चिच्चमत्कारमात्रात्मन्य् अस्मिंस् तत्प्रतिभात्मनि । जगत्य् अनिलवृक्षाभे चिच्चेत्यकलने कुतः
यथा तपस्य् अपीनस्य भासनं मृगतृष्णिका । एकं पीवरम् अद्वैतं तथा चिद्भासनं जगत्
अर्कांशुसूक्ष्मतरभानिर्माणं यद् अनामयम् । अस्तितानास्तिते तत्र कुड्यादेर् इव कैव धीः
मायापांसुकणाङ्के खे यथा कचति काञ्चनम् । तथा जगद् इदं भाति चिच्चेत्यकलने कुतः
स्वप्नगन्धर्वसङ्कल्पनगरे कुड्यवेदनम् । न सन् नासद् यथा तद्वद् विद्धि दीर्घभ्रमं जगत्
तथा चैवंविधन्यायभावनाभ्यासनिर्मलाः । कुड्याकाशेन निर्यान्ति यथाभूतार्थदर्शिनः
न कुड्याकाशयोर् भेदो दृढसंवेदनाद् ऋते । आ ब्रह्मजीवकलनाद् यद् रूढं रूढम् एव तत्
प्रतिभासामलाकाशे खत्वकुड्यत्वशून्यताः । प्रकचन्ति घनीभावात् प्रभापिण्ड इव प्रभाः
पृथक्ता प्रतिभासस्य स्वचमत्कारयोगतः । सर्वात्मिका हि प्रतिभा परा वृक्षात्मबीजवत्
बीजम् अन्तस्स्थवृक्षत्वं नानानाना यथैकदृक् । तथासङ्ख्यं जगद् ब्रह्म शान्तम् आकाशकोशवत्
बीजस्यान्तस्स्थवृक्षस्य व्योमाद्वैता स्थितिर् यथा । ब्रह्मणो ऽन्तस्स्थजगतो व्योमाक्षुब्धा स्थितिस् तथा
शान्तं समस्तम् अजम् एकम् अनादिमध्यं नेहास्ति काचन कला कलनाः कथञ्चित् । निर्द्वन्द्वशान्तम् अतिरेकम् अनेकम् अच्छम् आभासरूपम् अलम् एकविकासम् आस्स्व
अहो नु परमार्थोक्तिः पावनी तव मन्त्रिणः । राजा राजीवपत्त्राक्ष इदानीम् एष भाषताम्
एषो ऽणुवेदनाद् वायुर् वायुश् च भ्रान्तिदृष्टितः । ततो न किञ्चिद् वाय्वादि केवलं शुद्धचेतनम्
शब्दसंवेदनाच् छब्दश् शब्दश् च भ्रान्तिदर्शनम् । ततो ऽत्र शब्दशब्दार्थदृष्टिर् दूरतरं गता
सो ऽणुस् सर्वं नकिञ्चिच् च सो ऽहं नाहं स एव च । सर्वशक्त्यात्मनो ऽस्यैव प्रतिभैवात्र कारणम्
आत्मा यत्नशतैः प्राप्यो लब्धे ऽस्मिन् न च किञ्चन । लब्धं भवति तच् चैतत् परमं नाम किञ्चन
तावज् जन्मवसन्तेषु संसृतिव्रततिश् चिरम् । विकसत्य् उदितो यावन् न बोधो मूलकाषकृत्
अणुनानेन रूपं स्वं दृश्यताम् इव गच्छता । तापेनाम्बु धियैवेव स्वस्थेनैवापहारितम्
अनेन संविदं नाना मेरुस् त्रिभुवनं तृणम् । वमित्वा बहिर् अन्तस्स्थं मायात्मकम् अवेक्ष्यते
चिदणोर् अन्तरे यद् यद् अस्ति तद् दृश्यते बहिः । सङ्कल्पेष्टालिङ्गनादि दृष्टान्तो ऽत्र हि रागिणः
आदिसर्गे सर्वशक्तिश् चिद् यथा चोदितात्मना । तथाशु पश्यत्य् अखिलं सङ्कल्पमतिवत् स्वतः
अभिजाताशयस्यान्तर् यद् यथा प्रतिभासते । तत् तथा पश्यतीवासौ दृष्टान्तो ऽत्र शिशोर् मनः
परमाणुत एवापि चिन्मात्रेणामुनाणुना । परिसूक्ष्मतमेनैव विश्वग् विश्वं प्रपूरितम्
अणुर् एव न मात्य् एष योजनानां शतेष्व् अपि । सर्वगत्वाद् अनाद्यन्तरूपत्वाद् वेदनाकृतिः
यथा धूर्तेन शिड्गेन पुंसा बालः प्रनाट्यते । सभ्रूविकारनयननिरीक्षणविचेष्टितैः
चिदालोकेन शुद्धेन सपर्वततृणं जगत् । नाट्यते ऽविरतं तद्वद् विवृत्याभिनयं सदा
तेनैवानन्तरूपत्वाद् अणुना वाससा यथा । संविदन्तर् भवेद् बाह्ये कृत्वा मेर्वादि वेष्टितम्
दिक्कालाद्यनवच्छिन्नरूपत्वान् मेरुतो बृहत् । वालाग्रशतभागात्माप्य् एष सूक्ष्मः परो ऽणुकः
शुद्धसंवेदनाकाशरूपस्य परमाणुना । शोभते न हि साम्योक्तिर् मेरुसर्षपयोर् इव