तीव्रवेगेन संसक्तं पुरुषा ह्य् अभिवाञ्छिते । मनश् चालयितुं शक्ता न महाद्रिं मृगा इव
रामेयम् असितापाङ्गा मनःकोशे प्रतिष्ठिता । देवागारे महोत्सेधे देवी भगवती यथा
न दुःखम् अनुगच्छामि प्रियया जीवरक्षया । गिरिर् ग्रीष्मदशादाहं लग्नयेवाभ्रमालया
यत्र यत्र यथा राजंस् तिष्ठाम्य् अभिपतामि वा । तत्रेष्टासङ्गमाद् अन्यत् किङ्चिन् नानुभवाम्य् अहम्
अहल्यादयितानाम्ना मनसेन्द्राभिधं मनः । संसक्तम् इदम् आयाति न स्वभावाद् ऋते परम्
एककार्यनिविष्टं हि मनो धीरस्य भूपते । न चाल्यते मेरुर् इव वरशापबलैर् अपि
देहो हि वरशापाभ्याम् अन्यत्वम् उपगच्छति । न तु धीरं मनो राजन् विजिगीषुतयोत्थितम्
एतानि चात्र मनसां न च कारणानि राजञ् शरीरशकलान्य् असमुत्थितानि । चेतो हि कारणम् अमीषु शरीरकेषु वारीव सर्ववनषण्डलतारसेषु
आद्यं शरीरम् इह विद्धि मनो महात्मन् सङ्कल्पिता जगति तेन शरीरसङ्घाः । आद्यं शरीरम् अभितिष्ठति यत्र तत्र तत् तद् भृशं फलति नेतरद् अस्य पुंसः
मुख्याङ्कुरं सुभग विद्धि मनो हि पुंसो देहास् ततः प्रविसृतास् तरुपल्लवाभाः । नष्टे ऽङ्कुरे पुनर् उदेति न पल्लवश्रीर् न त्व् अङ्कुरः क्षयम् उपैति दलक्षयेषु
देहक्षये विविधदेहगणं करोति स्वप्नावनाव् इव वनं नवम् आशु चेतः । चित्ते क्षते न तु करोति हि किञ्चिद् एव देहस् ततस् समनुपालय चित्तरत्नम्
दिशि दिशि हरिणाक्षीम् एव पश्यामि राजन् प्रिययुवतिमनस्त्वान् नित्यम् आनन्दितो ऽस्मि । तव सुखविकृतीनां यत् फलं दुःखदायि क्षणम् अथ सुचिरं वा तन् न पश्यामि किञ्चित्
अथेन्द्रेणैवम् उक्तो ऽसौ राजा राजीवलोचनः । मुनिं भरतनामानं पार्श्वसंस्थम् उवाच ह
भगवन् सर्वधर्मज्ञ पश्यस्य् अस्य दुरात्मनः । भृशम् अद्य मुखे स्फारं धार्ष्ट्यं मद्दारहारिणः
पापानुरूपम् अप्य् अस्य शापं देहि महामुने । यद् अवध्यवधात् पापं वधत्यागात् तद् एव हि
इत्य् उक्तो राजसिंहेन भरतो मुनिसत्तमः । यथावत् प्रविचार्याशु पापं तस्य दुरात्मनः
सहानया दुष्कृतिन्या भर्तृद्रोहाभिभूतया । विनाशं व्रज दुर्बुद्धे इति शापं विसृष्टवान्
ततस् तौ स्नेहसम्बद्धमनस्काव् एव शापतः । पतितौ भूतले वृक्षविच्युताव् इव पल्लवौ
अथ व्यसनसंसक्तौ मृगयोनिम् उपागतौ । ततो द्वाव् अपि संसक्तौ भूयो जातौ विहङ्गमौ
अद्यास्माकं विभो सर्गे मिथस्सम्बद्धभावनौ । तपःपरौ महापुण्यौ जातौ ब्राह्मणदम्पती
भारतो हि तयोश् शापस् स समर्थो बभूव ह । शरीरमात्राक्रमणे न मनोनिग्रहे प्रभो
ताव् अद्यावधितेनैव देहसंस्कारहेतुना । यत्र यत्रोपजायेते भवतस् तत्र दम्पती
अकृत्रिमप्रेमरसानुविद्धं स्नेहं तयोस् तं प्रसमीक्ष्य कान्तम् । वृक्षा अपि स्नेहरसानुविद्धाश् शृङ्गारचेष्टाकुलिता भवति
तेनैतद् वच्मि भगवन् यथाजातं मनो मुने । अनिग्राह्यम् अभेद्यं च शापैर् अपि दुरासदैः
ऐन्दवानाम् अतस् सृष्टिक्रमाणां प्रविनाशनम् । युज्यते न न च ब्रह्मन् युक्तम् एतन् महात्मनः
किं तद् अस्ति जगत्य् अस्मिन् विविधेषु जगत्सु वा । तवापि नाथ नाथस्य यद् दैन्याय महात्मनः
मनो हि जगतां कर्तृ मनो हि पुरुषस् स्मृतः । मनःकृतं कृतं लोके न शरीरकृतं कृतम्
यन् मनोनिश्चयकृतं तद् द्रव्यौषधिदण्डनैः । हन्तुं न शक्यते जन्तोः प्रतिबिम्बं मणेर् इव
तस्माद् एते ऽत्र तिष्ठन्तु भासुरैस् सर्गसम्भ्रमैः । त्वं सृष्ट्वेह प्रजास् तिष्ठ बुद्ध्याकाशे ऽप्य् अनन्तकः
चित्ताकाशश् चिदाकाश आकाशश् च तृतीयकः । अनन्तास् त्रय एवैते चिदाकाशप्रकाशिताः