कल्पाभ्रांशनिकाशेन घृष्टाम् अद्रितटीम् इव । स्वनेत्रविद्युद्वलयावलनाज्वलिताम्बराम्
तिमिरैकार्णवौर्वाग्निज्वालाविवलनाम् इव । गर्जद्घनघटाटोपपीवरासितकन्धराम्
रणद्वदनसंरम्भहाहाहतनिशाचराम् । रोदसीकज्जलस्तम्भलीलयोल्लासितां पुरः
ऊर्ध्वकेशीं सिरालाङ्गीं कपिलाक्षीं तमोमयीम् । यक्षरक्षःपिशाचानाम् अप्य् अनल्पभयप्रदाम्
दरीरन्ध्रलसत्स्वास्यां वातझाङ्कारभीषणाम् । मुसुलोलूखलालातां हलशूर्पकशेखराम्
स्फुरन्तीम् इव कल्पान्ते वैडूर्यशिखरिस्थलीम् । हासघट्टितविश्वेशां कालरात्रीम् इवोदिताम्
घनव्योमाटवीं साभ्रां कृतदेहाम् इवागताम् । शरीरिणीं महाभ्राढ्यां यामिनीम् इव मांसलाम्
शरीरसन्निवेशेन पङ्कपीठीम् इवोत्थिताम् । तनुं चन्द्रार्कयुद्धाय तमसेव समाश्रिताम्
इन्द्रनीलतटश्वभ्रलम्बाभ्रयुगलोपमौ । उलूखलादिहालाढ्यौ दधानाम् असितौ स्तनौ
नग्नाम् अङ्गारकाशेन समालब्धमहातनुम् । द्रुमाभास्पदसमिरललद्भुजलतातनुम्
ताम् अवेक्ष्य महावीरौ तथैवाक्षुभितौ स्थितौ । न तद् अस्ति विमोहाय यद् विविक्तस्य चेतसः
महाराक्षसि संरम्भो हासात्मा किम् अयं तव । लघवो ह्य् अथ वा नार्यो लाघवे ऽप्य् अतिसम्भ्रमाः
त्यज संरम्भम् आरम्भो नायं तव विराजते । विषये हि प्रवर्तन्ते धीमन्तस् स्वार्थसाधकाः
त्वादृशीनां सहस्राणि मषिकानाम् इवाबले । अस्माकं वासनावात्याव्यूढानि तृणपर्णवत्
संरम्भज्वरम् उत्सृज्य समया स्वस्थया धिया । युक्त्या च व्यवहारिण्या सो ऽर्थः प्राज्ञेन साध्यते
स्वेनैव व्यवहारेण कार्यं सिध्यतु माथवा । महानियतिनीत्यैव भ्रमस्यावसरो हि कः
कथयाभिमतं किं ते किम् अर्थयसि वार्थिनी । अर्थी स्वप्ने ऽपि नास्माकम् अप्राप्तार्थः पुरोगतः
इत्य् उक्ता सा तदा तेन चिन्तयाम् आस राक्षसी । अहो नु विमलाचारं सत्त्वं पुरुषसिंहयोः
न सामान्याव् इमौ मन्ये चित्रैवेयं चमत्कृतिः । वचोवक्त्रेक्षणान्य् एव वदन्त्य् अन्तर्विनिश्चयम्
वचोवक्त्रेक्षितद्वारैर् धीमताम् आशया मिथः । एकीभवन्ति सरितां पयांसि वलनैर् इव
आभ्यां प्रायः परिज्ञातो मम भावो ऽनयोर् मया । न विनाश्यौ मयेमौ वा स्वयम् एवाविनाशिनौ
मन्ये भवत आत्मज्ञौ नात्मज्ञानाद् ऋते मतिः । प्रमृष्टसदसद्भावा भवत्य् अस्तभया मृतेः
तद् एतौ परिपृच्छामि कञ्चित् सन्देहम् उत्थितम् । प्राप्यं प्राप्य न पृच्छन्ति ये किञ्चित् ते नराधमाः
इति सञ्चिन्त्य पृच्छायै तन् नानावसरं ततम् । अकालकल्पाभ्ररवं हासं संयम्य साब्रवीत्
कौ भवन्तौ नरौ वीरौ कथ्यताम् इति मे ऽनघौ । जायते दर्शनाद् एव मैत्री विषदचेतसाम्
अयं राजा किरातानाम् अस्याहं मन्त्रितां गतः । उद्यतौ रात्रिचारेण त्वादृग्जनविनिग्रहे
राज्ञो रात्रिन्दिनं धर्मो दुष्टभूतविनिग्रहः । स्वधर्मत्यागिनो ये तु ते विनाशानलेन्धनम्
राज्ञस् त्वम् असि दुर्मन्त्री दुर्मन्त्रित्वाद् अराड् अयम् । सद्भूपस्य भवेन् मन्त्री राजा सन्मन्त्रिणा भवेत्
राजैवादौ विवेकेन योजनीयस् सुमन्त्रिणा । तेनार्यताम् उपायाति यथा राजा तथा प्रजाः
समग्रगुणजालानाम् अध्यात्मज्ञानम् उत्तमम् । तद्वद् राजा भवेद् राजा तद्वन् मन्त्री च मन्त्रवित्