बोधाद् गलितदृश्यस्य द्रष्टुस् सत्तैव भासते । अबुद्धकटकत्वस्य हेम्नः कनकता यथा
दृश्ये ऽसत्य् अस्ति न द्रष्टा दृश्यं द्रष्टरि नासति । द्वयेन च विना नैक्यं नैक्यम् अप्य् अस्ति चानयोः
सर्वं यथावद् विज्ञाय शुद्धसंविन्मयात्मनः । वाचाम् अविषयस् स्वास्थ्यं किञ्चिद् एवावशिष्यते
आत्माथ दर्शनं दृश्यं दीपेनेवावभासितम् । कृतं च सर्वम् एतेन चिन्मात्रपरमाणुना
मातृमेयप्रमाणाख्यं बुद्धौ निगिरति त्रयम् । हेमेव कटकादित्वम् असन्मयम् उपस्थितम्
यथा न जलम् ऊर्म्यादेः पृथक् किञ्चिन् मनाग् अपि । तथैतस्मात् स्वभावाणोर् न किञ्चित् पृथग् एव हि
सर्वगानुभवात्मत्वात् सर्वानुभवरूपतः । एकत्वानुभवे न्याय्ये रूढे सर्वैकतास्य हि
अस्येच्छया पृथक्तास्ति वीचितेव महाम्भसः । इच्छानुरूपसम्पत्तेर् भावितार्थैकलाभिनः
दिक्कालाद्यनवच्छिन्नः परमात्मास्ति केवलः । सर्वात्मत्वात् स सर्वात्मा सर्वानुभवतस् स्वतः
सन्न् एष चेतनात्मत्वाद् असन्न् अनवबोधतः । द्वैतैक्ये नात्र विद्येते सत्यरूपे महात्मनि
यदि कश्चिद् द्वितीयस् स्यात् तद् एकस्यैकता भवेत् । द्वित्वैक्ययोर् मिथस् सिद्धिर् आतपच्छाययोर् इव
यत्र नास्ति द्वितीयो हि तत्रैकस्यैकता कथम् । एकतायाम् असिद्धायां द्वयम् एव न विद्यते
एवं स्थिते तु यच् छिष्टं तत् स्याद् रिक्तम् इहास्थितेः । तस्मान् न व्यतिरिक्तं तद्रूपं द्रव इवाम्भसः
नानारम्भविशालं च साम्येनाक्षुब्धरूपि च । बीजस्यान्तस् तरुर् इव ब्रह्मणो ऽन्तस् स्थितं जगत्
द्वैतम् अप्य् अपृथक् तस्माद् धेम्नः कटकता यथा । साम्यबुद्धावबोधे हि द्वैतं सच् च नसन्मयम्
यथा द्रवत्वं पयसस् स्पन्दनं मातरिश्वनः । व्योम्नश् शून्यत्वम् एवं हि न पृथग् द्वैतम् ईश्वरात्
द्वैताद्वैतोपलम्भो हि दुःखायैष क्षयात्मने । निपुणो ऽनुपलम्भो यस् त्व् एतयोस् तत् परं विदुः
मातृमानप्रमेयादि द्रष्टृदर्शनदृश्यताः । एतावज् जगद् एतच् च परमाणौ चितस् स्थितम्
अयं जगदणुर् नित्यम् अनेनाणुसुमेरुणा । स्पन्दनं पवनेनेव स्वाङ्ग एव धृतः कुतः
अहो नु भीमा मायेयम् अथ वा मायिता परा । परमाण्वन्तर् एवास्ति यत् त्रैलोक्यपरम्परा
अथासम्भवमायित्वम् एवैतत् सर्वदा स्थितम् । चिन्मात्रपरमाण्वन्तमात्रम् एव जगत् स्थितम्
अन्तर्गतजगज्जालो ऽप्य् एषो ऽणुस् साम्यम् अत्यजन् । स्थितो ऽन्तस्स्थबृहद्वृक्षं बीजं भाण्डोदरे यथा
बीजे ऽन्तर् वृक्षविस्तारस् स्थितस् सफलपल्लवः । परया दृश्यते दृष्ट्या जगच् च चिदणूदरे
स शाखाफलवृक्षत्वम् अजहद् बीजकोटरे । यथा तरुस् स्थितस् तद्वद् विकासि चिदणौ जगत्
संस्थितद्वैतम् अद्वैतबीजकोशम् इव स्थितम् । जगच् चित्परमाण्वन्तर् यः पश्यति स पश्यति
न द्वैतं न च वाद्वैतं न बीजं न च वाङ्कुरः । न स्थूलं न च वा सूक्ष्मं नाजातं जातम् एव नो
न चास्ति न च नास्तीदं न सोम्यं क्षुभितं न च । त्रिजगच्चिदणोर् अन्तस् सत्त्वं वाथ न किञ्चन
न जगन् नाजगद् वास्ति विद्यते चित्पराणुता । सर्वात्मिका यदा यत्र या यथोदेति तत् तथा
उदेत्य् अनुदितो ऽप्य् एष स्वसंवेदनजृम्भितः । परमात्माणुर् एकात्मा समग्रात्मतयेव खे
द्रुमीभूयेव बीजत्वम् इवोदेत्य् अनुदय्य् अपि । परं तत्त्वं जगद्भङ्ग्या जगन्नाशोदयेन च