कियद् एतद् अनैश्वर्यं सामन्ता हि चिरेश्वराः । सामन्तसम्पत् किं नाम राजानो हि महेश्वराः
किं नाम सम्पद् भूपानां सम्राड् इह महेश्वरः । किं नाम सम्पत् साम्राज्यम् इन्द्रो हीह महेश्वरः
किं नाम वस्त्व् अथेन्द्रत्वं यन् मुहूर्तं प्रजापतेः । विनश्यति न यत् कल्पे किं स्यात् तद् इह शोभनम्
वदमानेष्व् अथैतेषु ज्येष्ठो भ्राता महामतिः । गम्भीरवाग् उवाचेदं मृगयूथान् मृगो यथा
ऐश्वर्याणां हि सर्वेषाम् अकल्पान्तविनाशि यत् । रोचते भ्रातरस् तन् मे ब्रह्मत्वम् इह नेतरत्
एतत् तदुक्तम् अखिला द्विजपुत्रास् तदोत्तमाः । वचोभिर् ऐन्दवास् तत्र साधु साध्व् इत्य् अपूजयन्
ऊचुश् चेदं कथं तात सर्वदुःखापमर्जनम् । पद्मासनं जगत्पूज्यं विरिञ्चत्वम् अवाप्नुमः
भ्रात्रा तेन पुनः प्रोक्ता भ्रातरो भूरितेजसः । मदुक्तं सर्व एवैते भवन्तः पालयन्त्व् अलम्
पद्मासनगतो भास्वान् ब्रह्माहम् इति चेतसा । सृजामि संहरामीति ध्यानम् अस्तु चिराय वः
अग्रजेनेति कथिते बाढं कृत्वा त उत्तमाः । ध्यानाधीनधियस् तस्थुस् सहैव ज्यायसा रसात्
लिपिकर्मकृताकारा ध्यानासक्ता दशैव ते । अन्तस्स्थेनैव मनसा चिन्तयाम् आसुर् आदृताः
अयम् उत्फुल्लकमलकोशचक्रोन्नतासनः । ब्रह्माहं जगतस् स्रष्टा कर्ता भोक्ता महेश्वरः
यज्ञक्रियाक्रमयुतास् साङ्गोपाङ्गमहर्द्धयः । सरस्वत्या सगायत्र्या युक्ता वेदवरा इमे
लोकपालपुराक्रान्तसञ्चरत्सिद्धमण्डलः । अयम् उद्दामसौभाग्यस् स्वर्गस् सुरविभूषितः
पर्वतद्वीपजलधिकाननैस् समलङ्कृतम् । इदं भूमण्डलं नीलं त्रिलोकीकर्णकुण्डलम्
एतत् पातालकुहरं दैत्यदानवभोगिनाम् । अमृतस्त्रीगणाकीर्णं गृहं गहनकोटरम्
अयम् इन्द्रो महाबाहुर् वज्रालङ्कृतदोर्द्रुमः । त्रैलोक्यनगरीम् एकः पाति पावनयज्ञभुक्
दीप्तिजालवरत्राभिर् अवष्टभ्येव दिग्गणम् । क्रमेण प्रतपन्त्य् एते भानवो भूरिभानवः
लोकपाला इमे लोकं रक्षन्त्य् अक्षुब्धवृत्तयः । मर्यादाभिर् अतुच्छाभिर् गोपाला गोगणं यथा
उन्मज्जन्ति निमज्जन्ति प्रस्फुरन्ति पतन्ति च । तरङ्गा इव तोयानाम् इमाः प्रतिदिशं प्रजाः
सृजामीमम् अहं सर्गं संहरामि तथादृतः । अयम् आत्मनि तिष्ठामि शाम्यामि भुवनेश्वरः
अयं संवत्सरो यात इदं परिणतं युगम् । सृष्टिर् इयम् असौ कालस् त्व् अयं संहरणस्य च
अयम् अद्य गतः कल्पो ब्राह्मी रात्रिर् इयं ततः । अयम् आत्मनि तिष्ठामि पूर्णात्मा परमेश्वरः
इति भावितया बुद्ध्या ते द्विजा ऐन्दवा दश । अबहिर्वृत्तयस् तस्थुस् समुत्कीर्णा इवोपलात्
अधिगतकमलासनक्रमास् ते परिगलितेतरतुच्छवृत्तिजालाः । सततगजवजर्जरासनस्थाश् चिरम् इति पद्मजकल्पने विरेजुः
पितामहक्रमे तस्मिंस् ततस् ते बद्धभावनाः । कर्मभिस् तैस् समाक्रान्तमनस्कास् तस्थुर् आदृताः
यावत् ते देहकास् तेषां तापेन पवनैस् तथा । ययुश् शोषं यथा ग्रीष्मे छिन्नाः कमलपल्लवाः
जक्षुस् तान् देहकांस् तत्र क्रव्यादा वनवासिनः । इतश् चेतश् च लुठितास् सत्फलानीव मर्कटाः
अथ ते शान्तबाह्यार्था ब्रह्मत्वे कृतभावनाः । तस्थुश् चतुर्युगस्यान्ते यावत् कल्पः क्षयं गतः
क्षीयमाणे ततः कल्पे तपत्य् आदित्यसञ्चये । पुष्करावर्तकेषूच्चैर् वर्षत्सु कठिनारवम्