निष्कामाद् एव भवतस् सर्गस् सम्पद्यते प्रभो । अर्काद् इव जलादित्यः प्रतिबिम्बम् इवाधियः
शरीरसन्निवेशस्य त्यागे रागे मते यदा । निष्कामो भगवन् भावो नाभिवाञ्छति नोज्झति
सृजसीदं तदा देव विनोदायैव भूतप । पुनस् संहृत्य संहृत्य दिनं दिनपतिर् यथा
तव नित्यम् असंसक्तविनोदायैव केवलम् । इदं कर्तव्यम् एवेति जगन् न तु घनेच्छया
सृष्टिं न च करोषि त्वम् अहर्व्यापारम् आत्मनः । नित्यकर्मपरित्यागात् किम् अपूर्वम् अवाप्स्यसि
यथाप्राप्तं हि कर्तव्यम् असक्तेन सता सदा । मकुरेणाकलङ्केन प्रतिबिम्बक्रिया यथा
यथैव कर्मकरणे कामना नास्ति धीमतः । तथैवाकर्मकरणे कामना नास्ति धीमतः
अतस् सुषुप्तोपमया वृत्त्या निष्कामयानया । सुप्तप्रबुद्धसमया कुरु कार्यं यथागतम्
सर्गैर् अथेन्दुपुत्राणां तोषम् एति जगत् प्रभो । तदैते तोषयिष्यन्ति न त्वां सर्गास् सुरेश्वर
चित्तनेत्रैर् भवान् एतान् सर्गान् पश्यति नो दृशा । अपश्यंश् चक्षुषा सर्गं सृष्टम् इत्य् एव वेत्ति कः
येनैव मनसा सर्गो निर्मितः परमेश्वर । स एव मांसनेत्रेण तं पश्यति हि नेतरः
न चैतान् दश संसारान् दशनीरजसम्भवान् । कश्चिन् नाशयितुं शक्तश् चितो दार्ढ्याच् चिरं स्थितान्
कर्मेन्द्रियैर् यत् क्रियते तद् रोद्धुं किल युज्यते । न मनोनिश्चयकृतं कश्चिद् रोधयितुं क्षमः
यो बद्धपदतां यातो जन्तोर् मनसि निश्चयः । स तेनैव विना ब्रह्मन् नान्येन विनिवार्यते
बहुकालं यद् अभ्यस्तं मनसा दृढनिश्चयम् । शापेनापि न तस्यास्ति क्षयो नष्टे ऽपि देहके
यद् बद्धपीठम् अभितो मनसि प्ररूढं तद्रूप एव पुरुषो भवतीह नान्यः । तद्बोधनाद् इतरम् अत्र किलाभ्युपायं शैलौघम् एकम् इव निष्फलम् एव मन्ये
श्रूयते हि पुरा देव मगधेषु महीपतिः । इन्द्रद्युम्न इति ख्यात इन्द्रद्युम्न इवापरः
तस्येन्दुबिम्बप्रतिमा भार्या कमललोचना । अहल्या नाम तत्रासीच् छशाङ्कस्येव रोहिणी
तस्मिन्न् एव पुरे शिड्गः किलासीद् बलवान् इति । इन्द्रनामापरः कश्चिच् छ्रीमान् विप्रकुमारकः
अहल्या पूर्वम् इन्द्रस्य बभूवेष्टेत्य् अहल्यया । श्रुतं राजमहिष्याथ कथाप्रस्तावतः क्वचित्
आकर्ण्य तद् अहल्या सा बभूवेन्द्रानुरागिणी । अहल्यां मां न कस्मात् स शक्रो ऽभ्येतीति सोत्सुका
मृणालहारकदलीपल्लवास्तरणेषु सा । अतप्यत भृशं बाला लतालूना वनेष्व् इव
खेदम् आप समग्रासु तासु भूपविभूतिषु । मत्सी निदाघतप्तासु परिलोला स्थलेष्व् इव
अयम् इन्द्रो ऽयम् इन्द्रश् चेत्य् एवं जातप्रलापया । लज्जापि हि तया त्यक्ता वैवश्यम् उपयातया
इत्य् आर्ताया घनस्नेहम् अथ तस्या वयस्यया । उक्तम् आलि तवाविघ्नम् इन्द्रम् अप्य् आनयाम्य् अहम्
इन्द्रं तवानयामीति श्रुत्वा विकसितेक्षणा । पपात पादयोस् सख्या नलिन्या नलिनी यथा
ततः प्रयाते दिवसे समायाते निशागमे । सा वयस्या तम् इन्द्राख्यं ययौ विप्रकुमारकम्
बोधयित्वा यथायुक्तं सा तम् इन्द्रकुमारकम् । अहल्यानिकटं रात्राव् आनयाम् आस सत्वरम्
सा ततस् तेन शिड्गेन महेन्द्रेण रतिं ययौ । कस्मिंश्चित् सदने गुप्ते बहुमाल्यविलेपना
हाराङ्गदमनोज्ञेन तेन सा तरुणी तदा । रतेनावर्जिता वल्ली रसेन मधुना यथा