मूर्धजच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् । आदीर्घाङ्गुलिनिर्यूहं नेष्टं देहगृहं मम
सर्वाङ्गकुड्यसञ्जातघनरोमयवाङ्कुरम् । संशून्यपीठपिठिरं नेष्टं देहगृहं मम
नखोर्णनाभनिलयैश् शारम् आरणितान्तरम् । भाङ्कारकारिपवनं नेष्टं देहगृहं मम
प्रवेशनिर्गमव्यग्रवातवेगम् अनारतम् । वितताक्षगवाक्षं च नेष्टं देहगृहं मम
जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम
त्वक्सुधालेपमसृणं यन्त्रसञ्चारचञ्चलम् । मनोऽमन्दाखुनोत्खातं नेष्टं देहगृहं मम
स्मितदीपप्रभाभासि क्षणम् आनन्दसुन्दरम् । क्षणं व्याप्तं प्रभापूरैर् नेष्टं देहगृहं मम
समस्तरोगायतनं वलीपलितपत्तनम् । सर्वाधिसारङ्गवनं नेष्टं मम कलेवरम्
अक्षर्क्षक्षोभविषमा शून्या निस्सारकोटरा । तमोगहनहृत्कुञ्जा नेष्टा देहाटवी मम
देहालयं धारयितुं न शक्तो ऽस्मि मुनीश्वराः । पङ्कमग्नं समुद्धर्तुं गजम् अल्पबलो यथा
किं श्रिया किं च कायेन किं कामेन किम् ईहया । दिनैः कतिपयैर् एव कालस् सर्वं निकृन्तति
रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने । नाशैकधर्मिणो ब्रूहि केव कायस्य रम्यता
मरणावसरे काया जीवं नानुसरन्ति ये । तेषु तात कृतघ्नेषु केवास्था वत धीमतः
मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः । न सन्त्यजति मां यावत् तावद् एनं त्यजाम्य् अहम्
पवनस्पन्दतरलः पेलवः कायपल्लवः । जर्जरस् तनुवृत्तश् च नेष्टो ऽयं कटुनीरसः
भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवम् । तनुताम् एत्य यत्नेन विनाशम् अनुधावति
तान्य् एव सुखदुःखानि भावाभावमयान्य् असौ । भूयो ऽप्य् अनुभवन् कायः प्राकृतो हि न लज्जते
सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् । नोच्छ्रायम् एति न स्थैर्यं कायः किम् इति पाल्यते
जराकाले जराम् एति मृत्युकाले तथा मृतिम् । समम् एवाविशेषज्ञः कायो भोगिदरिद्रयोः
संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे । सुप्तस् तिष्ठति मुक्तेहो मूको ऽयं कायकच्छपः
दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः । संसाराब्धाव् इहोह्यन्ते कञ्चित् तेषु नरं विदुः
दीर्घदौरात्म्यचलया निपातफलयानया । न देहलतया कार्यं किञ्चिद् अस्ति विवेकिनः
मज्जन् कर्दमकोशेषु झगित्य् एव जरां गतः । न ज्ञायते यात्य् अचिरात् क्व कथं देहदर्दुरः
निस्सारसकलारम्भाः कायाश् चपलवायवः । रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित्
वायोर् दीपस्य मनसो गच्छतो ज्ञायते गतिः । आगच्छतश् च भगवन् न शरीरशरस्य नः
बद्धाशा ये शरीरेषु बद्धाशा ये जगत्स्थितौ । तान् मोहमदिरोन्मत्तान् धिग् धिग् अस्तु पुनः पुनः
नाहं देहस्य नो देहो मम नायम् अहं तथा । इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः
मानावमानबहुला बहुलाभमनोरमाः । शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम्
शरीरसङ्गशायिन्या पिशाच्या पेशलाङ्गया । अहङ्कारचमत्कृत्या छलेन च्छलिता वयम्
प्रज्ञा वराकी सर्वैव कायबद्धास्थयानया । मिथ्याज्ञानकुराक्षस्या छलिता कष्टम् एकिका