्यता
चिद्भागो ऽत्रावबोधांशो जडं चेत्यं हि दृश्यता । इति जीवो जगद्भ्रान्तिं पश्यन् गच्छति लोलताम्
चिता स्व एव भावो ऽसौ शुद्धयैवं द्वयीकृतः । अतस् सर्वं जगत् सैव द्वैतं लब्धांशम् एव तत्
स्वम् एवान्यतया दृष्ट्वा चितिर् दृश्यतया वपुः । निर्भागाप्य् एकभागाभं भ्रमतीव भ्रमातुरा
न भ्रान्तिर् अस्ति भ्रमभाङ् नैवेतीह हि निश्चयः । परिपूर्णार्णवप्रख्या चितीत्थं संस्थिता चितिः
सर्वत्वाज् जाड्यम् अस्त्व् अस्यां चिति चित्त्वं च वेत्सि तत् । चिद्भागो ऽत्रावबोधांशस् त्व् अहन्ताजडतोदयः
अहन्त्वादि परे तत्त्वे मनाग् अपि न विद्यते । ऊर्म्यादीव पृथक् तोये संवित्सारं हि तद् यतः
अहम्प्रत्ययसन्दृश्यं चेत्यं विद्धि समुत्थितम् । मृगतृष्णास्व् इवातस् तन् नूनं विद्यत एव नो
अहन्तापदमात्रात्मपदं विद्धि निरामयम् । विदं विदुर् अहन्तादि शैत्यम् एव यथा हिमम्
चितैव चेत्यते जाड्यं स्वप्ने स्वमरणोपमम् । सर्वात्मत्वात् सर्वशक्तीः कुर्वती नैति साम्यताम्
मनः पदार्थादितया सर्वरूपं विजृम्भते । नानात्मा चित्तदेहो ऽयम् आकाशविषदाकृतिः
देहादि देहप्रतिभारूपात्म त्यजता सदा । विचार्यं प्रतिभासात्म चित्त्वं चित्त्वेन वै स्फुटम्