नेष्यस्य् अन्यान् वध्यनरान् हिंसा नैषा च धर्मतः । स्वधर्मेण च हिंसैव महाकरुणया समा
त्वं समेष्यसि चावश्यं मां समाधिविरामिणी । असताम् अपि संरूढं सौहार्दं न निवर्तते
युक्तम् उक्तं त्वया राजन् करोम्य् एवम् अहं सखे । सौहार्देन प्रवृत्तस्य को वाक्यं नाभिनन्दति
इत्य् उक्त्वा राक्षसी तत्र सम्पन्ना सा विलासिनी । हारकेयूरकटकपट्टस्रग्दामधारिणी
राजन्न् आगच्छ गच्छाम इत्य् उक्त्वा नृपमन्त्रिणौ । अग्रे गन्तुं प्रवृत्तौ तौ रात्राव् अनुससार सा
अथ ते पार्थिवगृहं प्राप्य तां रजनीं मिथः । कथयैकगृहे रम्ये क्षपयाम् आसुर् आदृताः
प्रभाते ऽन्तःपुरे तस्थौ पुरन्ध्रिजनलीलया । राक्षसी मन्त्रिराजानौ स्वव्यापारौ बभूवतुः
ततो दिवसषट्केन सञ्चितानि महीभृता । नृपान्तरपुरेभ्यो ऽपि स्वमण्डलगणात् तथा
त्रीणि वध्यसहस्राणि तानि तस्यै तदाददौ । सा बभूव निशाकाले सैवोग्रा कृष्णा राक्षसी
तानि वध्यसहस्राणि जग्राह भुजमण्डले । धारानिकरजालानि मेघमालेव कोटरे
ययौ राजानम् आपृच्छ्य तद् एव हिमवच्छिरः । दरिद्रा लब्धहेमेव गृहम् उग्रशरीरिणी
तत्रा तृप्तेर् भृशं भुक्त्वा सुखं सुप्त्वा दिनद्वयम् । आसीत् प्रबुद्धा सुस्वच्छा सा समाधिवती पुनः
पञ्चभिर् वा त्रिभिर् वापि वर्षैस् सा सम्प्रबुध्यति । तत् ततो मण्डलं याति तेन राज्ञा च पूज्यते
तत्र विश्रम्भगर्भाभिः कथाभिः कञ्चिद् एव सा । स्थित्वा कालं गृहीत्वा तान् वध्यान् स्वास्पदम् एत्य् अथ
जीवन्मुक्ततयैवम् एव विपिने साद्यापि रक्षोऽङ्गना । तस्मिन्न् एव गिरौ स्थिता विगलितध्यानैकतानाशया
तस्मिन् राजनि शान्तिम् आगतवति त्यक्तैषणेनात्मना । तद्राष्ट्राधिपसौहृदैस् स्वकवलान् आस्वादयन्ती चिरम्
किरातमण्डले तस्मिन् ये ये सन्ति महीभृतः । तैस् तैस् सह परा मैत्री तस्यास् समभिजायते
सर्वांस् तत्र महोत्पातान् पिशाचादिभयान्य् अपि । रोगांश् च योगसिद्धा सा निवारयति राक्षसी
बहुवर्षगणैर् नैषा ध्यानाद् विरतिम् आगता । तत्रागत्य समश्नाति वध्याञ् जन्तून् सुसञ्चितान्
अद्यापि तत्र ये वध्यास् ते तदर्थं महीभुजा । दीयन्ते मित्रसम्माने के हि नाध्यवसायिनः
तस्यां ध्याननिषण्णायां किरातजनमण्डले । अनायान्त्यां चिरं कालं जनदोषप्रशान्तये
सा देवी कन्दरानाम्नी मङ्गलेतरनामिका । सम्प्रस्थापिता प्रोच्चैः पुरे गहनकोटरे
ततः प्रभृति तत्रान्यो यो यो भवति भूमिपः । स कन्दरां भगवतीं प्रतिष्ठापयति स्वयम्
यः कन्दरां प्रतिष्ठां वा न करोति नृपो ऽधमः । तस्योपतापनिचयाः प्रजा निघ्नन्ति यत्नतः
तत्पूजनाद् अवाप्नोति जनस् तत्रेप्सितं फलम् । स्वभावनावशोच्छूनम् अनर्थायाप्रपूजनम्
वध्यलोकोपचारेण सा देवी परिपूज्यते । प्रतिमायां स्थिताद्यापि चित्तस्थफलदायिनी
सकललोकसमङ्गलकारिणी कवलिताखिलवध्यमहाजना । जयति सात्र किरातजनास्पदा परमबोधवती चिरदेवता
एतत् ते कथितं सर्वम् उपाख्यानम् अनिन्दितम् । कर्कट्या वनराक्षस्या यथावद् अनुपूर्वशः
हिमवद्गह्वरप्रोक्ता सा कथं कृष्णराक्षसी । कथं च कर्कटी नाम्ना यथावद् वद मे प्रभो
कुलानि सन्त्य् अनेकानि राक्षसानां स्वभावतः । तानि कृष्णानि शुक्लानि हरितान्य् उज्ज्वलानि च