तिर्यग्जातिसमारम्भस् सर्वैर् एवावधीरितः । लोलो बालजनाचारो मरणाद् अपि दुःखदः
प्रतिबिम्बं घनाज्ञानां नानासङ्कल्पपेलवम् । बाल्यम् आलूनसंशीर्णमनः कस्य सुखावहम्
जडश्यामलयाजस्रं जातभीत्या पदे पदे । यद् भयं शैशवे बुद्ध्या कस्याम् आपदि तद् भवेत्
लीलासु दुर्विलासेषु दुरीहासु दुराशये । परमं मोहम् आदत्ते बालो बलवदापदम्
विकल्पकलिलारम्भं दुर्विलासं दुरास्पदम् । शैशवं शासनायैव पुरुषस्य न शान्तये
ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः । ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः
बाल्यं रम्यम् इति व्यर्थबुद्धयः कथयन्ति ये । तान् मूर्खपुरुषान् ब्रह्मन् धिग् अस्तु हतचेतसः
यत्र लोलाकृति मनः परिस्फुरति वृत्तिषु । त्रैलोक्यराज्यम् अपि तत् कथं भवति तुष्टये
सर्वेषाम् एव सत्त्वानां सर्वावस्थासु चैव हि । मनश् चञ्चलताम् एति बाल्ये दशगुणं मुने
मनः प्रकृत्यैव चलं बाल्यं च चलतावरम् । तयोस् संश्लिष्टयोस् तात केनैवान्तः कुचापले
स्त्रीलोचनैस् तडित्पुञ्जैर् ज्वालामालैस् तरङ्गकैः । चापलं शिक्षितं ब्रह्मञ् शैशवान् मनसो ऽथ वा
शैशवं च मनश् चैव सर्वास्व् एव हि वृत्तिषु । भ्रातराव् इव लक्ष्येते सततं भङ्गुरस्थिती
सर्वाणि दुष्टभूतानि सर्वे दोषा दुराशयाः । बाल्यम् एवोपजीवन्ति श्रीमन्तम् इव मानवाः
नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि । प्राप्नोति तद् असौ याति विषवेगस्य मूर्छनाम्
स्तोकेन वशम् आयाति स्तोकेनैति विकारिताम् । अमेध्य एव रमते बालः कौलेयको यथा
अजस्रं बाष्पवदनः कर्दमान्तर् जडाशयः । वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशश् शिशुः
भयाहारपरं दीनं यथादृष्टाभिलाषि च । लोलबुद्धिर् वपुर् धत्ते बालो दुःखाय केवलम्
स्वसङ्कल्पाभिलषितान् भावान् अप्राप्य तप्तधीः । दुःखम् एत्य् अबलो बालो विनिकृत्त इवाशये
दुरीहालब्धलक्ष्याणि बहुपक्षोल्वणानि च । बालस्य यानि दुःखानि मुने तानि न कस्यचित्
बालो बलवताश्व् एव मनोरथविलासिना । मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थलम्
विद्यागृहगतो बालः पराम् एति कदर्थनाम् । आलान इव नागेन्द्रो विषवैषम्यभीषणाम्
नानामनोरथमयी मिथ्याकल्पितकल्पना । दुःखायात्यन्तदीर्घाय बालता पेलवाशया
सम्भृष्टं तुहिनं भोक्तुम् इन्दुम् आदातुम् अम्बरात् । वाञ्छ्यते येन मौर्ख्येण तत् सुखाय कथं भवेत्
अन्तश्चितेर् अशक्तस्य शीतातपनिवारणे । को विशेषो महाबुद्धे बालस्योर्वीरुहस्य च
उड्डीनम् अभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः । भयाहारपरा नित्यं बाला विहगधर्मिणः
शैशवे गुरुतो भीतिर् मातृतः पितृतस् तथा । जनतो ज्येष्ठबालाच् च शैशवं भयमन्दिरम्
सकलदोषदशाविहताशयं शरणम् अप्य् अविवेकविलासिनः । इह न कस्यचिद् एव महामुने भवति बाल्यम् अलं परितुष्टिदम्
बाल्यानर्थम् अथ त्यक्त्वा पुमान् अभिहताशयः । आरोहति निपाताय यौवनश्वभ्रसम्भ्रमम्
तत्रानन्तविलासस्य लोलस्य स्वस्य चेतसः । वृत्तीर् अनुसरन् याति दुःखाद् दुःखतरं जडः
स्वचित्तबिलसंस्थेन नानासम्भ्रमकारिणा । बलात् कामपिशाचेन विवशः परिभूयते