लतागुल्माङ्कुरादीनाम् अनक्षाणां च सो ऽणुकः । उत्सेधवेदनाकारः प्रकाशो ऽनुभवात्मकः
कालाकाशक्रियासत्तास्वभावानां स्ववेदनात् । स्वामी कर्ता पिता भोक्ता खात्मत्वाच् च न किञ्चन
अणुत्वम् अजहत् सो ऽणुर् जगद्रत्नसमुद्गकः । मातृमानप्रमेयात्मा जगत् तत्रास्ति वेदने
स एव सर्वजगति सर्वत्र कचति स्फुटम् । यदा जगत् समुद्गे ऽस्मिंस् तदासौ परमो मणिः
दुर्बोधत्वात् तमस् सो ऽणुश् चिन्मात्रत्वात् प्रकाशदृक् । सो ऽस्ति संवित्तिरूपत्वात् तदक्षातीतया त्व् असत्
दूरे ऽसौ नाक्षलभ्यत्वाच् चिद्रूपत्वाद् अदूरगः । सर्वसंवेदनाच् छैला असाव् एवाणुर् एव सन्
तत् संवेदनमात्रं यत् तद् इदं भासते जगत् । न सत्यम् अस्ति शैलादि तेनाणाव् एव मेरुता
निमेषप्रतिभासो हि निमेष इति कथ्यते । कल्पैकप्रतिभासो हि कल्पशब्देन कथ्यते
कल्पक्रियाविलासो हि निमेषे प्रतिभासते । बहुयोजनविस्तीर्णं मनसीव महापुरम्
निमेषजठरे कल्पसंरम्भस् समुदेति हि । महानगरनिर्माणं मकुरे ऽन्तर् इवामले
निमेषकल्पशैलाब्धिपुरयोजनकोटयः । यत्राणाव् एव विद्यन्ते तत्र द्वैतैकते कुतः
कृतवान् प्राग् इदम् अहम् इति बुद्धाव् उदेति हि । क्षणात् सत्यम् असत्यं च दृष्टान्तस्स्वप्नविभ्रमाः
दुःखे कालस् सुदीर्घो हि सुखे लघुतरस् सदा । रात्रिर् द्वादशवर्षाणि हरिश्चन्द्रस्य चोदिता
निश्चयो य उदेत्य् अन्तस् सत्यो वासत्य एव वा । हेम्नीव कटकादित्वम् ऊर्मिस् सिन्धौ विराजते
न निमेषो ऽस्ति नो कल्पो नादूरं न च दूरता । चिदणुप्रतिभैवेवं स्थितानन्यान्यवस्तुवत्
प्रकाशतमसोर् दूरादूरयोः क्षणकल्पयोः । एकचित्कोशयोर् एवं न भेदो ऽस्ति मनाग् अपि
प्रत्यक्षम् अक्षसारत्वाद् अप्रत्यक्षं ततो ऽतिगम् । दृश्यत्वेनैव चोदेति वित्वाद् द्रष्टैव सद्वपुः
यावत् कटकसंवित्तिस् तावन् नास्त्य् एव हेमता । यावच् च दृश्यतापत्तिस् तावन् नास्त्य् एव सा कला
कटकत्वे क्षते दृश्ये सुवर्णत्वम् इवाततम् । केवलं निर्मलं बुद्धं ब्रह्मैव परिशिष्यते
सर्वत्वाद् एष सद्रूपो दुर्लक्ष्यत्वाद् असद्वपुः । चेतनश् चेतनात्मत्वाच् चेत्यासम्भवतस् त्व् अचित्
चिच्चमत्कारमात्रात्मन्य् अस्मिंस् तत्प्रतिभात्मनि । जगत्य् अनिलवृक्षाभे चिच्चेत्यकलने कुतः
यथा तपस्य् अपीनस्य भासनं मृगतृष्णिका । एकं पीवरम् अद्वैतं तथा चिद्भासनं जगत्
अर्कांशुसूक्ष्मतरभानिर्माणं यद् अनामयम् । अस्तितानास्तिते तत्र कुड्यादेर् इव कैव धीः
मायापांसुकणाङ्के खे यथा कचति काञ्चनम् । तथा जगद् इदं भाति चिच्चेत्यकलने कुतः
स्वप्नगन्धर्वसङ्कल्पनगरे कुड्यवेदनम् । न सन् नासद् यथा तद्वद् विद्धि दीर्घभ्रमं जगत्
तथा चैवंविधन्यायभावनाभ्यासनिर्मलाः । कुड्याकाशेन निर्यान्ति यथाभूतार्थदर्शिनः
न कुड्याकाशयोर् भेदो दृढसंवेदनाद् ऋते । आ ब्रह्मजीवकलनाद् यद् रूढं रूढम् एव तत्
प्रतिभासामलाकाशे खत्वकुड्यत्वशून्यताः । प्रकचन्ति घनीभावात् प्रभापिण्ड इव प्रभाः
पृथक्ता प्रतिभासस्य स्वचमत्कारयोगतः । सर्वात्मिका हि प्रतिभा परा वृक्षात्मबीजवत्
बीजम् अन्तस्स्थवृक्षत्वं नानानाना यथैकदृक् । तथासङ्ख्यं जगद् ब्रह्म शान्तम् आकाशकोशवत्