प्रौढिं शुभाशुभाचारस्थितयः ककुभां प्रति । नरकस्वर्गफलदास् सर्वत्र समुपागताः
भोगमोक्षफलार्थिन्यस् समस्ता भूतजातयः । समीहितं यथाकालं प्रयतन्ते यथाक्रमम्
सप्तलोकास् तथा द्वीपास् समुद्रा गिरयस् तथा । अवेक्षमाणाः कल्पान्तं स्फुरन्त्य् उरुतरारवम्
क्वचिद् रात्रित्वम् आयातं क्वचित् स्थिरतया स्थितम् । स्थितं पर्वतकुञ्जेषु तमस् तेजोलवद्रुतम्
नभोनीलोत्पलस्यान्तर् भ्रमदभ्रमधुव्रतम् । प्रस्फुरत्तारकाजालं केसरापूरतां गतम्
कल्पान्तघननीहारो मेरुकुञ्जेषु संस्थितः । शल्मलेर् अमलं तूलम् अष्ठीलाकोटरेष्व् इव
लोकालोकाद्रिरशनां रणदर्णवघुर्घुराम् । तमःखण्डेन्द्रनीलाढ्यां निजरत्नविराजिताम्
दधाना वसुधा भूतरवकाकलिघुङ्घुमाम् । संस्थिता भुवनाभोगे स्वान्तःपुर इवाङ्गना
गौराहःपङ्क्तिमध्यस्थरजनीराजिराजिताः । पद्मोत्पलस्रज इव लक्ष्यन्ते वत्सरश्रियः
बहुगर्भविभागस्थभूतलोकाः पृथक् पृथक् । तेजोऽरुणा विलोक्यन्ते दाडिमानीव षण्डके
त्रिप्रवाहा त्रिपथगा कृत्वोर्ध्वाधोगमागमा । जगद्यज्ञोपवीताभा स्फुरन्तीन्दुकलामला
इतश् चेतश् च गच्छन्ति शीर्यन्ते प्रोद्भवन्ति च । दिग्लतासु तडित्पुष्पा वातान्ते मेघपल्लवाः
गन्धर्वनगरोद्यानविमानावलिमालिता । समुद्रभूमिनभसां पदवी प्रविराजते
लोकान्तरेषु सङ्घेन देवासुरनरोरगाः । उदुम्बरेषु मषका इव घुङ्घुमितास् स्थिताः
युगकल्पक्षणलवकलाकाष्टाकलङ्कितः । कालो वहत्य् अकलितस् सर्वनाशप्रतीक्षकः
एवम् आलोक्य शुद्धेन परेण स्वेन तेजसा । भृशं विस्मयम् आपन्नः किम् एतत् कथम् इत्य् अहम्
कथं मांसमयेनाक्ष्णा यन् न पश्यामि किञ्चन । तन् मायाजालम् अतुलं पश्यामि मनसाम्बरे
अथालोक्य चिरं कालं मनसैवाहम् अम्बरात् । अर्कं तस्माज् जगज्जालाद् एकम् आनीय पृष्टवान्
आगच्छ देवदेवेश भो भास्कर महाद्युते । स्वागतं ते ऽस्त्व् इति प्रोक्तं मयासौ कथितो ऽप्य् अथ
कस् त्वं कथम् इदं जातं जगद् एकं जगन्ति वा । यदि जानासि भगवंस् तद् एतत् कथयानघ
इत्य् उक्तो माम् असाव् अर्कस् सम्परिज्ञातवान् अथ । नमस्कृत्याभ्युवाचेदम् अनिन्द्यपदया गिरा
अस्य दृश्यपिशाचस्य नित्यं कारणताम् अपि । गतः कस्मान् न जानीषे किं माम् ईश्वर पृच्छसि
अथ मद्वाक्यसन्दर्भे लीला चेत् तव सर्वग । अचिन्तितात् समुत्पन्नं तच् छृणु त्वं वदाम्य् अहम्
सद् असद् इति कलाभिर् आततं सद् भ्रमभरभेदविमोहदायिनीभिः । प्रविततरचनाभिर् ईश्वरात्म प्रविलसतीह मनो महन् महात्मन्
कल्पनाम्नि महादेव ह्यस्तने दिवसे तव । तले कैलासशैलस्य जम्बुद्वीपैककोणके
सुवर्णजटनाम्ना यत् त्वत्पुत्रैर् जनितप्रजैः । मण्डलं कल्पितं श्रीमद् अनल्पसुखसुन्दरम्
तत्राभूद् अतिधर्मात्मा ब्राह्मणो ब्रह्मवित्तमः । इन्दुर् नामातिशान्तात्मा कश्यपस्य कुलोद्भवः
तस्मिंस् तदा निवसतो नित्यं स्वजनमण्डले । न बभूवात्मजस् तस्य मरुभूमेस् तृणं यथा
न व्यराजत सा भार्या तस्य निष्फलपुष्पिता । ऋज्वी गौरी सुशुद्धापि शून्या शरलता यथा
तौ ततो दम्पती खिन्नौ पुत्रार्थं तपसे गिरेः । कैलासस्यांसम् आरूढौ रूढाव् इव वनद्रुमौ