चिति भूतानि भूतानि वर्तमानानि सम्प्रति । भविष्यन्ति भविष्यन्ति शक्तिबीजे द्रुमा इव
निमेषकल्पाव् एतेन तुषेणान्नकणाव् इव । वलितौ नैष चैताभ्याम् अणुस् स्वाङ्गात्मकश् चितः
उदासीनवद् आसीनो न संस्पृष्टो मनाग् अपि । एष भोक्तृत्वकर्तृत्वैः खात्मा कुर्वञ् जगन्त्य् अपि
जगत्सत्तोदितेयं हि शुद्धचित्परमाणुतः । परामणोश् च भोक्तृत्वकर्तृत्वे क्वेव संस्थिते
जगन् न किञ्चित् क्रियते सर्वदैव न केनचित् । विलीयते च नो किञ्चिन् मात्रस्याद्य् अस्य खण्डनम्
सर्वं समरसाभासम् इदम् आकाशकोशगम् । जगत्पर्यायशब्दाख्यं विद्ध्य् अनाख्यं च राक्षसि
चिदणुर् दृश्यसिद्ध्यर्थम् आन्तरीं चिच्चमत्कृतिम् । बहीरूपतया धत्ते स्वात्मनात्मनि संस्थिताम्
एतद् बहिस्स्थम् अन्तस्स्थम् अस्ति शब्दे न वस्तुनि । उपदेशाय सत्त्वानां चिद्रूपत्वाज् जगत्त्रये
द्रष्टा दृश्यपदं गच्छन्न् आत्मानं सम्प्रपश्यति । नेत्रं दृश्याभिपातीव सद् एवासद् इव स्थितम्
न च गच्छति दृश्यत्वं द्रष्टा ह्य् असद् अवास्तवम् । आत्मन्य् एव न यत् किञ्चित् तत्ताम् एति कथं पुरः
दृग् एव लोचने सा च वासना तन् निजं वपुः । बहुरूपतया दृश्यं कृत्वा द्रष्टृतयोदिता
न विना द्रष्टृताम् अस्ति दृश्यसत्ता कथञ्चन । पितृतेव विना पुत्रं द्वितेवैक्यपदं विना
द्रष्टैव दृश्यताम् एति न द्रष्टृत्वं विनास्ति तत् । विना पित्रेव तनयो विना भोक्त्रेव भोग्यता
द्रष्टुर् हि दृश्यनिर्माणे चित्त्वाद् अस्त्य् एव शक्तता । कनकस्यावदातस्य कटकत्वकृताव् इव
दृश्यस्य द्रष्टृनिर्माणे जडत्वान् नास्ति शक्तता । कटकत्वस्य मोहस्य यथा कनकनिर्मितौ
चेतनाद् दृश्यनिर्माणं चित् कचत्य् असद् एव यत् । अकारणं मोहहेतुर् हेमैव कटकभ्रमः
कटकत्वावभासे हि यथा हेम्नो न हेमता । सत्यैव प्रकचत्य् एवं द्रष्टुर् दृश्यस्थितौ वपुः
द्रष्टा दृश्यतया तिष्ठन् द्रष्टृताम् उज्झतीव हि । सत्यां कटकसंवित्तौ हेम काञ्चनताम् इव
एकस्मिन् प्रतिभासे ऽस्ति न सत्ता द्रष्टृदृश्ययोः । पुम्प्रत्ययप्रकचने क्व पशुप्रत्ययोदयः
दृश्यं पश्यन् स्वम् आत्मानं न द्रष्टा स्वं प्रपश्यति । द्रष्टुर् हि दृश्यतापत्तौ सत्तासत्तेव तिष्ठति
बोधाद् गलितदृश्यस्य द्रष्टुस् सत्तैव भासते । अबुद्धकटकत्वस्य हेम्नः कनकता यथा
दृश्ये ऽसत्य् अस्ति न द्रष्टा दृश्यं द्रष्टरि नासति । द्वयेन च विना नैक्यं नैक्यम् अप्य् अस्ति चानयोः
सर्वं यथावद् विज्ञाय शुद्धसंविन्मयात्मनः । वाचाम् अविषयस् स्वास्थ्यं किञ्चिद् एवावशिष्यते
आत्माथ दर्शनं दृश्यं दीपेनेवावभासितम् । कृतं च सर्वम् एतेन चिन्मात्रपरमाणुना
मातृमेयप्रमाणाख्यं बुद्धौ निगिरति त्रयम् । हेमेव कटकादित्वम् असन्मयम् उपस्थितम्
यथा न जलम् ऊर्म्यादेः पृथक् किञ्चिन् मनाग् अपि । तथैतस्मात् स्वभावाणोर् न किञ्चित् पृथग् एव हि
सर्वगानुभवात्मत्वात् सर्वानुभवरूपतः । एकत्वानुभवे न्याय्ये रूढे सर्वैकतास्य हि
अस्येच्छया पृथक्तास्ति वीचितेव महाम्भसः । इच्छानुरूपसम्पत्तेर् भावितार्थैकलाभिनः
दिक्कालाद्यनवच्छिन्नः परमात्मास्ति केवलः । सर्वात्मत्वात् स सर्वात्मा सर्वानुभवतस् स्वतः
सन्न् एष चेतनात्मत्वाद् असन्न् अनवबोधतः । द्वैतैक्ये नात्र विद्येते सत्यरूपे महात्मनि