मद्वाक्यार्थावधानस्थो मनोव्याधिचिकित्सने । विवेकौषधिलेपेन प्रयत्नं च करिष्यसि
एवं स्थिते जगद्रूपं चित्तम् एवेह जृम्भते । न विद्यते शरीरादि सिकतान्तरतैलवत्
चित्तम् एव हि संसारो रागादिक्लेशदूषितम् । तद् एव तैर् विनिर्मुक्तं भवान्त इति कथ्यते
चित्तं साध्यं पालनीयं विचार्यं कार्यम् आर्यवत् । आहार्यं व्यवहार्यं च सञ्चार्यं धार्यम् आदरात्
एवम् अभ्यन्तरे चित्रं बिभर्ति त्रिजगन् मनः । अण्डं मायूरम् इव तद् यथाकालं विजृम्भते
यो ऽयं चित्तस्य चिद्भागस् सैषा सर्वार्थबीजता । यश् चास्य जडभागस् स्वस् तज् जगत् सो ऽङ्ग विभ्रमः
अविद्यमानम् एवेदम् आदिसर्गे धरादिकम् । निराकृतिर् अजस् स्वप्नं पश्यतीव न पश्यति
सर्गादि दीर्घसंवित्त्या शैलादि जडसंविदा । सूक्ष्मं सूक्ष्मविदा वेत्ति देहं शून्यं न वास्तवम्
सर्वगेनात्मना व्याप्तं स्वचेत्यात्मवपुर् मनः । आतलं सोम्यविमलं वारीव रवितेजसा
चित्तबालो जगद्यक्षं मिथ्या पश्यत्य् अबोधतः । बोधतो ऽसौ परं रूपं स्वं पश्यति निरामयम्
यथात्मा दृश्यताम् एति द्वैतैक्यभ्रमदायिनीम् । शृणु तत् ते प्रवक्ष्यामि वक्ष्यमाणकथाक्रमैः
यत् कथ्यते हि हृदयङ्गमयोपमानयुक्त्या गिरा मधुरमुग्धपदार्थया च । श्रोतुस् तद् अङ्ग हृदयं परितो विसारि व्याप्नोति तैलम् इव वारिणि वार्य् अशङ्कम्
त्यक्तोपमानम् अमनोज्ञपदं दुरर्थं क्षुब्धं त्वराविधुरितं विनिगीर्णवर्णम् । श्रोतुर् न याति हृदयं प्रविनाशम् एव संयाति चाज्यम् इव भस्मनि हूयमानम्
आख्यानकानि भुवि यानि कथाश् च या या यद् यत् प्रमेयम् उदितं परिपेशलं वा । दृष्टान्तदृष्टिकथनेन तद् एति साधो प्राकाश्यम् आशु भुवनं सितरश्मिनेव
पुरा मे ब्रह्मणा प्रोक्तं सर्गसङ्कथयानघ । यद् इदं तत् प्रवक्ष्यामि त्वयि पृच्छति राघव
पुरा मया हि भगवान् पृष्टः कमलसम्भवः । इमे कथम् उपायान्ति ब्रह्मन् सर्गगणा इति
एवं हि मन एवेदम् इत्थं स्फुरति भूतवत् । चलैर् जलाशयस् स्फारैर् विचित्रैश् चक्रकैर् इव
दिनादौ सम्प्रबुद्धस्य संसारं स्रष्टुम् इच्छतः । पुराकल्पे हि कस्मिंश्चिच् छृणु किं वृत्तम् अङ्ग मे
कदाचिद् अखिलं सर्गं संहृत्य दिवसक्षये । एक एवाहम् एकाग्रस् स्वस्थस् स्वाम् अनयं निशाम्
निशान्ते सम्प्रबुद्धस् सन् सान्ध्यां कृत्वा तथा विधिम् । प्रजा द्रष्टुं दृशस् स्फारे व्योम्नि योजितवान् अहम्
यावत् पश्यामि गगनं न तमोभिर् न तेजसा । व्याप्तम् अत्यन्तविततं शून्यम् अन्तविवर्जितम्
सर्गं सङ्कल्पयामीमम् इति निश्चित्य तन् मया । खम् एवेक्षितुम् आरब्धं शुद्धसूक्ष्मेण चेतसा
अथाहं दृष्टवांस् तत्र मनसा वितते ऽम्बरे । पृथक्स्थितान् महारम्भान् सर्गान् स्थितिनिरर्गलान्
परस्परेण चादृष्टान् ब्रह्मविष्ण्विन्द्रसंयुतान् । ससुरासुरगन्धर्वकिन्नरोरगमानवान्
मेरुमन्दरकैलासमहेन्द्रमलयाचलान् । साद्रिद्यूर्वीनदीशांश् च सङ्ख्यया दशभासुरान्
तेषु तत्प्रतिबिम्बाभाः पद्मकोशाधिवासिनः । राजहंसरथारूढास् संस्थिता दशपद्मजाः
पृथक्स्थितेषु दशसु तेषूद्यद्भूतपङ्क्तिषु । ज्वलज्ज्वालेषु दीर्घेषु जगत्सूज्ज्वलदीप्तिषु
प्रवहन्ति महानद्यः प्रध्वनन्ति तथाब्धयः । प्रतपन्त्य् उष्णरुचयः प्रस्फुरन्त्य् अम्बरे ऽनिलाः
दिवि क्रीडन्ति विबुधा भुवि क्रीडन्ति मानवाः । दानवा भोगिनश् चैव पातालेषु सुखं स्थिताः
कालचक्रपरिप्रोताष् षट् छुभास् सकलर्तवः । यथाकालं फलपूर्णां भूषयन्त्य् अभितो महीम्