लतागुल्माङ्कुरादीनां जात्यन्धानां तथैव च । अन्येषाम् अप्य् अनक्षाणाम् आलोकः क इवोत्तमः
जनकः को ऽम्बरादीनां सत्तायाः कस् स्वभावदः । को जगद्रत्नकोशस् स्यात् कस्य कोशे मणेर् जगत्
को ऽणुस् तमः प्रकाशश् च को ऽणुर् अस्ति च नास्ति च । को ऽणुर् दूरे ऽप्य् अदूरे च को ऽणुर् एव महागिरिः
निमेष एव कः कल्पः कः कल्पो ऽपि निमेषकः । किं प्रत्यक्षम् असद्रूपं किं चेतनम् अचेतनम्
कश् चावायुश् च वायुश् च कश् शब्दो ऽशब्द एव च । कस् सर्वं च नकिञ्चिद् च को ऽहं नाहं च किं भवेत्
किं प्रयत्नशतप्राप्तं लब्ध्वापि बहुजन्मभिः । लब्धं नकिञ्चिद् भवति ननु सर्वं च लभ्यते
स्वस्थेन जीवतैवोच्चैः केन स्वात्मापहारितः । केनाणुनान्तर् व्रियते मेरुस् त्रिभुवनं तृणम्
केनाणुकणमात्रेण पूरिता शतयोजनी । को ऽणुर् एव भवन् माति न योजनशतेष्व् अपि
केनालोकनमात्रेण जगद्बालः प्रनाट्यते । कस्याणोर् अन्तरे सन्ति कुलावनिभृतां घटाः
अणुत्वम् अजहत् को ऽणुर् मेरोस् स्थूलतराकृतिः । वालाग्रशतभागात्मा को ऽणुर् उच्चैश् शिलोच्चयः
को ऽणुः प्रकाशतमसोर् दीपः प्रकटनप्रदः । कस्याणोर् अन्तरे सन्ति समग्रानुभवाणवः
को ऽणुर् अत्यन्तनिस्स्वादुर् अपि संस्वदते भृशम् । केन सन्त्यजता सर्वम् अणुना सर्वम् आश्रितम्
केनात्माच्छादनाशक्तेर् अणुनाच्छादितं जगत् । जगन् नयेन कस्याणोस् सद्भूतम् अभिजीवति
अजातावयवः को ऽणुस् सहस्रकरलोचनः । को निमेषो महाकल्पो महाकल्पशतानि वा
अणौ जगन्ति तिष्ठन्ति कस्मिन् बीज इव द्रुमाः । बीजाद्यानि फलान्तानि स्फुटान्य् अनुदितान्य् अपि
कल्पः कस्य निमेषस्य जीवस्येवान्तरे स्थितः । कः प्रयोजककर्तृत्वम् अप्य् अनाश्रित्य कारकः
दृश्यसम्पत्तये द्रष्टाप्य् आत्मानं दृश्यतां नयेत् । दृश्यं पश्यन् स्वम् आत्मानं को न पश्यति नेत्रवत्
अन्तर्गलितदृश्यं च क आत्मानम् अखण्डितम् । दृश्यासम्पत्तये पश्यन् पुरो दृश्यं न पश्यति
आत्मानं दर्शनं दृश्यं को भासयति दृश्यवत् । कटकादीनि हेम्नेव निगीर्णं केन च त्रयम्
कस्मान् न किञ्चिच् च पृथग् ऊर्म्यादीव महाम्भसः । कस्येच्छया पृथक् चास्ति वीचितेव महाम्भसः
दिक्कालाद्यनवच्छिन्नाद् एकस्माद् असतस् सतः । द्वैतम् अप्य् अपृथक् कस्माद् द्रवतेव महाम्भसः
आत्मानं दर्शनं दृश्यं सद् असच् च गतक्रमम् । को ऽन्तर्बीजम् इवाङ्गस्थं स्थितः कृत्वा त्रिकालगम्
भूतभव्यभविष्यस्थं जगद्वृन्दं बृहद्भ्रमम् । नित्यं समस्य कस्यान्तर् बीजस्यान्तर् इव द्रुमः
बीजं द्रुमतयैवाशु द्रुमो बीजतयैव च । स्वयम् एकम् असद्रूपम् उदेत्य् अनुदितो ऽपि कः
बिसतन्तुर् महामेरुर् भो राजन् यदपेक्षया । तस्य कस्योदरे सन्ति मेरुमन्दरकोटयः
केनेदम् आततम् अनेकचिद् एव विश्वं किंसार एवम् अभिवल्गसि हंसि पासि । किंदर्शनेन न भवस्य् अथ वा सद् एव नूनं भवस्य् असमदृग् वद तत्प्रशान्त्यै
एषो ऽसौ प्रगलतु संशयो ममोच्चैश् चित्तश्रीमुखमिहिकामलानुलेपः । यस्याग्रे न गलति संशयस् समूलो नैवासौ क्वचिद् अपि पण्डितोक्तिम् एति
एनं मे यदि न नयिष्यथः क्रमोक्त्या संशान्तिं लघुतरसंशयं सुबुद्धी । तद् रक्षोजठरहुताशनेन्धनत्वं निर्विघ्नं झगिति गमिष्यथः क्षणेन
पश्चात् तां जनपदमण्डलीं समन्ताद् भावत्कीम् उरुजठरा क्षणाद् ग्रसे ऽहम् । एवं ते भवति सुराजतेव मन्ये मूर्खानाम् अतिरस एव सङ्क्षयाय
इत्य् उक्त्वा विपुलगभीरमेघनाद प्रोल्लासप्रकटगिरा निशाचरी सा । तूष्णीम् अप्य् अतिविकटाकृतिस् तदासीच् छुद्धान्तश्शरदमलाभ्रमण्डलीव