भारतो हि तयोश् शापस् स समर्थो बभूव ह । शरीरमात्राक्रमणे न मनोनिग्रहे प्रभो
ताव् अद्यावधितेनैव देहसंस्कारहेतुना । यत्र यत्रोपजायेते भवतस् तत्र दम्पती
अकृत्रिमप्रेमरसानुविद्धं स्नेहं तयोस् तं प्रसमीक्ष्य कान्तम् । वृक्षा अपि स्नेहरसानुविद्धाश् शृङ्गारचेष्टाकुलिता भवति
तेनैतद् वच्मि भगवन् यथाजातं मनो मुने । अनिग्राह्यम् अभेद्यं च शापैर् अपि दुरासदैः
ऐन्दवानाम् अतस् सृष्टिक्रमाणां प्रविनाशनम् । युज्यते न न च ब्रह्मन् युक्तम् एतन् महात्मनः
किं तद् अस्ति जगत्य् अस्मिन् विविधेषु जगत्सु वा । तवापि नाथ नाथस्य यद् दैन्याय महात्मनः
मनो हि जगतां कर्तृ मनो हि पुरुषस् स्मृतः । मनःकृतं कृतं लोके न शरीरकृतं कृतम्
यन् मनोनिश्चयकृतं तद् द्रव्यौषधिदण्डनैः । हन्तुं न शक्यते जन्तोः प्रतिबिम्बं मणेर् इव
तस्माद् एते ऽत्र तिष्ठन्तु भासुरैस् सर्गसम्भ्रमैः । त्वं सृष्ट्वेह प्रजास् तिष्ठ बुद्ध्याकाशे ऽप्य् अनन्तकः
चित्ताकाशश् चिदाकाश आकाशश् च तृतीयकः । अनन्तास् त्रय एवैते चिदाकाशप्रकाशिताः
एकं द्वौ वा बहून् वापि कुरु सर्गान् प्रजापते । स्वेच्छयात्मनि तिष्ठ त्वं किं गृहीतं तवैन्दवैः
अथैन्दवे जगज्जाले भानुनेत्थम् उदाहृते । मया सञ्चिन्त्य सुचिरम् इदम् उक्तं महामुने
युक्तम् उक्तं त्वया भानो विततं हि किलाम्बरम् । मनश् च विततं चापि चिदाकाशश् च विस्तृतः
तद् यथाभिमतं सर्गं नित्यं कर्म करोम्य् अहम् । कल्पयामि बहून्य् आशु भूतजालानि भास्कर
तत् त्वम् एवाशु भगवन् प्रथमो ऽत्र मनुर् भव । कुरु सर्गं यथाकामं मया समभिचोदितः
अथैतत् स महातेजा मम वाक्यं प्रभाकरः । अङ्गीकृत्य द्विधात्मानं चकार तपतां वरः
एकेन प्राक्तने तस्मिन् वपुषा सूर्यतां गतः । व्योमाध्वगतया सर्गे ततान दिवसावलीम्
मन्मनुत्वं द्वितीयेन कृत्वा स्ववपुषा क्षणात् । ससर्ज सकलां सृष्टिं तताम् अभिमतां मम
प्रतिभासम् उपायाति यद् यद् अस्य हि चेतसः । तत् तत् प्रकटताम् एति स्थैर्यं सफलताम् अपि
सामान्यब्राह्मणा भूत्वा प्रतिभासवशात् किल । ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम्
यथैवैन्दवजीवास् ते चित्तत्वाद् ब्रह्मतां गताः । वयं तथैव चिद्भावाच् चित्तत्वाद् ब्रह्मतां गताः
चित्तं हि प्रतिभासात्म यच् च तत्प्रतिभासनम् । तद् इदं भाति देहादिखाभं नातो ऽस्ति देहदृक्
चित्त्वम् आत्मचमत्कारस् तच् चमत्कुरुते स्वतः । यद् यावत्सम्भवं स्वात्मन्य् एवान्तर् मरिचात्मवत्
तद् एतच् चित्तवद् भातम् आतिवाहिकनामकम् । तद् एवोदाहरन्त्य् एतद् देहनाम्ना घनं भ्रमि
कथ्यते जीवनाम्नैतच् चेतः प्रतनुवासनम् । शान्तं देहचमत्कारं जीवं विद्धि क्रमात् परम्
नाहं न चान्यद् अस्तीह चित्त्वं चित्तम् इदं स्थितम् । वसिष्ठैन्दवसंविद्वद् असत् सत्ताम् इवागतम्
यथैन्दवमनो ब्रह्मा तथैवायम् अहं स्थितः । मत्कृतं चाहम् एवेदं सङ्कल्पात्मैव भासते
कश्चिच् चित्तविलासो ऽयं ब्रह्माहम् इति संस्थितः । स्वभाव एव देहादि विद्धि शून्यतरात्मखात्
शुद्धा चित् परमात्मैकरूपिणीत्य् एव भावनात् । जीवीभूय मनो भूत्वा वेत्तीत्थं देहतां मुधा
सर्वम् ऐन्दवसंसारवद् इदं भाति चिद्वपुः । सम्पन्नम् अप्रबोधात्म दीर्घस्वप्नस् स्वशक्तिजः