न किञ्चिद् अपि यस्यास्ति सत्यं तेन हतात्मना । चित्रं दग्धशरीरेण जनता विप्रलभ्यते
दिनैः कतिपयैर् एव निर्झराम्बुकणो यथा । पतत्य् अयम् अयत्नेन जर्जरः कायपल्लवः
कायो ऽयम् अचिरापायो बुद्बुदो ऽम्बुनिधाव् इव । व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः
मिथ्याज्ञानविकारे ऽस्मिन् स्वप्नसम्भ्रमपत्तने । काये स्फुटतरापाये क्षणम् आस्था न मे द्विज
तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च । स्थैर्यं येन विनिर्णीतं स विश्वसिति विग्रहे
सततभङ्गुरकार्यपरम्पराविजयि जातजयं शठवृत्तिषु । सकलदोषम् इदं कुकलेवरं तृणम् इवाहम् उपोज्झ्य सुखं स्थितः
लब्ध्वापि तरलाकारे कार्यभारतरङ्गिणि । संसारसागरे जन्म बाल्यं दुःखाय केवलम्
अशक्तिर् आपदस् तृष्णा मूकता मूढबुद्धिता । गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रवर्तते
रोषरोदनरौद्रीषु दैन्यजर्जरितासु च । दशासु बन्धनं बाल्यम् आलानं करिणीष्व् इव
न मृतौ न जरारोगे न चापदि न यौवने । ताश् चिन्ता विनिकृन्तन्ति हृदयं शैशवेषु याः
तिर्यग्जातिसमारम्भस् सर्वैर् एवावधीरितः । लोलो बालजनाचारो मरणाद् अपि दुःखदः
प्रतिबिम्बं घनाज्ञानां नानासङ्कल्पपेलवम् । बाल्यम् आलूनसंशीर्णमनः कस्य सुखावहम्
जडश्यामलयाजस्रं जातभीत्या पदे पदे । यद् भयं शैशवे बुद्ध्या कस्याम् आपदि तद् भवेत्
लीलासु दुर्विलासेषु दुरीहासु दुराशये । परमं मोहम् आदत्ते बालो बलवदापदम्
विकल्पकलिलारम्भं दुर्विलासं दुरास्पदम् । शैशवं शासनायैव पुरुषस्य न शान्तये
ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः । ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः
बाल्यं रम्यम् इति व्यर्थबुद्धयः कथयन्ति ये । तान् मूर्खपुरुषान् ब्रह्मन् धिग् अस्तु हतचेतसः
यत्र लोलाकृति मनः परिस्फुरति वृत्तिषु । त्रैलोक्यराज्यम् अपि तत् कथं भवति तुष्टये
सर्वेषाम् एव सत्त्वानां सर्वावस्थासु चैव हि । मनश् चञ्चलताम् एति बाल्ये दशगुणं मुने
मनः प्रकृत्यैव चलं बाल्यं च चलतावरम् । तयोस् संश्लिष्टयोस् तात केनैवान्तः कुचापले
स्त्रीलोचनैस् तडित्पुञ्जैर् ज्वालामालैस् तरङ्गकैः । चापलं शिक्षितं ब्रह्मञ् शैशवान् मनसो ऽथ वा
शैशवं च मनश् चैव सर्वास्व् एव हि वृत्तिषु । भ्रातराव् इव लक्ष्येते सततं भङ्गुरस्थिती
सर्वाणि दुष्टभूतानि सर्वे दोषा दुराशयाः । बाल्यम् एवोपजीवन्ति श्रीमन्तम् इव मानवाः
नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि । प्राप्नोति तद् असौ याति विषवेगस्य मूर्छनाम्
स्तोकेन वशम् आयाति स्तोकेनैति विकारिताम् । अमेध्य एव रमते बालः कौलेयको यथा
अजस्रं बाष्पवदनः कर्दमान्तर् जडाशयः । वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशश् शिशुः
भयाहारपरं दीनं यथादृष्टाभिलाषि च । लोलबुद्धिर् वपुर् धत्ते बालो दुःखाय केवलम्
स्वसङ्कल्पाभिलषितान् भावान् अप्राप्य तप्तधीः । दुःखम् एत्य् अबलो बालो विनिकृत्त इवाशये
दुरीहालब्धलक्ष्याणि बहुपक्षोल्वणानि च । बालस्य यानि दुःखानि मुने तानि न कस्यचित्
बालो बलवताश्व् एव मनोरथविलासिना । मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थलम्