पद्मोत्पलौ यथार्केण तपता प्रकटीकृतौ । प्रकाशतमसोस् सत्ते चितैवं प्रकटीकृते
अर्कः कुर्वन्न् अहोरात्रं दर्शयत्य् आकृतिं यथा । चितिस् सदसती कृत्वा दर्शयत्य् आकृतिं तथा
चिदणोर् अन्तरे सन्ति विचित्रानुभवाणवः । यथा मधुरसस्यान्तः पत्त्रपुष्पफलश्रियः
उद्यन्ति चिदणोर् एते समग्रानुभवाणवः । मधुमासरसाच् चित्रा इव षण्डपरम्पराः
परमात्माणुर् अत्यन्तं निस्स्वादस् सूक्ष्मतावशात् । समग्रस्वादसत्तैकजनकस् स्वदते स्वयम्
यो यो नाम रसः कश्चित् स्वसत्तायां कृतस्थितिः । प्रतिबिम्बम् इवादर्शे तां विना नास्त्य् असौ स्वतः
त्यजता संश्रितं सर्वं चिन्मात्रपरमाणुना । त्यक्तं जगद् असंवित्त्या संवित्त्या सर्वम् आश्रितम्
अशक्तयाप्य् आत्मगुप्तौ सर्वम् आच्छादितं जगत् । चिताणुताम् एव परां सम्प्रसार्य वितानवत्
आत्मगुप्तिं न शक्नोति परमात्माम्बराकृतिः । मनाग् अपि क्षणम् अपि गजो दूर्वावने यथा
तथाप्य् आक्रान्तवान् विश्वं ज्ञतां गोपयति क्षणात् । जगद्धानां कणं बाल इवाहो घनमायिता
चिन्मात्राणुनयेनेदं जगत् समभिजीवति । वसन्तरसवेधेन विचित्रेव वनावली
चित्सत्तैवेयम् अखिलं स्वतो जगद् इवोदिता । मधुमासरसोल्लासी चित्रो हि वनषण्डकः
सत्यं चिन्मयम् एवेदं जगद् इत्य् एव विद्ध्य् अलम् । वसन्तरसम् एवेदं विद्धि पल्लवगुल्मकम्
सर्वावयविसारत्वात् सहस्रकरलोचनः । परंआणुर् असाव् एव नित्यानवयवोदयः
निमेषांशावबोधे ऽपि चिदणोः प्रतिभासते । यतः कल्पसहस्रौघस् स्वप्नवार्द्धकबाल्यवत्
ततस् सो ऽप्य् निमेषाणुः कल्पकोटिशतान्य् अलम् । सर्वसत्ताविलासेन प्रतिभैका हि जृम्भते
अभुक्तवत्य् एव यथा भुक्तवान् अहम् इत्य् अलम् । जायते प्रत्ययस् तद्वन् निमेषे कल्पनिश्चयः
अभुक्त्वा भुक्तवान् अस्मीत्य् एवं प्रत्ययशालिनः । दृश्यन्ते वासनाविष्टास् स्वप्ने स्वमरणम् यथा
जगन्ति परितिष्ठन्ति परमाणौ चिदात्मनि । प्रतिभासाः प्रवर्तन्ते तत एव हि जागताः
यद् अस्ति यत्र तत् तस्मात् समुदेति तद् एव तत् । आकारिणि विकारादि दृष्टं न गगने ऽमले
चिति भूतानि भूतानि वर्तमानानि सम्प्रति । भविष्यन्ति भविष्यन्ति शक्तिबीजे द्रुमा इव
निमेषकल्पाव् एतेन तुषेणान्नकणाव् इव । वलितौ नैष चैताभ्याम् अणुस् स्वाङ्गात्मकश् चितः
उदासीनवद् आसीनो न संस्पृष्टो मनाग् अपि । एष भोक्तृत्वकर्तृत्वैः खात्मा कुर्वञ् जगन्त्य् अपि
जगत्सत्तोदितेयं हि शुद्धचित्परमाणुतः । परामणोश् च भोक्तृत्वकर्तृत्वे क्वेव संस्थिते
जगन् न किञ्चित् क्रियते सर्वदैव न केनचित् । विलीयते च नो किञ्चिन् मात्रस्याद्य् अस्य खण्डनम्
सर्वं समरसाभासम् इदम् आकाशकोशगम् । जगत्पर्यायशब्दाख्यं विद्ध्य् अनाख्यं च राक्षसि
चिदणुर् दृश्यसिद्ध्यर्थम् आन्तरीं चिच्चमत्कृतिम् । बहीरूपतया धत्ते स्वात्मनात्मनि संस्थिताम्
एतद् बहिस्स्थम् अन्तस्स्थम् अस्ति शब्दे न वस्तुनि । उपदेशाय सत्त्वानां चिद्रूपत्वाज् जगत्त्रये
द्रष्टा दृश्यपदं गच्छन्न् आत्मानं सम्प्रपश्यति । नेत्रं दृश्याभिपातीव सद् एवासद् इव स्थितम्
न च गच्छति दृश्यत्वं द्रष्टा ह्य् असद् अवास्तवम् । आत्मन्य् एव न यत् किञ्चित् तत्ताम् एति कथं पुरः