तस्यां ध्याननिषण्णायां किरातजनमण्डले । अनायान्त्यां चिरं कालं जनदोषप्रशान्तये
सा देवी कन्दरानाम्नी मङ्गलेतरनामिका । सम्प्रस्थापिता प्रोच्चैः पुरे गहनकोटरे
ततः प्रभृति तत्रान्यो यो यो भवति भूमिपः । स कन्दरां भगवतीं प्रतिष्ठापयति स्वयम्
यः कन्दरां प्रतिष्ठां वा न करोति नृपो ऽधमः । तस्योपतापनिचयाः प्रजा निघ्नन्ति यत्नतः
तत्पूजनाद् अवाप्नोति जनस् तत्रेप्सितं फलम् । स्वभावनावशोच्छूनम् अनर्थायाप्रपूजनम्
वध्यलोकोपचारेण सा देवी परिपूज्यते । प्रतिमायां स्थिताद्यापि चित्तस्थफलदायिनी
सकललोकसमङ्गलकारिणी कवलिताखिलवध्यमहाजना । जयति सात्र किरातजनास्पदा परमबोधवती चिरदेवता
एतत् ते कथितं सर्वम् उपाख्यानम् अनिन्दितम् । कर्कट्या वनराक्षस्या यथावद् अनुपूर्वशः
हिमवद्गह्वरप्रोक्ता सा कथं कृष्णराक्षसी । कथं च कर्कटी नाम्ना यथावद् वद मे प्रभो
कुलानि सन्त्य् अनेकानि राक्षसानां स्वभावतः । तानि कृष्णानि शुक्लानि हरितान्य् उज्ज्वलानि च
कर्कटप्राणिसदृशः कर्कटो नाम राक्षसः । बभूव तज्जा सा कृष्णा कर्कटी कर्कटाकृतिः
कर्कटीप्रश्नसंस्मृत्या मयैषा कथिता तव । अध्यात्मोक्तिप्रसङ्गेन चित्स्वरूपनिरूपणे
सम्पन्नम् एवम् एकस्माद् असम्पन्नम् अपि स्फुटम् । इदं जगद् अनाद्यन्तात् पदात् परमकारणात्
भाविन्यो वीचयो वारिण्य् अन्यानन्यास् स्थिता यथा । वर्तमाना अपि परे सृष्टयस् संस्थितास् तथा
अज्वलन्न् एव काष्ठेषु वह्निर् अर्थक्रियां यथा । करोति मर्कटादीनां शीतापहरणादिकाम्
समं सौम्यत्वम् अजहद् एव नित्योदितस्थिति । तथा ब्रह्म करोतीदं नानाकर्तेव सज् जगत्
अप्य् अनागत एवायम् एवं सर्ग उपागतः । भोस् सालभञ्जिकासंविद् दारुणीव सुबोधिता
बीजाद् यथानन्यद् अपि फलाद्य् अन्यद् इवोत्थितम् । चितेस् तथानन्यद् अपि चेत्यम् अन्यद् इवोत्थितम्
अच्छेदाद् एकसत्ताया न भेदः फलबीजयोः । चिच्चेत्ययोश् च वार्यूर्म्योर् इव वस्तुनि कश्चन
अविचाराद् ऋते भेदो नैतयोर् उपपद्यते । यतः कुतश्चिद् उदितस् स विचारेण नश्यति
भ्रान्तिर् एषा यथायाता तथा यातु रघूद्वह । ज्ञास्यस्य् एतत् प्रबुद्धस् त्वम् एनां केवलम् उत्सृज
भ्रान्तिग्रन्थौ वित्रुटिते मदुक्तिश्रवणात् तव । ज्ञानशब्दार्थभेदानां वस्तु ज्ञास्यस्य् अलं स्वयम्
चित्ताद् इयम् अनर्थश्रीस् तच् च सा चेतरश् च ते । मदुक्तिश्रवणाद् एव शान्तिम् एष्यन्त्य् असंशयम्
ब्रह्मणस् सर्वम् उत्पन्नं सर्वं ब्रह्मैव चेति च । मद्गीर्भिस् सम्प्रबुद्धस् सञ् ज्ञास्यस्य् अलम् अनिन्दित
तस्माद् इदम् इति ब्रह्मन् व्यतिरेकार्थपञ्चमी । ननु किं वक्षि देवेशाद् अभिन्नं सर्वम् इत्य् अपि
उपदेशाय शास्त्रेषु जातश् शब्दो ऽथवार्थजः । प्रतियोगिव्यवच्छेदस् सङ्ख्यालक्षणपक्षवान्
भेदो दृश्यत एवायं व्यवहारान् न वास्तवः । वेतालो बालकस्येव कार्यार्थं परिकल्पितः
द्वैतैक्यम् अपि नो यस्यां यथाभूतार्थसंस्थितौ । अस्ति तस्याम् ईदृशस् स्यात् कुतस् सङ्कल्पविप्लवः
कार्यकारणभावो हि यथा स्वस्वामिलक्षणः । हेतुश् च हेतुमांश् चैव तथैवावयवक्रमः
व्यतिरेकाव्यतिरेकपरिणामादिविभ्रमः । तथा भावविकाराश् च विद्याविद्ये सुखासुखे