योगवासिष्ठः
बीजस्यान्तस्स्थवृक्षस्य व्योमाद्वैता स्थितिर् यथा । ब्रह्मणो ऽन्तस्स्थजगतो व्योमाक्षुब्धा स्थितिस् तथा
शान्तं समस्तम् अजम् एकम् अनादिमध्यं नेहास्ति काचन कला कलनाः कथञ्चित् । निर्द्वन्द्वशान्तम् अतिरेकम् अनेकम् अच्छम् आभासरूपम् अलम् एकविकासम् आस्स्व
अहो नु परमार्थोक्तिः पावनी तव मन्त्रिणः । राजा राजीवपत्त्राक्ष इदानीम् एष भाषताम्
एषो ऽणुवेदनाद् वायुर् वायुश् च भ्रान्तिदृष्टितः । ततो न किञ्चिद् वाय्वादि केवलं शुद्धचेतनम्
शब्दसंवेदनाच् छब्दश् शब्दश् च भ्रान्तिदर्शनम् । ततो ऽत्र शब्दशब्दार्थदृष्टिर् दूरतरं गता
सो ऽणुस् सर्वं नकिञ्चिच् च सो ऽहं नाहं स एव च । सर्वशक्त्यात्मनो ऽस्यैव प्रतिभैवात्र कारणम्
आत्मा यत्नशतैः प्राप्यो लब्धे ऽस्मिन् न च किञ्चन । लब्धं भवति तच् चैतत् परमं नाम किञ्चन
तावज् जन्मवसन्तेषु संसृतिव्रततिश् चिरम् । विकसत्य् उदितो यावन् न बोधो मूलकाषकृत्
अणुनानेन रूपं स्वं दृश्यताम् इव गच्छता । तापेनाम्बु धियैवेव स्वस्थेनैवापहारितम्
अनेन संविदं नाना मेरुस् त्रिभुवनं तृणम् । वमित्वा बहिर् अन्तस्स्थं मायात्मकम् अवेक्ष्यते
चिदणोर् अन्तरे यद् यद् अस्ति तद् दृश्यते बहिः । सङ्कल्पेष्टालिङ्गनादि दृष्टान्तो ऽत्र हि रागिणः
आदिसर्गे सर्वशक्तिश् चिद् यथा चोदितात्मना । तथाशु पश्यत्य् अखिलं सङ्कल्पमतिवत् स्वतः
अभिजाताशयस्यान्तर् यद् यथा प्रतिभासते । तत् तथा पश्यतीवासौ दृष्टान्तो ऽत्र शिशोर् मनः
परमाणुत एवापि चिन्मात्रेणामुनाणुना । परिसूक्ष्मतमेनैव विश्वग् विश्वं प्रपूरितम्
अणुर् एव न मात्य् एष योजनानां शतेष्व् अपि । सर्वगत्वाद् अनाद्यन्तरूपत्वाद् वेदनाकृतिः
यथा धूर्तेन शिड्गेन पुंसा बालः प्रनाट्यते । सभ्रूविकारनयननिरीक्षणविचेष्टितैः
चिदालोकेन शुद्धेन सपर्वततृणं जगत् । नाट्यते ऽविरतं तद्वद् विवृत्याभिनयं सदा
तेनैवानन्तरूपत्वाद् अणुना वाससा यथा । संविदन्तर् भवेद् बाह्ये कृत्वा मेर्वादि वेष्टितम्
दिक्कालाद्यनवच्छिन्नरूपत्वान् मेरुतो बृहत् । वालाग्रशतभागात्माप्य् एष सूक्ष्मः परो ऽणुकः
शुद्धसंवेदनाकाशरूपस्य परमाणुना । शोभते न हि साम्योक्तिर् मेरुसर्षपयोर् इव
मायाकलापराणुत्वं निर्माया परमात्मता । हेम्नीव कटकत्वेन नातो ऽत्र समता भवेत्
प्रकटो ऽनेन दीपेन प्रकाशो ऽनुभवात्मना । स्वसत्तानाशपूर्वो हि विनानेन भवेत् तु सः
यदि सूर्यादिकं सर्वं जगद् एकजडं भवेत् । ततः किम् आत्मा किं रूपं प्रकाशस् स्यात् क्व वाथ किम्
शुद्धचिन्मात्रसत्त्वं यत् स्वतस् स्वात्मनि संस्थितम् । तद् एतद् अणुना तेजो दृष्टं बहिर् इव स्थितम्
तेजांस्य् अर्केन्दुवह्नीनाम् अभिन्नानि तमोघनात् । एतावान् अत्र भेदो ऽस्ति यद् वर्णे शौक्ल्यकृष्णते
यादृक् कज्जलनीहारमेघनीहारयोर् भवेत् । तादृक् प्रकाशतमसोर् भेदश् चेति तयोस् स्थितः
जडयोर् उपलम्भाय चिदादित्यः किलैतयोः । यदा तपति तेनैते लब्धसत्तैकतां गते
तपत्य् एकश् चिदादित्यो रात्रिन्दिवम् अतन्द्रितः । अन्तर् बहिश् शिलाद्यन्तर् अप्य् अनस्तमयोदयः
त्रिलोकी भाति तेनेयं जीवस्य प्रथितात्मनः । नानोपलम्भभाण्डाढ्या कुटी कठिनकोटरा
तमस्त्वं तमसो देहम् अविनाशयतामुना । तप्यते भासया भासा सर्वम् आभास्यते तमः