नीलमेघपटच्छन्ननिरिन्दुगगनान्तरा । तमालवनसम्पिण्डमण्डलोड्डीनकज्जला
लताघनतया ग्रामकोटरैकान्ध्यमन्थरा । गृहचत्वरसम्बाधनगरे नवयौवना
चत्वरेषु तमःपिण्डप्रजिह्मीकृतदीपिका । कुञ्चिकाच्छिद्रनिष्क्रान्तदीपिकारोमराजिका
स्ववयस्येव कर्कट्याः परिनृत्यत्पिशाचिका । मत्तकङ्कालवेताला काष्ठमौनम् इव स्थिता
सुषुप्तमृतभूतौघा घननीहारहारिणी । मन्दमन्दमरुत्स्पन्दशरत्प्रालेयशीकरा
सरस्सु विरटद्वारिकोकभेकतरङ्गिका । अन्तःपुरेषु रमणरणन्नारीनरानना
जङ्गलेषु ज्वलज्ज्वालजटालज्वलनोज्ज्वला । केदारेष्व् अम्बुसंसेकपुष्टपाकमिलत्सिला
नभस्य् अलक्षितस्पन्दपरिवृत्तर्क्षचक्रका । वनेषु विसरद्वातपतत्पुष्पफलद्रुमा
श्वभ्रेषु कौशिकास्यात्तवायस्याद्याहृतारवा । तस्कराक्रान्तपर्यन्तग्राम्याक्रन्दनकर्कशा
ग्रामेष्व् अचेतनग्राम्या नगरे सुप्तनागरा । वनेषु विसरद्वाता नीडेष्व् अस्पन्दपक्षिणी
गुहासु सुप्तसिंहौघा कुञ्जेषूच्छ्वसितैणका । खे सावश्यायनिकरा विपिने मौनधारिणी
कज्जलाम्भोदमध्याभा काचशैलोदरोपमा । पङ्कपिण्डान्तरघना खड्गच्छेद्यान्ध्यमांसला
प्रलयानिलविक्षुब्धा कज्जलाचलचञ्चला । एकार्णवमहापङ्कपर्वतोदरमेदुरा
अङ्गारकोटिनखरा सौषुप्तपदसुन्दरी । अज्ञाननिद्रानिविडा भृङ्गपृष्ठच्छविच्छविः
तस्यां रजन्यां भीमायां किरातजनमण्डले । मन्त्रिणा सह भूपालस् तस्मिन्न् अवसरे तदा
निर्जगाम सुधीरात्मा नगरात् सुप्तनागरात् । अटवीं विक्रमो नाम विषमां वीरचर्यया
अटव्यां कर्कटी सा तौ चरन्तौ राजमन्त्रिणौ । अपश्यद् धृतधैर्यांशौ वेतालालोकनोन्मुखौ
अथ सा चिन्तयाम् आस लब्धो भक्षो ऽद्य हो मया । मूढाव् एताव् अनात्मज्ञौ भारो देहः किलानयोः
इहामुत्र च नाशाय मूढो दुःखाय जीवति । यत्नाद् विनाशनीयो ऽसौ नानर्थः परिपाल्यते
अपश्यतस् स्वम् आत्मानं मृतिर् मूढस्य जीवितम् । मरणेनोदयो ऽस्यास्ति पापसम्पत्तिहेतुतः
आदिसर्गे च नियमः कृतः पङ्कजजन्मना । हिंस्राभिभोजनायास्तु मूढात्मा नात्मवान् इति
तस्माद् इमौ मयैवाद्य भोक्तव्यौ भोज्यतां गतौ । अभव्य एव निर्दोषं प्राप्तम् अर्थम् उपेक्षते
मा कदाचिद् इमौ स्यातां गुणयुक्तौ महाशयौ । तादृङ्नरविनाशो हि स्वभावान् मे न रोचते
तद् एतौ सम्परीक्षे ऽहं यदि तावद् गुणान्वितौ । तद् भक्ष्यं न करोम्य् एतौ न हिंस्या गुणिनः क्वचित्
अकृत्रिमं सुखं कीर्तिम् आयुश् चैवाभिवाञ्छता । सर्वाभिमतदानेन पूजनीया गुणान्विताः
यदि नश्यामि देहेन तन् न भोक्ष्ये गुणान्वितम् । सुखयन्ति हि चेतांसि जीविताद् अपि साधवः
अपि जीवितदानेन गुणिनं परिपालयेत् । गुणवत्सङ्गमौषध्या मृत्युर् अप्य् एति मित्रताम्
यत्राहम् अपि रक्षामि राक्षसी गुणशालिनम् । तत्रान्यश् चानुकुर्यात् तं हृद्विचारम् इवामलम्
उदारगुणयुक्ता ये विहरन्तीह देहिनः । धरातलेन्दवस् सङ्गाद् भृशं शीतलयन्ति ते
मृतिर् गुणतिरस्कारो जीवितं गुणिसंश्रयः । फलं स्वर्गापवर्गादि जीविताद् गुणिसंश्रयात्