आकर्ण्य तद् अहल्या सा बभूवेन्द्रानुरागिणी । अहल्यां मां न कस्मात् स शक्रो ऽभ्येतीति सोत्सुका
मृणालहारकदलीपल्लवास्तरणेषु सा । अतप्यत भृशं बाला लतालूना वनेष्व् इव
खेदम् आप समग्रासु तासु भूपविभूतिषु । मत्सी निदाघतप्तासु परिलोला स्थलेष्व् इव
अयम् इन्द्रो ऽयम् इन्द्रश् चेत्य् एवं जातप्रलापया । लज्जापि हि तया त्यक्ता वैवश्यम् उपयातया
इत्य् आर्ताया घनस्नेहम् अथ तस्या वयस्यया । उक्तम् आलि तवाविघ्नम् इन्द्रम् अप्य् आनयाम्य् अहम्
इन्द्रं तवानयामीति श्रुत्वा विकसितेक्षणा । पपात पादयोस् सख्या नलिन्या नलिनी यथा
ततः प्रयाते दिवसे समायाते निशागमे । सा वयस्या तम् इन्द्राख्यं ययौ विप्रकुमारकम्
बोधयित्वा यथायुक्तं सा तम् इन्द्रकुमारकम् । अहल्यानिकटं रात्राव् आनयाम् आस सत्वरम्
सा ततस् तेन शिड्गेन महेन्द्रेण रतिं ययौ । कस्मिंश्चित् सदने गुप्ते बहुमाल्यविलेपना
हाराङ्गदमनोज्ञेन तेन सा तरुणी तदा । रतेनावर्जिता वल्ली रसेन मधुना यथा
ततस् तदनुरक्ता सा पश्यन्ती तन्मयं जगत् । न सानन्तगुणाकीर्णं भर्तारं बह्व् अमन्यत
केनचित् त्व् अथ कालेन तस्या इन्द्रानुरागिता । सा ज्ञाता राजसिंहेन तन्मुखव्योमचन्द्रिका
इन्द्रं ध्यायति सा यावत् तावत् तस्या विराजते । मुखं पूर्णेन चन्द्रेण प्रबुद्धम् इव कैरवम्
एवम् अन्योऽन्यम् आसक्तभावम् आलोक्य भूपतिः । चकार बहुभिर् दण्डैस् स द्वयोर् अथ शासनम्
ताव् उभाव् अपि सन्त्यक्तौ हि सन्तौ सलिलाशये । तुष्टौ जहसतुस् तत्र न खेदं समुपागतौ
अपृच्छत् तौ ततो राजा खिन्नौ स्थः किं न दुर्मती । ताव् ऊचतुर् महीपालं जलाशयसमुद्धृतौ
संसृत्यावाम् इहान्योऽन्यं मुखकान्तिम् अनिन्दिताम् । मुह्यावो न महीपाल स्वाङ्गैर् अपि विकर्तितैः
वह्नाव् अपि परिक्षिप्ताव् अखिन्नाव् एवम् एव तौ । ऊचतुर् मुदितात्मानाव् अन्योऽन्यं स्मृतिहर्षितौ
ग्रथितौ गजपादेषु नखिन्नाव् एव संस्थितौ । एवम् एवोचतुर् भूपम् अन्योऽन्यं स्मृतिहर्षितौ
कषाहताव् अखिन्नौ ताव् एवम् एव किलोचतुः । पङ्कमग्नाव् अखिन्नौ ताव् एवम् एव किलोचतुः
अन्यस्माच् छासनाजालात् कल्पिताच् च पुनः पुनः । उद्धृताव् ऊचतुः पृष्टौ तम् एवार्थं पुनः पुनः
उवाचेन्द्रो महीपाल जगन् मे दयितामयम् । न शासनानि दुःखानि बाधन्ते किञ्चिद् एव मे
अस्याश् चैव जगद् राजन् सर्वं मन्मयम् एव हि । तेन नौ शासनादुःखं किञ्चिद् एव न बाधते
मनो नाम वयं राजन् मनो हि पुरुषस् स्मृतः । प्रपञ्चमात्रम् एवायं देहो दृश्यत एव हि
समकालप्रयुक्तेन सहसा दण्डराशिना । धीरं मनो भेधयितुं न मनाग् अपि शक्यते
का नाम ता महाराज कीदृश्यः कस्य शक्तयः । याभिर् मनांसि भिद्यन्ते दृढनिश्चयवन्त्य् अपि
पततूदेतु वा देहो यातु वा विशरारुताम् । भावितार्थाभिपतितं मनस् तिष्ठति पूर्ववत्
इष्टे ऽर्थे चिरम् आविष्टं भङ्क्तुं धीरं स्थितं मनः । भावा भावाश् शरीरस्था मम शक्ता न केचन
भावितं तीव्रवेगेन मनसा यन् महीपते । तद् एव पश्यत्य् अचलं न शरीरविचेष्टितम्
न काश्चन क्रिया राजन् वरशापादिका अपि । तीव्रसंवेगसम्पन्नं शक्ताश् चालयितुं मनः