आदिसर्गे च नियमः कृतः पङ्कजजन्मना । हिंस्राभिभोजनायास्तु मूढात्मा नात्मवान् इति
तस्माद् इमौ मयैवाद्य भोक्तव्यौ भोज्यतां गतौ । अभव्य एव निर्दोषं प्राप्तम् अर्थम् उपेक्षते
मा कदाचिद् इमौ स्यातां गुणयुक्तौ महाशयौ । तादृङ्नरविनाशो हि स्वभावान् मे न रोचते
तद् एतौ सम्परीक्षे ऽहं यदि तावद् गुणान्वितौ । तद् भक्ष्यं न करोम्य् एतौ न हिंस्या गुणिनः क्वचित्
अकृत्रिमं सुखं कीर्तिम् आयुश् चैवाभिवाञ्छता । सर्वाभिमतदानेन पूजनीया गुणान्विताः
यदि नश्यामि देहेन तन् न भोक्ष्ये गुणान्वितम् । सुखयन्ति हि चेतांसि जीविताद् अपि साधवः
अपि जीवितदानेन गुणिनं परिपालयेत् । गुणवत्सङ्गमौषध्या मृत्युर् अप्य् एति मित्रताम्
यत्राहम् अपि रक्षामि राक्षसी गुणशालिनम् । तत्रान्यश् चानुकुर्यात् तं हृद्विचारम् इवामलम्
उदारगुणयुक्ता ये विहरन्तीह देहिनः । धरातलेन्दवस् सङ्गाद् भृशं शीतलयन्ति ते
मृतिर् गुणतिरस्कारो जीवितं गुणिसंश्रयः । फलं स्वर्गापवर्गादि जीविताद् गुणिसंश्रयात्
तस्माद् इमौ परीक्षे ऽहं कदाचित् प्रश्नलीलया । किं मानज्ञानकाव् एताव् इति तामरसेक्षणौ
आदौ विचार्य सुगुणागुणलेशयुक्तिम् आगस् ततो ऽधिकतरं च गुणाद् यादि स्यात् । कुर्यात् ततस् समुपपत्तिवशेन दण्डं दण्ड्यस्य लघ्व् अथ दृढं धनसम्भवे वा
अथ सा राक्षसी रक्षःकुलकाननमञ्जरी । तमस्य् एवाभ्रलेखेव गम्भीरं निननाद सा
नादान्ते समुवाचेदं प्रीङ्कारपरुषं वचः । गर्जितानन्तरं जातकरकाशनिशब्दवत्
भो भो घोराटवीव्योमपदवीशशिभास्करौ । महामायातमःपीठशिलाकोटरकीटकौ
कौ भवन्तौ महाबुद्धी दुर्बुद्धी वा समागतौ । मद्ग्रासपथम् आपन्नौ क्षणान् मरणकोविदौ
भो भो भूतक किं स्यास् त्वं क्व तिष्ठसि च देहकम् । दर्शयास्यास् तव गिरः को बिभेत्य् अलिनीध्वनेः
सिंहवत् सर्ववेगेन पतन्त्य् अर्थं किलार्थिनः । समम् आकारशब्दाभ्यां भावयास्मान् बिभेषि किम् । न किञ्चिद् दीर्घसूत्राणां सिध्यत्य् आत्मक्षयाद् ऋते
राज्ञेत्य् उक्ते रम्यम् उक्तम् इति सञ्चिन्त्य सा तयोः । प्रकाशायाप्य् अधैर्याय ननाद च जहास च
ततो ददृशतुस् तौ तां शब्दपूरितदिग्गणाम् । स्वाट्टहासप्रभापिण्डपूरप्रकटिताकृतिम्
कल्पाभ्रांशनिकाशेन घृष्टाम् अद्रितटीम् इव । स्वनेत्रविद्युद्वलयावलनाज्वलिताम्बराम्
तिमिरैकार्णवौर्वाग्निज्वालाविवलनाम् इव । गर्जद्घनघटाटोपपीवरासितकन्धराम्
रणद्वदनसंरम्भहाहाहतनिशाचराम् । रोदसीकज्जलस्तम्भलीलयोल्लासितां पुरः
ऊर्ध्वकेशीं सिरालाङ्गीं कपिलाक्षीं तमोमयीम् । यक्षरक्षःपिशाचानाम् अप्य् अनल्पभयप्रदाम्
दरीरन्ध्रलसत्स्वास्यां वातझाङ्कारभीषणाम् । मुसुलोलूखलालातां हलशूर्पकशेखराम्
स्फुरन्तीम् इव कल्पान्ते वैडूर्यशिखरिस्थलीम् । हासघट्टितविश्वेशां कालरात्रीम् इवोदिताम्
घनव्योमाटवीं साभ्रां कृतदेहाम् इवागताम् । शरीरिणीं महाभ्राढ्यां यामिनीम् इव मांसलाम्
शरीरसन्निवेशेन पङ्कपीठीम् इवोत्थिताम् । तनुं चन्द्रार्कयुद्धाय तमसेव समाश्रिताम्
इन्द्रनीलतटश्वभ्रलम्बाभ्रयुगलोपमौ । उलूखलादिहालाढ्यौ दधानाम् असितौ स्तनौ
नग्नाम् अङ्गारकाशेन समालब्धमहातनुम् । द्रुमाभास्पदसमिरललद्भुजलतातनुम्