द्रुमो बीजतयेवाशु न सन्त्यक्तसमस्थितिः । तिष्ठत्य् अपगतस्पन्दत्यागात्यागः परो ऽणुकः
बिसतन्तुर् महामेरुः परात्माणोर् अपेक्षया । दृश्यः किल बिसे तन्तुर् अदृश्याक्ष्णा परात्मता
बिसतन्तुर् महामेरुः परमाणोः किलात्मनः । तस्यैव तद्घनाच् चान्तस्स्थिता मेर्वादिकोटयः
एतेन तेन महता परमाणुना च व्याप्तं ततं विरचितं जनितं कृतं च । विश्वप्रपञ्चरचनं नभसेव विष्वक् शून्यत्वम् अच्छम् अभितः परिलब्धम् एव
द्वैतेन सुन्दरतरं स्वम् अनुज्झतेव रूपं सुषुप्तसदृशेन परावबोधात् । ऐक्यं गतं स्थितगमागममुक्तम् एवम् इत्थं स्थितं ननु जगत् परमार्थपिण्डः
इति राजमुखाच् छ्रुत्वा कर्कटी वनमर्कटी । अवबुद्धपदान्तस्स्थं जहौ मात्सर्यचापलम्
अन्तश्शीतलतां तोषं विश्रान्तिम् अपतापताम् । प्राप्ता प्रावृण्मयूरीव सज्योत्स्नेव कुमुद्वती
तया राजगिरा तस्या आनन्द उदभूद् भृशम् । गर्भो ऽन्तः खे बलाकाया रवेणेव पयोमुचः
अहो बत पवित्रेयं भवतोर् भाति शेमुषी । अनस्तमितसारेण प्रबोधार्केण भासिता
सिता समरसा शुद्धा ज्योत्स्नेव शशिमण्डलात् । विवेककणिका दृष्टा भवतोर् हृदयाद् इयम्
विवेकिनो जगत्पूज्यास् सेव्या मन्ये भवादृशाः । त्वत्सङ्गात् सविकासास्मि चन्द्रेणेव कुमुद्वती
सौरभं कुसुमासङ्गाद् इव सत्सङ्गमाच् छुभम् । प्रवर्तते ऽर्कसम्पर्काद् विकासो ऽम्बुरुहाम् इव
महताम् एव संसर्गात् पुनर् दुःखं न बाधते । को हि दीपशिखाहस्तस् तमसा परिभूयते
मयेमौ जङ्गले प्राप्तौ भवन्तौ भूमिभास्करौ । पूजनीयाव् अतश् शीघ्रम् ईहितं कथ्यतां शुभम्
अस्मज्जनपदे रक्षःकुलकाननमञ्जरि । जनस्य बाधते ऽत्यर्थं सदा हृदयशूलनम्
यदा सर्वैव जनता सदा दृढविषूचिका । मन्मण्डले ऽद्य तेनाहं निर्गतो रात्रिचर्यया
शूलानि हृदये नॄणां न शाम्यन्ति यदौषधैः । तदाहं त्वद्विधप्रोक्तमन्त्राद्यर्थेन निर्गतः
त्वादृशस्य च लोकस्य मुग्धलोकाभिघातिनः । निग्रहार्थं प्रवृत्तिर् मे सा च सम्पत्तिम् एत्व् अलम्
एतावद् एव च शुभे नन्व् अङ्गीक्रियतां त्वया । भूयो भवत्या यत् प्राणा हिंसनीया न कस्यचित्
बाढम् एवं करोम्य् अद्यप्रभृत्य् अवितथं प्रभो । सत्यम् एवं न किञ्चिद् धि हिंसनीयं मयाधुना
यद्य् एवं फुल्लपद्माक्षि परदेहैकभोजने । किं स्याच् छरीरवृत्त्या ते स्थिताया मत्समीहिते
षड्भिर् वर्षशतै राजन् प्रबुद्धायास् समाधितः । जातभोजनसङ्कल्पा भोजनेच्छेयम् अद्य मे
इदानीं शिखरं गत्वा तद् एव ध्याननिश्चला । यावदिच्छं सुखेनासे सजीवा सालभञ्जिका
आमृतीं धारणां बद्ध्वा धारयामि शरीरकम् । यथेच्छम् अथ कालेन त्यक्ष्यामीति मतिर् मम
आशरीरपरित्यागम् इदानीं न मया नृप । हिंसनीयाः परप्राणास् तेनेदं मद्वचश् शृणु
हिमवान् नाम शैलो ऽस्ति रुचा चन्द्रांशुनिर्मलः । य उत्तराशाहृदये स्पृष्टपूर्वापरार्णवः
तत्राहं निवसाम्य् उग्रे हेमशृङ्गदरीगृहे । आयसी स्तम्भलेखेव कर्कटी नाम राक्षसी
तपसा प्रार्थितो ब्रह्मा जनतामारणेच्छया । विषूचिका प्राणहरा स्यां सूक्ष्मास्मीति वै मया
तस्मात् सम्प्राप्तवरया बहून् वर्षगणान् मया । भुक्ता विषूचिकात्वेन जनता जीववेधनैः
त्वया न गुणिनो हिंस्या इति मे ब्रह्मणा कृतः । नियमार्थं महामन्त्रस् तदायत्तास्मि संस्थिता