ततस् तदनुरक्ता सा पश्यन्ती तन्मयं जगत् । न सानन्तगुणाकीर्णं भर्तारं बह्व् अमन्यत
केनचित् त्व् अथ कालेन तस्या इन्द्रानुरागिता । सा ज्ञाता राजसिंहेन तन्मुखव्योमचन्द्रिका
इन्द्रं ध्यायति सा यावत् तावत् तस्या विराजते । मुखं पूर्णेन चन्द्रेण प्रबुद्धम् इव कैरवम्
एवम् अन्योऽन्यम् आसक्तभावम् आलोक्य भूपतिः । चकार बहुभिर् दण्डैस् स द्वयोर् अथ शासनम्
ताव् उभाव् अपि सन्त्यक्तौ हि सन्तौ सलिलाशये । तुष्टौ जहसतुस् तत्र न खेदं समुपागतौ
अपृच्छत् तौ ततो राजा खिन्नौ स्थः किं न दुर्मती । ताव् ऊचतुर् महीपालं जलाशयसमुद्धृतौ
संसृत्यावाम् इहान्योऽन्यं मुखकान्तिम् अनिन्दिताम् । मुह्यावो न महीपाल स्वाङ्गैर् अपि विकर्तितैः
वह्नाव् अपि परिक्षिप्ताव् अखिन्नाव् एवम् एव तौ । ऊचतुर् मुदितात्मानाव् अन्योऽन्यं स्मृतिहर्षितौ
ग्रथितौ गजपादेषु नखिन्नाव् एव संस्थितौ । एवम् एवोचतुर् भूपम् अन्योऽन्यं स्मृतिहर्षितौ
कषाहताव् अखिन्नौ ताव् एवम् एव किलोचतुः । पङ्कमग्नाव् अखिन्नौ ताव् एवम् एव किलोचतुः
अन्यस्माच् छासनाजालात् कल्पिताच् च पुनः पुनः । उद्धृताव् ऊचतुः पृष्टौ तम् एवार्थं पुनः पुनः
उवाचेन्द्रो महीपाल जगन् मे दयितामयम् । न शासनानि दुःखानि बाधन्ते किञ्चिद् एव मे
अस्याश् चैव जगद् राजन् सर्वं मन्मयम् एव हि । तेन नौ शासनादुःखं किञ्चिद् एव न बाधते
मनो नाम वयं राजन् मनो हि पुरुषस् स्मृतः । प्रपञ्चमात्रम् एवायं देहो दृश्यत एव हि
समकालप्रयुक्तेन सहसा दण्डराशिना । धीरं मनो भेधयितुं न मनाग् अपि शक्यते
का नाम ता महाराज कीदृश्यः कस्य शक्तयः । याभिर् मनांसि भिद्यन्ते दृढनिश्चयवन्त्य् अपि
पततूदेतु वा देहो यातु वा विशरारुताम् । भावितार्थाभिपतितं मनस् तिष्ठति पूर्ववत्
इष्टे ऽर्थे चिरम् आविष्टं भङ्क्तुं धीरं स्थितं मनः । भावा भावाश् शरीरस्था मम शक्ता न केचन
भावितं तीव्रवेगेन मनसा यन् महीपते । तद् एव पश्यत्य् अचलं न शरीरविचेष्टितम्
न काश्चन क्रिया राजन् वरशापादिका अपि । तीव्रसंवेगसम्पन्नं शक्ताश् चालयितुं मनः
तीव्रवेगेन संसक्तं पुरुषा ह्य् अभिवाञ्छिते । मनश् चालयितुं शक्ता न महाद्रिं मृगा इव
रामेयम् असितापाङ्गा मनःकोशे प्रतिष्ठिता । देवागारे महोत्सेधे देवी भगवती यथा
न दुःखम् अनुगच्छामि प्रियया जीवरक्षया । गिरिर् ग्रीष्मदशादाहं लग्नयेवाभ्रमालया
यत्र यत्र यथा राजंस् तिष्ठाम्य् अभिपतामि वा । तत्रेष्टासङ्गमाद् अन्यत् किङ्चिन् नानुभवाम्य् अहम्
अहल्यादयितानाम्ना मनसेन्द्राभिधं मनः । संसक्तम् इदम् आयाति न स्वभावाद् ऋते परम्
एककार्यनिविष्टं हि मनो धीरस्य भूपते । न चाल्यते मेरुर् इव वरशापबलैर् अपि
देहो हि वरशापाभ्याम् अन्यत्वम् उपगच्छति । न तु धीरं मनो राजन् विजिगीषुतयोत्थितम्
एतानि चात्र मनसां न च कारणानि राजञ् शरीरशकलान्य् असमुत्थितानि । चेतो हि कारणम् अमीषु शरीरकेषु वारीव सर्ववनषण्डलतारसेषु
आद्यं शरीरम् इह विद्धि मनो महात्मन् सङ्कल्पिता जगति तेन शरीरसङ्घाः । आद्यं शरीरम् अभितिष्ठति यत्र तत्र तत् तद् भृशं फलति नेतरद् अस्य पुंसः
मुख्याङ्कुरं सुभग विद्धि मनो हि पुंसो देहास् ततः प्रविसृतास् तरुपल्लवाभाः । नष्टे ऽङ्कुरे पुनर् उदेति न पल्लवश्रीर् न त्व् अङ्कुरः क्षयम् उपैति दलक्षयेषु