ताम् अवेक्ष्य महावीरौ तथैवाक्षुभितौ स्थितौ । न तद् अस्ति विमोहाय यद् विविक्तस्य चेतसः
महाराक्षसि संरम्भो हासात्मा किम् अयं तव । लघवो ह्य् अथ वा नार्यो लाघवे ऽप्य् अतिसम्भ्रमाः
त्यज संरम्भम् आरम्भो नायं तव विराजते । विषये हि प्रवर्तन्ते धीमन्तस् स्वार्थसाधकाः
त्वादृशीनां सहस्राणि मषिकानाम् इवाबले । अस्माकं वासनावात्याव्यूढानि तृणपर्णवत्
संरम्भज्वरम् उत्सृज्य समया स्वस्थया धिया । युक्त्या च व्यवहारिण्या सो ऽर्थः प्राज्ञेन साध्यते
स्वेनैव व्यवहारेण कार्यं सिध्यतु माथवा । महानियतिनीत्यैव भ्रमस्यावसरो हि कः
कथयाभिमतं किं ते किम् अर्थयसि वार्थिनी । अर्थी स्वप्ने ऽपि नास्माकम् अप्राप्तार्थः पुरोगतः
इत्य् उक्ता सा तदा तेन चिन्तयाम् आस राक्षसी । अहो नु विमलाचारं सत्त्वं पुरुषसिंहयोः
न सामान्याव् इमौ मन्ये चित्रैवेयं चमत्कृतिः । वचोवक्त्रेक्षणान्य् एव वदन्त्य् अन्तर्विनिश्चयम्
वचोवक्त्रेक्षितद्वारैर् धीमताम् आशया मिथः । एकीभवन्ति सरितां पयांसि वलनैर् इव
आभ्यां प्रायः परिज्ञातो मम भावो ऽनयोर् मया । न विनाश्यौ मयेमौ वा स्वयम् एवाविनाशिनौ
मन्ये भवत आत्मज्ञौ नात्मज्ञानाद् ऋते मतिः । प्रमृष्टसदसद्भावा भवत्य् अस्तभया मृतेः
तद् एतौ परिपृच्छामि कञ्चित् सन्देहम् उत्थितम् । प्राप्यं प्राप्य न पृच्छन्ति ये किञ्चित् ते नराधमाः
इति सञ्चिन्त्य पृच्छायै तन् नानावसरं ततम् । अकालकल्पाभ्ररवं हासं संयम्य साब्रवीत्
कौ भवन्तौ नरौ वीरौ कथ्यताम् इति मे ऽनघौ । जायते दर्शनाद् एव मैत्री विषदचेतसाम्
अयं राजा किरातानाम् अस्याहं मन्त्रितां गतः । उद्यतौ रात्रिचारेण त्वादृग्जनविनिग्रहे
राज्ञो रात्रिन्दिनं धर्मो दुष्टभूतविनिग्रहः । स्वधर्मत्यागिनो ये तु ते विनाशानलेन्धनम्
राज्ञस् त्वम् असि दुर्मन्त्री दुर्मन्त्रित्वाद् अराड् अयम् । सद्भूपस्य भवेन् मन्त्री राजा सन्मन्त्रिणा भवेत्
राजैवादौ विवेकेन योजनीयस् सुमन्त्रिणा । तेनार्यताम् उपायाति यथा राजा तथा प्रजाः
समग्रगुणजालानाम् अध्यात्मज्ञानम् उत्तमम् । तद्वद् राजा भवेद् राजा तद्वन् मन्त्री च मन्त्रवित्
प्रभुत्वं समदृष्टित्वं तच् च स्याद् राजविद्यया । ताम् एव यो न जानाति नासौ मन्त्री न सो ऽधिपः
भवन्तौ तद्विदौ साधू यदि तच् छ्रेय आप्स्यथः । नो चेद् अनर्थदौ स्वस्याः प्रकृतेर् नाद्म्य् अहं युवाम्
एकोपायेन मत्पार्श्वाद् बालकाव् उत्तरिष्यथः । मत्प्रश्नपञ्जरं सारं चेद् विचारयथो धिया
प्रश्नानि मां कथय पार्थिव नाथ मन्त्रिन्न् अत्रार्थिनी भृशम् अहं परिपूरयार्थम् । अङ्गीकृतार्थम् अददत् क इवास्ति लोके दोषेण सङ्क्षयकरेण न युज्यते यः
इत्य् उक्त्वा राक्षसी प्रश्नान् सा वक्तुम् उपचक्रमे । उच्यताम् इति राज्ञोक्ते तान् इमाञ् शृणु राघव
एकस्यानेकसङ्ख्यस्य कस्याणोर् अम्बुधेर् इव । अन्तर् ब्रह्माण्डलक्षाणि लीयन्ते बुद्बुदा इव
किम् आकाशम् अनाकाशं नकिञ्चित् किञ्चिद् एव किम् । को ऽहम् एवापि सम्पन्नः को भवान् अप्य् अहं स्थितः
गच्छन् न गच्छति च कः को ऽतिष्ठन्न् एव तिष्ठति । कश् चेतनो ऽपि पाषाणः कश् चिद्व्योमनि चित्रकृत्
वह्निताम् अजहच् चैव कश् च वह्निर् न दाहकः । अवह्नेर् जायते वह्निः कस्माद् राजन् निरन्तरम्
अचन्द्रार्काग्नितारो ऽपि को ऽविनाशः प्रकाशकः । अनेत्रलभ्यात् कस्माच् च प्रकाशश् च प्रवर्तते