लिपिकर्मकृताकारा ध्यानासक्ता दशैव ते । अन्तस्स्थेनैव मनसा चिन्तयाम् आसुर् आदृताः
अयम् उत्फुल्लकमलकोशचक्रोन्नतासनः । ब्रह्माहं जगतस् स्रष्टा कर्ता भोक्ता महेश्वरः
यज्ञक्रियाक्रमयुतास् साङ्गोपाङ्गमहर्द्धयः । सरस्वत्या सगायत्र्या युक्ता वेदवरा इमे
लोकपालपुराक्रान्तसञ्चरत्सिद्धमण्डलः । अयम् उद्दामसौभाग्यस् स्वर्गस् सुरविभूषितः
पर्वतद्वीपजलधिकाननैस् समलङ्कृतम् । इदं भूमण्डलं नीलं त्रिलोकीकर्णकुण्डलम्
एतत् पातालकुहरं दैत्यदानवभोगिनाम् । अमृतस्त्रीगणाकीर्णं गृहं गहनकोटरम्
अयम् इन्द्रो महाबाहुर् वज्रालङ्कृतदोर्द्रुमः । त्रैलोक्यनगरीम् एकः पाति पावनयज्ञभुक्
दीप्तिजालवरत्राभिर् अवष्टभ्येव दिग्गणम् । क्रमेण प्रतपन्त्य् एते भानवो भूरिभानवः
लोकपाला इमे लोकं रक्षन्त्य् अक्षुब्धवृत्तयः । मर्यादाभिर् अतुच्छाभिर् गोपाला गोगणं यथा
उन्मज्जन्ति निमज्जन्ति प्रस्फुरन्ति पतन्ति च । तरङ्गा इव तोयानाम् इमाः प्रतिदिशं प्रजाः
सृजामीमम् अहं सर्गं संहरामि तथादृतः । अयम् आत्मनि तिष्ठामि शाम्यामि भुवनेश्वरः
अयं संवत्सरो यात इदं परिणतं युगम् । सृष्टिर् इयम् असौ कालस् त्व् अयं संहरणस्य च
अयम् अद्य गतः कल्पो ब्राह्मी रात्रिर् इयं ततः । अयम् आत्मनि तिष्ठामि पूर्णात्मा परमेश्वरः
इति भावितया बुद्ध्या ते द्विजा ऐन्दवा दश । अबहिर्वृत्तयस् तस्थुस् समुत्कीर्णा इवोपलात्
अधिगतकमलासनक्रमास् ते परिगलितेतरतुच्छवृत्तिजालाः । सततगजवजर्जरासनस्थाश् चिरम् इति पद्मजकल्पने विरेजुः
पितामहक्रमे तस्मिंस् ततस् ते बद्धभावनाः । कर्मभिस् तैस् समाक्रान्तमनस्कास् तस्थुर् आदृताः
यावत् ते देहकास् तेषां तापेन पवनैस् तथा । ययुश् शोषं यथा ग्रीष्मे छिन्नाः कमलपल्लवाः
जक्षुस् तान् देहकांस् तत्र क्रव्यादा वनवासिनः । इतश् चेतश् च लुठितास् सत्फलानीव मर्कटाः
अथ ते शान्तबाह्यार्था ब्रह्मत्वे कृतभावनाः । तस्थुश् चतुर्युगस्यान्ते यावत् कल्पः क्षयं गतः
क्षीयमाणे ततः कल्पे तपत्य् आदित्यसञ्चये । पुष्करावर्तकेषूच्चैर् वर्षत्सु कठिनारवम्
वहत्सु कल्पवातेषु स्थित एव महार्णवे । क्षीणेषु भूतवृन्देषु ते तथैव व्यवस्थिताः
अद्य प्रबुद्धे भवति द्रष्टुम् इच्छति संसृतिम् । स्वकेनैव क्रमेणोच्चैस् ते तथैव व्यवस्थिताः
त एते भगवन् ब्रह्मन् ब्रह्मणो ब्राह्मणा दश । त एते दश संसारा मनोव्योमनि संस्थिताः
तेषाम् एकतमस्यायम् अहम् आकाशमन्दिरः । भानुर् भुवि विभो कालकलाकर्मणि योजितः
एष ते कथितस् सर्गो दशानाम् अब्जसम्भव । ब्रह्मणां सम्भवो व्योम्नि यथेच्छसि तथा कुरु
विविधकल्पनम् आवलिताम्बरं यद् इदम् उत्तमजागतम् उत्थितम् । किरणजालकमोहितमोहनं तद् अखिलं निजचेतसि विभ्रमः
ब्राह्मण ब्रह्मणो भानुर् इत्य् उक्त्वा ब्रह्मणो मम । ब्रह्मन् ब्रह्मविदां श्रेष्ठ तूष्णीम् एव बभूव सः
तत उक्तं मया तस्य चिरम् सञ्चिन्त्य चेतसा । भानोर् भानो वदाशु त्वं किम् अन्यत् संसृजाम्य् अहम्
एतानि दश विद्यन्ते किल यत्र जगन्ति हि । तत्रान्यो मम सर्गेण को ऽर्थः कथय भास्कर
निरीहस्य निरिच्छस्य को ऽर्थस् सर्गेण ते प्रभो । विनोदमात्रम् एवेयं सृष्टिस् तव जगत्पते