इत्य् उक्तो माम् असाव् अर्कस् सम्परिज्ञातवान् अथ । नमस्कृत्याभ्युवाचेदम् अनिन्द्यपदया गिरा
अस्य दृश्यपिशाचस्य नित्यं कारणताम् अपि । गतः कस्मान् न जानीषे किं माम् ईश्वर पृच्छसि
अथ मद्वाक्यसन्दर्भे लीला चेत् तव सर्वग । अचिन्तितात् समुत्पन्नं तच् छृणु त्वं वदाम्य् अहम्
सद् असद् इति कलाभिर् आततं सद् भ्रमभरभेदविमोहदायिनीभिः । प्रविततरचनाभिर् ईश्वरात्म प्रविलसतीह मनो महन् महात्मन्
कल्पनाम्नि महादेव ह्यस्तने दिवसे तव । तले कैलासशैलस्य जम्बुद्वीपैककोणके
सुवर्णजटनाम्ना यत् त्वत्पुत्रैर् जनितप्रजैः । मण्डलं कल्पितं श्रीमद् अनल्पसुखसुन्दरम्
तत्राभूद् अतिधर्मात्मा ब्राह्मणो ब्रह्मवित्तमः । इन्दुर् नामातिशान्तात्मा कश्यपस्य कुलोद्भवः
तस्मिंस् तदा निवसतो नित्यं स्वजनमण्डले । न बभूवात्मजस् तस्य मरुभूमेस् तृणं यथा
न व्यराजत सा भार्या तस्य निष्फलपुष्पिता । ऋज्वी गौरी सुशुद्धापि शून्या शरलता यथा
तौ ततो दम्पती खिन्नौ पुत्रार्थं तपसे गिरेः । कैलासस्यांसम् आरूढौ रूढाव् इव वनद्रुमौ
भूतैर् अनावृते शून्ये तस्मिन् कैलासकुञ्जके । तेपाते तौ तपो घोरं जलाहारौ तरुस्थितौ
एकं पानीयचुलकं पीत्वा दिवसपर्यये । निस्पन्दम् उत्थितौ वार्क्षीं वृत्तिम् आश्रित्य संस्थितौ
तस्थतुस् तौ तदा तत्र तावद् वनतरुव्रतौ । यावत् त्रेता द्वापरश् च युगे द्वे एव ते गते
ततस् तुष्टो ऽभवद् देवस् तयोश् शशिकलाधरः । दिनतापोत्तापितयोर् इन्दुः कुमुदयोर् इव
आजगाम तम् उद्देशं यत्र तौ विप्रदम्पती । सलतापादपं देशं पुष्पाकर इवेश्वरः
दम्पती तौ वृषारूढं सोमं सोमार्धशेखरम् । फुल्लाननं ददृशतुः कुमुदे शशिनं यथा
तौ तं प्रणेमतुर् देवं तुषारामलम् ईश्वरम् । द्यावापृथिव्याव् उदितं परिपूर्णम् इवोडुपम्
तर्जयन् पवनाधूतनववेणुवनस्वनम् । मृदूद्दामं स्मितस्यन्दि प्रोवाचाथ वचश् शिवः
वरं विप्र गृहाणाशु तुष्टो ऽस्मि तव वाञ्छितम् । मधुमासरसाक्रान्तवृक्षवन् मुदितो भव
भगवन् देवदेवेश दश पुत्रा महाधियः । भव्या भवन्तु मे भूयश् शोको येन न बाधते
अथैवम् अस्त्व् इति प्रोच्य जगामान्तर्धिम् ईश्वरः । व्योम्नि वारिनिधौ ह्रादं कृत्वेवोर्मिर् महावपुः
ततस् तौ दम्पती तुष्टौ शिवात् प्राप्य वरं गृहम् । गतौ गीर्वाणसदृशौ खम् इवोमामहेश्वरौ
तत्र सा ब्राह्मणी गेहे बभूवोदारगर्भिणी । बभौ पूर्णोदरी श्यामा मेघलेखेव वारिणा
कालेन सुषुवे पुत्रान् प्रतिपच्चन्द्रकोमलान् । दश बालान् मधौ मुग्धा वसुधेव नवाङ्कुरान्
ते कृतब्रह्मसंस्कारा वृद्धिम् ईयुर् महौजसः । स्वल्पेनैव हि कालेन प्रावृषीव नवाम्बुदाः
ते सप्तवर्षवयसो बभूवुर् ज्ञातवाङ्मयाः । विरेजुस् तेजसा तत्र नभसीवामला ग्रहाः
अथ कलेन महता तेषां तौ पितरौ तदा । सञ्जग्मतुस् तनुं त्यक्त्वा स्वां गतिं गतिकोविदौ
मातापितृभ्यां रहिता दश ते ब्राह्मणास् ततः । ययुः कैलासशिखरं गृहं सन्त्यज्य दूरतः
तत्र सञ्चिन्तयाम् आसुर् उद्विग्नास् ते विबान्धवाः । किं स्यात् परम् इह श्रेय ऊचुश् चेदं परस्परम्
किम् इह स्यात् समुचितं भ्रातरः किम् अदुःखदम् । किं महत्त्वं महैश्वर्यं किं महाविभवं शुभम्