भ्रान्तिर् एषा यथायाता तथा यातु रघूद्वह । ज्ञास्यस्य् एतत् प्रबुद्धस् त्वम् एनां केवलम् उत्सृज
भ्रान्तिग्रन्थौ वित्रुटिते मदुक्तिश्रवणात् तव । ज्ञानशब्दार्थभेदानां वस्तु ज्ञास्यस्य् अलं स्वयम्
चित्ताद् इयम् अनर्थश्रीस् तच् च सा चेतरश् च ते । मदुक्तिश्रवणाद् एव शान्तिम् एष्यन्त्य् असंशयम्
ब्रह्मणस् सर्वम् उत्पन्नं सर्वं ब्रह्मैव चेति च । मद्गीर्भिस् सम्प्रबुद्धस् सञ् ज्ञास्यस्य् अलम् अनिन्दित
तस्माद् इदम् इति ब्रह्मन् व्यतिरेकार्थपञ्चमी । ननु किं वक्षि देवेशाद् अभिन्नं सर्वम् इत्य् अपि
उपदेशाय शास्त्रेषु जातश् शब्दो ऽथवार्थजः । प्रतियोगिव्यवच्छेदस् सङ्ख्यालक्षणपक्षवान्
भेदो दृश्यत एवायं व्यवहारान् न वास्तवः । वेतालो बालकस्येव कार्यार्थं परिकल्पितः
द्वैतैक्यम् अपि नो यस्यां यथाभूतार्थसंस्थितौ । अस्ति तस्याम् ईदृशस् स्यात् कुतस् सङ्कल्पविप्लवः
कार्यकारणभावो हि यथा स्वस्वामिलक्षणः । हेतुश् च हेतुमांश् चैव तथैवावयवक्रमः
व्यतिरेकाव्यतिरेकपरिणामादिविभ्रमः । तथा भावविकाराश् च विद्याविद्ये सुखासुखे
एवमादिमयी मिथ्यासङ्कल्पकलनोम्भिता । अज्ञानाम् अवबोधार्थं न तु भेदो ऽस्ति वस्तुनि
असम्बोधाद् अयं भेदो ज्ञाते द्वैतं न विद्यते । ज्ञाते संशान्तकलनं मौनम् एवावशिष्यते
परम् एकम् अनाद्यन्तम् अविभागम् अखण्डितम् । इति ज्ञास्यसि सिद्धान्तकाले बोधम् उपागतः
विकल्पन्ते ह्य् असम्बुद्धास् स्वविकल्पविजृम्भितैः । उपदेशाद् अयं वादो ज्ञाते द्वैतं न विद्यते
वाच्यवाचकसम्बन्धो विना द्वैतं न सिध्यति । न च द्वैतं सम्भवति मौनं वा वाच इत्य् अलम्
महावाक्यार्थनिष्ठां त्वं बुद्धिं कृत्वा रघूद्वह । वचोभेदम् अनादृत्य यद् इदं वच्मि तच् छृणु
जातं कुतश्चिद् उत्थाय गन्धर्वपुरवन् मनः । भ्रान्तिमात्रं तनोतीदं जगदाख्यं स्वजृम्भणम्
यथा चेतस् तनोतीमां जगन्मायां तथानघ । शृणु त्वं कथयामीदं दृष्टान्तं सृष्टिवेदने
यं श्रुत्वा सर्वम् एवेदं भ्रान्तिमात्रम् इति स्वयम् । राम निश्चयवान् भूत्वा दूरे त्यक्ष्यसि वासनाम्
मनोमनननिर्माणमात्रम् एव जगत्त्रयम् । सर्वम् उत्सृज्य शान्तात्मा स्वात्मन्य् एव निवत्स्यसि
मद्वाक्यार्थावधानस्थो मनोव्याधिचिकित्सने । विवेकौषधिलेपेन प्रयत्नं च करिष्यसि
एवं स्थिते जगद्रूपं चित्तम् एवेह जृम्भते । न विद्यते शरीरादि सिकतान्तरतैलवत्
चित्तम् एव हि संसारो रागादिक्लेशदूषितम् । तद् एव तैर् विनिर्मुक्तं भवान्त इति कथ्यते
चित्तं साध्यं पालनीयं विचार्यं कार्यम् आर्यवत् । आहार्यं व्यवहार्यं च सञ्चार्यं धार्यम् आदरात्
एवम् अभ्यन्तरे चित्रं बिभर्ति त्रिजगन् मनः । अण्डं मायूरम् इव तद् यथाकालं विजृम्भते
यो ऽयं चित्तस्य चिद्भागस् सैषा सर्वार्थबीजता । यश् चास्य जडभागस् स्वस् तज् जगत् सो ऽङ्ग विभ्रमः
अविद्यमानम् एवेदम् आदिसर्गे धरादिकम् । निराकृतिर् अजस् स्वप्नं पश्यतीव न पश्यति
सर्गादि दीर्घसंवित्त्या शैलादि जडसंविदा । सूक्ष्मं सूक्ष्मविदा वेत्ति देहं शून्यं न वास्तवम्
सर्वगेनात्मना व्याप्तं स्वचेत्यात्मवपुर् मनः । आतलं सोम्यविमलं वारीव रवितेजसा
चित्तबालो जगद्यक्षं मिथ्या पश्यत्य् अबोधतः । बोधतो ऽसौ परं रूपं स्वं पश्यति निरामयम्