महानिशि महारण्ये महाराक्षसकन्यया । इति प्रोक्ते महाप्रश्ने महामन्त्री गिरं ददौ
शृणु तोयदसङ्काशे प्रश्नम् एनं भिनद्मि ते । अनुक्रमात्मकं मत्तं गजेन्द्रम् इव केसरी
भवत्या परमात्मैष कथितः कमलेक्षणे । अनयैव वचोभङ्ग्या ब्रह्मविद्बोधयोग्यया
अनाख्यत्वाद् अगम्यत्वान् मनसाम् अप्य् अगोचरः । चिन्मात्रम् एवम् आत्माणुर् आकाशाद् अपि सूक्ष्मकः
चिदणोः परमस्यान्तस् सद् एवासद् इव स्थितम् । सत्ताप्य् एवम् असत्तेव स्फुरतीदं जगत् स्थितम्
स किञ्चिदनुभूतित्वात् सर्गात्मकतया स्थितः। तदात्मकतया पूर्वं भावसत्तां किलागतः
अतीन्द्रियत्वान् नो किञ्चित् स एवाणुर् अनन्तकः । सर्वात्मकत्वाद् भुङ्क्ते च तेन किञ्चिन् न किञ्चन
चिदणोः प्रतिभासात् स्वाद् एकस्यानेकतोदिता । असत्यैवापि सत्येव हेम्नः कटकता यथा
एषो ऽणुः परमाकाशस् सूक्ष्मः खाद् अप्य् अलक्षितः । मनष्षष्ठेन्द्रियातीतस् स्थितस् सर्वात्मको ऽपि सन्
सर्वात्मकस् स्यान् नैवासौ शून्यो भवति कर्हिचित् । यद् अस्ति न तद् अस्तीति वक्तोन्मत्त इति स्मृतः
कयाचिद् अपि युक्त्येह सतो ऽसत्त्वं न युज्यते । सर्वात्मा खातगुप्तेन कर्पूरेणेव दर्श्यते
चिन्मात्राणुस् स एवेह सर्वं किञ्चिद् घनं स्थितः । न किञ्चिद् इन्द्रियातीतरूपत्वाद् अमलस् स्थितः
स एव चैको ऽनेकश् च सर्वसत्तात्मवेदनात् । स एवेदं जगद् धत्ते जगत्कोटीस् तथैव च
इमाश् चित्त्वमहाम्भोधेस् त्रिजगज्जलवीचयः । प्रजास् तस्मिन् कचन्त्य् अप्सु द्रवत्वाच् चक्रता इव
चित्तेन्द्रियाद्यलभ्यत्वात् सो ऽणुश् शून्यं खरूपधृत् । स्वसंवेदनलभ्यत्वाद् अशून्यं व्योमरूप्य् अपि
सो ऽहं भवन्न् एव भवात् सम्पन्नो द्वैतवेदनात् । भवान् भवन्न् अहं जातो बोधबृंहाबृहद्वपुः
त्वत्ताहन्तात्मकं सर्वं विनिगीर्यावबोधतः । न त्वं नाहं न सर्वं वासर्वं वा भवति स्वयम्
गच्छन् न गच्छत्य् एषो ऽणुर् योजनौघगतो ऽपि सन् । संवित्त्या योजनौघत्वं तस्याणोर् अन्तरे स्थितम्
न गच्छत्य् एष यातो ऽपि सम्प्राप्तो ऽपि न चागतः । स्वसत्ताकाशकोशे ऽन्तर् वासित्वाद् देशकालयोः
गम्यं यस्य शरीरस्थं क्व किलासौ प्रयाति हि । कुचकोटरगः पुत्रः किं मात्रान्यत्र वीक्ष्यते
गम्यो यस्य महादेशो यावत्सम्भवम् अक्षयः । अन्तस्स्थस् सर्वकर्तुश् च स कथं क्वेव गच्छति
यथा देशान्तरप्राप्ते कुम्भे वक्त्रसुमुद्रिते । तदाकाशस्य गमनागमौ न स्तस् तथात्मनः
चितितास्थाणुते ऽस्यान्तर् यदा स्तो ऽनुभवात्मिके । चेतनश् च जडश् चैव तदासौ द्वयम् एव हि
यदा चेतनपाषाणसत्तैकात्मैव चिद्वपुः । तदा चेतन एवासौ पाषाण इव राक्षसि
परमे व्योम्न्य् अनाद्यन्ते चिन्मात्रपरमाणुना । विचित्रं त्रिजगच् चित्रं तेनेदम् अकृतं कृतम्
तत्संवित्त्या वह्निसत्ता तेनात्यक्तानलाकृतिः । सर्वगो ऽप्य् अदहन्न् एव स जगद्द्रव्यपाचकः
अज्वलन् भासुराकारान् निर्मलाद् गगनाद् अपि । प्रज्वलंश् चेतनैकात्मा तस्माद् अग्निः प्रजायते
संवेदनाद् अनर्कादिः प्रधाने स प्रकाशकः । न नश्यत्य् आद्यभारूपो महाकल्पाम्बुदैर् अपि
अनेत्रलभ्यो ऽनुभवरूपो हृद्गृहदीपकः । सर्वसत्ताप्रदो ऽनन्तः प्रकाशस् स परस् स्मृतः
प्रवर्तते ऽस्माद् आलोको मनष्षष्ठेन्द्रियातिगात् । येनान्तर् अपि वस्तूनां दृश्यादृश्यचमत्कृतिः