यद्य् एवं फुल्लपद्माक्षि परदेहैकभोजने । किं स्याच् छरीरवृत्त्या ते स्थिताया मत्समीहिते
षड्भिर् वर्षशतै राजन् प्रबुद्धायास् समाधितः । जातभोजनसङ्कल्पा भोजनेच्छेयम् अद्य मे
इदानीं शिखरं गत्वा तद् एव ध्याननिश्चला । यावदिच्छं सुखेनासे सजीवा सालभञ्जिका
आमृतीं धारणां बद्ध्वा धारयामि शरीरकम् । यथेच्छम् अथ कालेन त्यक्ष्यामीति मतिर् मम
आशरीरपरित्यागम् इदानीं न मया नृप । हिंसनीयाः परप्राणास् तेनेदं मद्वचश् शृणु
हिमवान् नाम शैलो ऽस्ति रुचा चन्द्रांशुनिर्मलः । य उत्तराशाहृदये स्पृष्टपूर्वापरार्णवः
तत्राहं निवसाम्य् उग्रे हेमशृङ्गदरीगृहे । आयसी स्तम्भलेखेव कर्कटी नाम राक्षसी
तपसा प्रार्थितो ब्रह्मा जनतामारणेच्छया । विषूचिका प्राणहरा स्यां सूक्ष्मास्मीति वै मया
तस्मात् सम्प्राप्तवरया बहून् वर्षगणान् मया । भुक्ता विषूचिकात्वेन जनता जीववेधनैः
त्वया न गुणिनो हिंस्या इति मे ब्रह्मणा कृतः । नियमार्थं महामन्त्रस् तदायत्तास्मि संस्थिता
सो ऽयं प्रगृह्यतां तेन सर्वं हृदयशूलनम् । शमम् एष्यति लोके ऽस्मिन् का कथा मत्कृते भ्रमे
विरतैवास्मि हिंसातो यत् पुरा हिंसितं मया । जनस्य हृदयं तेन नाड्यो वैधुर्यम् आगताः
हिंसित्वा रक्तमांसानि सन्त्यक्ता ये मया जनाः । तेभ्यो विधुरनाडिभ्यो ये जातास् ते ऽपि तादृशाः
राजन् विषूचिकामन्त्रस् सो ऽयं सम्पन्न एव ते । न हि सत्त्ववताम् अस्ति दुस्साध्यम् इह किञ्चन
अतो दुर्नाडिकोशेषु शूलानां परिशान्तये । मन्त्रो यो ब्राह्मणा प्रोक्तो राजञ् शीघ्रं गृहाण तम्
आगच्छ निकटं नद्या गच्छामस् तत्र भूपते । स्वाचान्ताभ्यां संयताभ्यां भवद्भ्यां सुव्रता ददे
इति तस्यां तदा रात्र्यां राक्षसीमन्त्रिभूभृतः । जग्मुस् ते सरितस् तीरं मिथस्सञ्जातसौहृदाः
अन्वयव्यतिरेकाभ्यां राक्षस्यास् सौहृदं तथा । ज्ञात्वा स्थितौ तौ स्वाचान्ताव् उभाव् अन्ते निवासिनौ
तया ब्रह्मोपदिष्टो ऽसौ ततस् ताभ्यां यथाक्रमम् । स्नेहाद् विषूचिकामन्त्रः प्रदत्तो जपसिद्धिदः
ततस् सञ्जातसौहार्दौ तौ विसृज्य निशाचरी । यदा गन्तुं प्रवृत्तासौ तदा राजाब्रवीद् वचः
गुरुस् त्वं नौ महादेवि वयस्या च सुनिर्वृता । निमन्त्रयावहे यत्नात् त्वाम् अम्भोरुहसुन्दरि
न प्रार्थनां तथास्माकं वितथीकर्तुम् अर्हसि । सौहार्दं सुजनानां हि दर्शनाद् एव वर्धते
लघुसौभाग्यसंयुक्तं कृत्वाकारं मनोहरम् । आगच्छास्मद्गृहं भव्या तत्र तिष्ठ यथासुखम्
मुग्धस्त्रीरूपधारिण्यै दातुं शक्नोषि भोजनम् । सन्तर्पयसि मां केन राक्षसीरूपधारिणीम्
रक्षोऽन्नम् एव मे तुष्ट्यै न सामान्यजनाशनम् । पूर्वसिद्धस् स्वभावो ऽयम् आ सर्गान्ताद् विवर्धते
हेमस्रग्दामवलिता दिनानि कतिचिद् गृहे । मम स्त्रीरूपिणी तिष्ठ यावदिच्छम् अनिन्दिते
ततो दुष्कृतिनश् चौरान् वध्याञ् शतसहस्रशः । मण्डलेभ्यस् समानीय ददे तुभ्यं सुभोजने
कान्तारूपं परित्यज्य गृहीत्वा राक्षसं वपुः । आदाय वध्याञ् शतशः पुरुषांस् तान् स्वसञ्चितान्
नयस्व हिमवच्छृङ्गं तत्र भुङ्क्ष्व यथासुखम् । महाशनानाम् एकान्ते भोजनं हि सुखायते
सुप्ता निद्रां परित्यज्य भव भूयस् समाधिभाक् । समाधिविरता भूयो ऽप्य् आगत्य पुनर् अन्यदा